Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(३२९) ...... अथ कृत्यप्रत्ययाः। (तव्यानीयौ) भाव कार्ययोः ॥ एधितव्यम् । एधनीयम् । आसितव्यम् । आसनीयम् । पातव्यम् । पानीयम् ॥ __(सुबोधिनी)-तव्यानीयौ ॥ कृत्यसंज्ञकान्प्रत्ययानाह-तव्यानीयौ धातोरतो प्रत्ययौ स्तः भावकर्मणोः ॥ नव्यप्रत्ययमनीयप्रत्ययं चाह -एध वृद्धौ । कृत इतीट् । एधितव्यम् एधनीयं त्वया । आस उपवेशने । आसितव्यम् । आसनीयम् ॥ भावे औत्सर्गिकमेकवचनं क्लीवत्वं च ॥
(तत्त्वदी०)-तव्यानीयाविति ॥ एधनीयमिति । भावे एकवचनमेव औत्सर्गिकत्वात् । क्लीबत्वं च लिङ्गाविशेषात् । “कृत्याः पञ्च समाख्याताः क्यब्ध्यणौ भावकर्मणोः । तव्यानीयौ स्वराद्यश्च केलिमः कर्मकर्तरि ॥" - (वसेस्तव्यः कर्तरि णिच) वसतीति वास्तव्यः ॥
(सुबोधिनी)-वसेस्तव्यः कर्तरि णिच्च ॥ वस निवासे इत्यस्यैव ग्रहणं न तु वस आच्छादने इत्यस्य लुम्विकरणत्वात् । वस निवासे अस्मात्कर्तरि तव्यः स्यात्स च णित् ॥ णित्त्वादृद्धिः । वास्तव्यः॥
(तत्त्वदी०) वसेरिति॥वस निवास इत्यस्यैव ग्रहणं न तुवस आच्छादन इत्यस्य॥ वास्तव्य इति॥णित्वाद्वृद्धिः।वस्तुनि भवो वा तव्य इति ण्यप्रत्ययेणैव रूपसिद्धिमिच्छन्तः केचिदेतन्न मन्यन्ते।
(केलिमः) सौकये धातोः केलिमः प्रत्ययो भवति ॥ पचेलिमा माषाः। भिदलिमाः सरलाः ॥ . (सुबोधिनी) केलिमः॥ धातोः कर्मणि केलिमः प्रत्ययः स्यात ॥ कित्त्वान्न गुणः॥ डुपचष् पाके । पचेलिमा माषाः। पक्तव्या इत्यर्थः॥ भिदिर विदारणे । भिदेलिमाः सरलाः ॥ - (स्वरायः) स्वरान्ताद्धातोर्यः॥ चेयम् । जेयम् । तव्यादयोऽपि। चेतव्यः । चयनीयः । दित्स्यम् ॥ . (सुबोधिनी)-स्वराद्यः॥ स्वरग्रहणं धातोर्विशेषणम् । विशेषणेन तदन्तविधिः। चिञ चयने । चेयम् ॥ जि जये । जेयम् ॥ तव्यादयोऽपि भवन्ति । चेतव्यः॥ चयनीयः॥डुदाञ् दाने अस्मादिच्छायामात्मनः सः इति सः 'इस्से' इति इसादेशः। द्वित्वलोपश्च । सस्तोऽनपीति सस्य तः। दित्सति । सान्ताद्यप्रत्यये यत इत्यलोपः। दित्स्यते इति दित्स्यम् ॥ .
(तत्त्वदी०)-स्वराद्य इति॥ यद्भाव्यं तद्भविष्यति' इत्यत्र तु ओरावश्यक इति ध्यण । अत्र स्वरग्रहणं चिन्त्यं धातोर्द्विविधत्वेनैव हसान्ताद्वयणो विधानेन परिशेषात्स्वरान्तलाभात् । यदि तु यत
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372