Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
[ उत्तरकृदन्तप्रक्रिया ] . टीकाद्वयोपेता।
(३२३) ( सुबोधिनी)-ग्रहेरनिः॥ ग्रह उपादाने अस्मादनिप्रत्ययः स्यात् ॥ ग्रहणिः । कृदिकारादितीप् । ग्रहणी । ग्रहणी रुक् प्रवाहिका' इत्यमरः ॥
(प्रथेरमः) प्रथमः॥ __ (सुबोधिनी)-प्रथेरमः ॥ प्रथ प्रख्यानेऽस्मादमप्रत्ययः स्यात् ॥ प्रथमः । 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' इत्यमरः॥ प्रथमचरमेति वैकल्पिकं सर्वादिकार्यमस्य ॥
( चरेश्च ) चरमः । (सुबोधिनी )--चरेश्च ।। चर गतिभक्षणयोरस्मादमप्रत्ययः स्यात् ॥ चरमः॥
(मङ्करलः) मङ्गलम् ॥ (सदोणादयः) सर्वस्मिन्काले उणादयः॥ उणादयोऽपरिमिताः प्रयोगमनुसृत्य प्रयोक्तव्याः ॥ इत्युणादौ पञ्चमः पादः॥
(सुबोधिनी)-मनेरलः ॥ मगि गतावस्मादलप्रत्ययः स्यात् ॥ मङ्गलम् । "मङ्गला सितदूर्वायामुमायां मुसि भूमिजे । नपुंसकं तु कल्याणे सर्वार्थरक्षणेऽपि च" इति मेदिनी ॥ इति सुबोधिन्यामुणादौ पञ्चमः पादः ॥
( तत्त्वदी० )-उणादय इति।तथा चोणादिषु प्रयोग दृष्ट्वैव प्रकृतिप्रत्ययानुबन्धकल्पनं कार्यमित्यर्थः ॥ कृतायामिह टीकायां लो शकरशर्मणा । उणादिप्रक्रिया चेयं सम्पूर्तिमगमत्परा ॥
इति पूर्वकृदन्तप्रक्रिया समाप्ता ।
अथोत्तरकृदन्तप्रक्रिया। (तुम् तदर्थायां भविष्यति ) धातोर्भविष्यति काले तुम् प्रत्ययस्तदर्थायां क्रियायां गम्यमानायाम् ॥ गुडं भोक्तुं व्रजति । व्याकरणं पठितुमीष्टे ॥
(सुबोधिनी )--तुम् तदर्थायां भविष्यति ॥ क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोर्भावे तुम् प्रत्ययः स्यात् । तच्छब्देन क्रिया, सा अर्थः प्रयोजनं यस्याः सा क्रियार्था तस्याम् क्त्वाद्यन्तं चेत्यव्ययसंज्ञा । भुज पालनादौ । भोक्तुं व्रजति देवदत्तः । भविष्यद्रूपं यद्भोजनं तत्प्रयोजनकं देवदत्तकर्तृकं व्रजनमित्यर्थः॥पठ व्यक्तायां वाचि । कृत इतीट् । पठितुमीष्टे देवदत्तः । भविष्यद्रपं यत्पठनं तत्प्रयोजनकं देवदत्तकर्तृकं कामनमित्यर्थः॥
Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372