Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 350
________________ ( ३३० ) सिद्धान्तचन्द्रिका | [ उत्तरकृदन्तप्रक्रिया ] इत्यत्रानपीति विषयसप्तमी तदा भूतपूर्वस्वरान्तादपि यइत्येतदर्थं स्वरग्रहणम् । तेन दिन्स्यमित्यादौ यः । वस्तुतस्तत्र स्वरग्रहणे प्रयोजनाभावाद्वयण्यपि न क्षतिरिति येयम् ॥ (ई चातः) आदन्ताद्धातोर्य आकारस्य च ईकारः ॥ देयम् । ग्लेयम् । गेयम् ॥ ( सुबोधिनी ) - ई चातः ॥ डुदाञ् दाने । देयम् ॥ गे शब्दे । गेयम् ॥ ग्लै हर्ष - क्षये । ग्लेयम् ॥ 2 ( तत्त्वदी ० ) -- ई चात इति ॥ इ इति ह्रस्व एव सुपठः । तु वासुदेवेनोक्तं दीर्घेकार विधान चकारात्खनेर्ये नस्येत्वे खेयमिति रूपसिद्धये अन्यथा पक्षे आत्वं सादिति तद्भाष्यविरोधादुपेक्ष्यम् ॥ ( पुशकात) पवर्गान्ताच्छकादेश्व यप्रत्ययः ॥ शप्यम् । यम्यम् । जप्यम् । शक्यम् । सह्यम् ॥ (सुबोधिनी) - पुशकात् । अत्र ध्यण्न भवति तव्यादयस्तु स्युरेव ॥ शप उपालम्भे । शप्यम् ॥ यमु उमरमे । यम्यम् ॥ जप व्यक्तायां वाचि | जप्यम् ॥ शकादेस्तु शक्ल शक्तौ । शक्यम् ॥ षह मर्षणे । सह्यम् ॥ (तत्त्वदी ० ) - पुशकादिति ॥ पुश्च शकश्च पुशकं तस्मात् ॥ ( ऋहसान्ताद् घ्यण् ) ऋवर्णान्ताद्धसान्ताद्धातोर्घ्यण् भावकार्ययोः ॥ कार्यम् । हार्यम् । वाह्यम् । घात्यम् । पाक्यम् । वाक्यम् । रोग्यम् ॥ ( सुबोधिनी ) - ऋहसान्ताद् ध्यण् ॥ ऋ इति धातोर्न ग्रहणं किंतु ऋवर्णस्य हससाहचर्यात् । घित्त्वाञ्चजोः कगाविति कगौ । णित्त्वाद् वृद्धिः। डुकृञ् करणे। कार्यम् ॥ हृञ् हरणे | हार्यम् ॥ वह प्रापणे । वाह्यम् । हन हिंसागत्योः । हनो घदिति घत् । घात्यम् ॥ डुपचष् पाके । पाक्यम् ॥ रुज रोगे । रोग्यम् । वच परिभाषणे । वाक्यम् ॥ (तत्त्वदी ० ) - ऋहसान्तादिति ॥ आ च हसश्च ऋहसं तस्मात् । घो घित्कार्यार्थः । णो वृद्धयर्थः । ( यणि कचित्कुत्वाभावः ) याज्यम् । याच्यम् । प्रवाच्यम् । रोच्यम् । अर्च्यम् । O 1 (सुबोधिनी) -- ध्यणि क्वचित्कुत्वाभावः ॥ यजू याच् प्रवच् रुच् ऋच् एषां कुत्वं न ध्यणि ॥ यज देवपूजादौ । याज्यम् ॥ टुयाचु याच्ञायाम् । याच्यम् । वच परिभाषणे प्रपूर्वः । प्रवाच्यं ग्रन्थविशेषः ॥ रुच दीप्तौ रोच्यम् ॥ ऋच स्तुतौ । अर्च्यम् । अत एव ऋदुपधादिति क्यप्तु न भवति ॥ (ओरावश्यके ) उवर्णान्तादावश्यकेऽर्थे घ्यण् ॥ (सुबोधिनी) - ओरावश्यके ॥ अवश्यमेवेत्यावश्यकं तस्मिन् ॥

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372