Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 347
________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( ३२७ ) ( द्वितोsथुः ) द्वितो धातोरथुर्भवति भावादौ ॥ टुवेट कम्पने ॥ वेपनं वेपथुः । नन्दथुः । श्वयथुः ॥ (सुबोधिनी) - द्वितोऽथु ॥ अयमपि स्वभावाद्भावे एव ॥ टुवेट कम्पने वेपथुः ॥ टुना समृद्धौ । नन्दथुः ॥ टुओश्विर् गतिवृद्धयोः । श्वयथुः ॥ (तत्त्वदी० ) - द्वितोऽथ रेति ॥ टुरिद्यस्य स द्वित् तस्मात् ॥ ( तिमि तत्कृते ) द्वितो धातोत्रिमक् प्रत्ययो धात्वर्थेन कृतेऽर्थे ॥ करणेन निर्वृत्तः कृत्रिमः घटः । पवित्रमः ॥ (सुबोधिनी) - तिस्त्रिमक् तत्कृते ॥ धात्वर्थनिर्वृत्तेऽर्थे । (अयं स्वभावाद्भावे) कित्त्वात्संप्रसारणादि । डुकृञ् करणे । करणेन निर्वृत्तः कृत्रिमः ॥ डुपचष् पाके पाकेन निर्वृत्तः पवित्रमः । डुवय् बीजसंताने । वापेन निर्वृत्तम् । यजामिति संप्रसारणम्। उत्रिमम् ॥ 3 - (तत्त्वदी ० ) - ति इति । डु इद्यस्य स डित् तस्मात् ॥ तत्कृते इति ॥ थेंन कृतस्तत्कृतस्तस्मिन्नित्यर्थः । (यद्यपि भावादावित्यनुवर्तते तथापि स्वभावाद्भाव एवैतद्वयम् ॥ न हि कृतेन निवृत्तमित्येवं कापि विग्रहः ॥ ) (नङ्की) धातोर्नको प्रत्ययौ भावादौ ॥ यज इज्यन्ते देवा अनेनेति यज्ञः । याच्ञा । पती यत्नः । प्रच्छविच्छोः शो नेऽसंप्रसारणं च । प्रश्नः । विश्नः । रक्ष गलने । रक्षणः । स्वप्नः । अन्तः धीयते यः सः अन्तर्द्धिः । आधिः । विशेषेण जनेषु पीडा आधीयतेऽनेनेतिः व्याधिः । प्रकर्षेण दधाति रथमार्गमनेनेति प्रधिः । वारि धीयते - ऽस्मिन्निति वारिधिः । पाथः धीयतेऽस्मिन्निति पाथोधिः ॥ (सुबोधिनी) - नङ्की ॥ ङकारककारावितौ । एतौ भावेऽकर्तरि कारके च भवतः॥ नङ्प्रत्ययमाह-क्ङिति चेति गुणो न । यज देवपूजादौ । श्चुत्वम् । यज्ञः । 'यज्ञः सवोऽध्वरो यागः' इत्यमरः ॥ टुयाच याच्ञायाम् । याच्ञा ॥ यती प्रयत्ने । यत्नः ॥ क्ङितिं झसे जमे चेत्यनेन प्रच्छविच्छाः शो ने । ग्रहामिति संप्रसारणं न भाष्यानुक्तत्वात् । प्रच्छ ज्ञीप्सायाम् प्रश्नः ॥ विश प्रवेशने । विश्वः ॥ रक्ष पालने । रक्ष्णः ॥ ञिष्वप् शये । स्वमः । किमत्ययमाह - डुधाञ् धारणादौ । आतोऽनपीत्यालोपः।अन्तर्द्धिः ॥ प्रधिः ॥ पयांसि धीयन्तेऽस्मिन्निति पयोधिः । वारिधिः ॥ ( तत्त्वदी ० ) - नङ्की ि॥ न च किश्व नङ्की । यज्ञ इति ॥ यजनं यज्ञः । "यज्ञार्थात्र्मणोsन्यत्र लोकोऽयं कर्मबन्धन:' इत्यत्र तु इज्यत इति यज्ञो विष्णुरिति कर्मणि ॥ याच्ञेति ॥

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372