Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 348
________________ (३२८) सिद्धान्तचन्द्रिका। [उत्तरकृदन्तप्रक्रिया ] यद्यपि नङन्ताः पुस्येव तथाप्ययं स्त्रीलिङ्गः स्वभावात् ॥ प्रश्न इति ॥ संज्ञापूर्वकत्वेनानित्यत्वान्न संप्रसारणम् ॥ अन्तद्धिरिति ॥ कित्त्वादातो लोप इत्यालोपः ॥ आधिरिति ॥ आधानमाधीयत इति वा ॥ वारिधिरिति ॥ वारीणि धीयन्तेऽस्मिन्नि ते वारिधिः ॥ (युट भावे च) ज्ञानम् । करणम् । कारणम् ॥ (सुबोधिनी)-युट भावे च॥ धातोर्भावे युट् स्याञ्चकारात् युण च ॥ युवारित्यनादेशः । डित्त्वादीप् । णित्त्वाइद्धिः। ज्ञा अवबोधने । ज्ञानम् । डुकृञ् करणे । करणम् । युण् प्रत्ययः । कारणम् ॥ । (साधनाधारयोश्च) पच्यतेऽनेनेति पचनोऽग्निः । पच्यतेऽस्यां पचनी स्थाली ॥ (सुबोधिनी)-साधनाधारयोश्च ॥ साधनेऽधिकरणे चार्थे धातोर्युट् प्रत्ययः स्यात् ॥ डुपचष् पाके ॥ 'पच्यतेऽननेति पचनः । अत्र रणे युट । व्रित इतीप् । पच्यतेऽस्यामित्यधिकरण युट् । पचनी ॥ (ईषदःसुष खल्यू) ईषदादिषु प्रयुज्यमानेषु खल्यू एतौ स्तो भावादौ ॥ ईषद्भवः। दुर्भवः। सुकरः। दुःखेन यु यते इति दुर्योधनः । दुःखेन शिष्यते इति दुःशासनः । कर्तृकर्मणोश्व्यर्थयोरीषदादिषु चोपपदेषु भूकृञोः खल् । अदुराढयेन दुराढ न भूयते दुरायम्भवं भवता । अस्वाढयः स्वादयः क्रियते स्वाढयङ्करः॥ (सुबोधिनी)--ईषदुःसुषु खल्यू ॥ एषूपपदेषु धातोः खल्यू प्रत्ययौ स्तः भावे कर्मणि च॥ खल्यूप्रत्ययाभाह-खित्त्वात् खिति पदर येति नुम् । भू सत्तायाम् । ईषद्भवः॥ दुर्भवः। डुकृञ् करणे । सुकरः॥युप्रत्ययमाह-रध संप्रहारे । दुःखेन युध्यत इति दुर्योधनः॥ दुःखेन शिष्यते इति । शासु अनुशिष्टौ । दुःशासनः। दुरिति कृच्छ्रार्थ वर्तते । इतरौ त्वकृच्छार्थे वर्तेते । कर्तृकर्मणोश्व्य र्थयोपिदादिषु चोपपदेषु भूकृञोः खल् । कर्तृकर्मवाचकौ शब्दौ धातारेव्यवधानन प्राक् प्रयुज्यते । ईषदादयस्तु ताभ्यां प्राक् प्रयोज्याः । दुःखेनाढयेन भूयते इति दुराव्यम्भवं भवता । अक्तादाविति निषेधात्कर्तरि तृतीया ॥ सुखेनाढयः क्रियते स्वाव्यङ्करः गः॥ __(तत्त्वदी०) ईषदुःसुषु॥ खल् च युश्च खल्यू । लकार इखखीत्यत्रोक्तात्खपत्ययाद्भेदज्ञापनार्थः । खकारो मुमागमार्थः ॥ ईषद्भव इति ईषद्भवनम् ॥

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372