Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 341
________________ [पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (३२१) (जनेररष्ठ च ) जठरम् ॥ (सुबोधिनी)-जनेररष्ठ च ॥ जन जनने जनी प्रादुर्भाव च आभ्यामरप्रत्ययः स्याद्धातोर्नस्य ठश्च ॥ जठरः । 'जठरः कठिनेअप स्यात्' इत्यमरः ॥ ( हर्यतेः कन्यो हिर च) हिरण्यम् ॥ ( सुबोधिनी)-हर्यतेः कन्यो हिर् च ॥ हर्य गतिकान्त्योरस्मात् कन्यप्रत्ययःस्याद्धातोर्हिरादेशश्च ॥ कित्त्यान्न गुणः । हिरण्यं सुवर्णम् ॥ ( कृत्रः पासः) कर्पासः॥ ( सुबोधिनी)-कृतः पासः॥ डुकृञ् करणे अस्मात्पासप्रत्ययः स्यात् ॥ कर्पासः। अणि प्रत्यये कार्पासं वस्त्रम् ।। ( ऊर्णोतेर्डः ) ऊर्णा ॥ ( मुबाधिनी)-ऊर्णोतेर्ड ॥ऊर्णज्ञ आच्छादने अस्माड्डप्रत्ययः स्यात् ॥ डित्त्वाट्टिलोपः । ऊर्णा । 'ऊर्णा मेषादेलोम्नि स्यादावर्ते चान्तरा ध्रुवौ' इत्यमरः॥ध्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः । अन्तरायोगे भुवाविति द्वितीया ॥ (दधातयों नुट् च ) धान्यम् ॥ ___ (सुबोधिनी)-दधातेय तुट च॥डुधाधारणपोषणयोरस्माद्यप्रत्ययःस्यात्प्रत्ययस्य नुडागमश्च ॥ धान्यम् । 'धान्यं व्रीहिषु धान्याके' इति मेदिनी। - ( तनोतेर्डउः सवच ) तितउः॥ (सुबोधिनी)-तनोतेर्ड:सवच्च॥ तनु विस्तारे अस्मात् डउःप्रत्ययःस्यात्स डउप्रत्ययः सप्रत्ययतुल्यो भव ते॥ तेन द्वित्वादि । डित्त्वाट्टिलोपः। यः से इति पूर्वस्ये. त्वम् । पृथगुच्चारणसामर्थ्याद गुणो न । तितउः। 'तितउः पुंसि क्लीचे च। 'चालनी तितउः पुमान' इत्यमरः॥ ( तत्त्वदी० )-तितउरिति। चालन्याम् । भाष्ये क्लीबनिर्देशात् क्लीबता चालनी तितउः. पुमान्' इत्यमरोक्तेः पुंस्त्वमपि ॥ (अर्भकादयः) ऋधु अर्भकः॥ (सुबाधिनी)-अर्भकादयः ॥ अर्भकादयो निपात्यन्ते ॥ ऋधु वृद्धावस्मादकन्प्रत्ययो धातोर्धकारस्य भश्च निपान्यते ॥ अर्भकः । 'अर्भकः कथितो बाले मूर्वेऽपि च कृशेऽपि च' इति मेदिनी ॥ (प्रथेरुकः संप्रसारणं च ) प्रथ पृथुकः ॥

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372