Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
(३२६) सिद्धान्तचन्द्रिका। [उत्तरवृदन्तप्रक्रिया ] ( तत्त्वदी० )-भाव इति ॥ बाहुलकादनुपसर्गाद्भुवोऽपि ध्ञ् ॥ उपाध्यायेति ॥ ननु घान्तस्य पुंस्त्वनियमात्कथं स्त्रीत्वमिति चेत्सत्यम् । अपादाने स्त्रियामप्यभिधानात् । उपाध्यायी ॥
(स्वरादः) भावादौ । घञोऽपवादः॥ चयनं चयः। नयनं नयः॥ षिञ् बन्धने। विशेषेण सीयन्ते बध्यन्ते जना अनेनेति विषयः। स्तूयतेऽनेनेति स्तवः। सवनं सवः । लवनं लवः । कृञ् क्रियते कार्यमनेनेति करः। गिरत्यनेनेति गरः-गलः। द्वयाद्युपसर्गहीनस्य छादेईस्वोऽप्रत्यये । परिच्छदः छत्रम् । दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः ओष्ठः। द्वयादीति किम् । अन्ववप्रच्छादः। समवपरिच्छादः ॥
(सुबोधिनी)-स्वरादः ॥ स्वरान्ताद्धातोरप्रत्ययः स्याद्भावादौ॥ घजोऽपवादः। चिञ् चयने । चयः॥णी प्रापणे । नयः। पिञ् बन्धने विपूर्वः। विषयः॥ ष्टुञ् स्तुतौ । स्तवः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः॥ ञ् छेदने । लवः । 'लवलशकणाणवः' इत्यमरः ॥ कृ विक्षेपे । करः । गृ निगर । गरः-गलः ॥
(मदामः) मदादीनामप्रत्ययो भावादौ॥ मदः। पणः । प्रमदः। संमदः । शमः । श्रमः॥
(सुबोधिनी)-मदामः ॥ मदादिभ्योऽप्रत्ययः स्याद्भ वादौ ॥ मदी हर्षे । मदः। प्रमदः । संमदः ॥ पण व्यवहारे स्तुतौ च । पणः॥ शम् उपशमे । शमः॥श्रमु तपसि खेदे च । श्रमः ॥
(तत्त्वदी०)-मदामिति॥ मद इति॥मद्यतेऽनेनेति करणाद वपि। कथं 'प्रमादोऽनवधानता', इति । बाहुलकाद्धञपि । यद्वा मद एव माद इति स्वार्थिकणान्तस्य प्रशब्दने पश्चात्समासः ॥ श्रम इति ॥ अथ कथं विश्राम इति । अपाणिनीयमिति तु दी अतः । 'विश्राम लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः' इत्यादौ तु विश्रान्तिपदप्रक्षेपेणाप्युपपत्तिः । विश्रामभूरिति त्वन्याय्यमेवेति वामनादयः । वस्तुतस्त्वत्रापि प्रमादशब्दवत्समाधानम् ॥
(मूर्ती घनः) काठिन्ये परिच्छेदे च हन्तेरप्रत्ययो घनादेशश्च ।। दधिधनः । सैन्धवघनः॥ __ (सुबोधिनी)-मूर्ती घनः॥ मूर्तिः काठिन्यं परिच्छेदश्च तस्मिन्नभिधेये हन्तरः स्थाद्धातोर्घनादेशश्च ॥ कठिनं दधि इति दधिधनः । परि छेदे सैन्धवधनः ॥
(तत्त्वदी०)-मूर्ती घन इति ।। मूर्तिः काठिन्यम् ॥ (हनो वधोऽप्रत्ययश्च) हननमिति वधः॥
(सुबोधिनी)-हनो वधोऽप्रत्ययश्च ॥ अनुपसर्गाद्धन्तेर्भाव अप्रत्ययः स्याद्धातोर्वधादेशश्च ॥ वधः । चकाराद्धपि । हनो घदिति धदादेशः। घातः ॥
Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372