Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 354
________________ (३३४) सिद्धान्तचन्द्रिका। [उत्तरकृदन्तप्रक्रिया ] (स्त्रियां यजां भावे) यजादेर्धातोः स्त्रियां भावे क्यम् ॥इज्या । व्रज्या । समज्या । निषद्या । निपत्या । मन्या । विद्या। सुत्या । शय्या। भृत्या । इत्या । कृत्या॥ .. (सुबोधिनी )-स्त्रियां यजा भावे॥क्यप्प्रत्ययम ह--पित्त्वात्तु।कित्त्वाद् गुणनिषेधः संप्रसारणं च । यज देवपूजादौ । यजामिति संप्रसारणम् । यजनमिज्या ॥ व्रज गतौ । व्रजनं व्रज्या ॥ अज गतौ क्षेपणे च । समजन्त्यस्यामिति समज्या सभा। अजेः क्यपि वीभावोन निपातनात्॥षद्ल विशरणादौ । निषीदन्त्यस्यामिति निषद्या आपणः। प्रादेश्चेति षत्वम् । पल पतने । निपतन्त्यम्यामिति निपत्या पिच्छिला भूमिः ।। मन ज्ञाने । मन्यतेऽनयति मन्या गलपार्श्वनाली ॥ विद ज्ञाने । विदन्त्यनयेति विद्या ॥ षुञ् अभिषवे । ह्रस्वस्येति तुक् । सुत्या अभिषवः । शी स्वप्न । शरतेऽस्यामिति । शीङोऽयङ् । ये क्ङितीत्ययङ् । शय ॥डुभृञ् धारणादौ । भृत्या जीविका ॥ इण गतौ । ईयतेऽनयेति इत्या शिविका । डुकृञ् करणे कृत्या। _ ( तत्त्वदी०)-स्त्रियां यजामिति ॥ वहुवचनमाद्यर्थम् । तेन यज शी व्रज विद पुञ् . मन विद भृञ् अटाट्य इण् समज निषद निपत कृञ् हन् एषां ग्रहणम्॥इज्येति।कित्त्वात्संप्रसारणम् । समज्या सभा ॥ निषद्या आपणः ॥ निपत्या पिच्छिला भूमिः॥ मन्यतेऽनया क्रुद्धादिरिति मन्या गलपार्वशिरा॥विद्यते ज्ञायतेऽर्थतत्त्वमनया विद्या॥सूयते से मोऽत्रेति सुत्याऽभिषघदिवसः ।। शय्यतेऽस्यां शय्या खटादि ॥ भरणं भृत्या वेतनम् । ईयते गम्यते नयेति इत्या शिबिका दिः॥ भृतिमतिरासूतिरिति तु सूत्रेषु निपातनात् ।। (कृयो यग्वा) अयकि। क्रिया ॥ इरिच्छति निपातः। इषेः शः। छत्वादेशः । इच्छा । सर्तेर्गुणः परिसर्या । अटाट्या । आस्या । जागतेर्गुणः जागा ॥ (सुबोधिनी)-कृञो यग्वा ॥ करांतेर्यक् प्रत्ययं वा स्यात् यक्प्रत्ययाभावे शप्रत्ययो निपातनाद्भवति भावकर्मणोरर्थयोः ॥ यक्प्रत्यय अयकीति रिङ आप च । क्रिया ॥ इषु इच्छायामस्मात् शप्रत्ययो निपात्यते । शित्त्वाच्चतुर्वकार्यम् । तेन गमामिति छः । आवत इत्याप् । इच्छा॥सृ गतौ अस्मात् शप्रत्यययक्प्रत्ययौ निपात्येते धातोर्गुणश्च । शप्रत्यये यक्चतुविति यक् । यत इत्यलोपः आपू । परिसरणं परिसर्या । यकि तु निपातनाद्गुणः। परिसर्या॥अटगतौ । अस्मादपि शयको निपात्यते। शप्रत्यये तु यक् चतुविति यक्। यत इत्यलोपः। निपातनात् ट्यशब्दस्य द्वित्वम्।पूर्वभागे यकारनिवृत्तिदीर्घावपि निपातनात्। आवत इत्याप । अटाट्या ।यकि तु ट्यश ब्दस्य द्वित्वम् ।यकारनिवृत्तिदर्षोिं पूर्ववदेव । अटाट्या । अन्ये तु अट गतावस्मात् सूचिसूत्रिमूव्यटीति यङ् । स्वरादोरिति ट्यशब्दस्य द्वित्वम्।आत इति पूर्वस्यात्वम् ।

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372