Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 340
________________ ( ३२० ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ] ( सुबोधिनी ) - हन्तेः शरीरावयवे द्वे च ॥ हन हिंसागत्योरस्मादः स्याद्धातोद्वित्वं च ॥ पूर्वाद्धन्तेरिति हस्य घः । जघनम् । 'पश्चान्नितम्बः स्त्रीकटयाः क्लीबे तु जवनं पुरः । ' इत्यमरः ॥ ( तत्त्वदी ० ) - जघन मेति ॥ ' पश्चान्नितम्बः स्त्रीकट्याः श्रीवे तु जघनं पुरः || (क्लिशेर्लस्य लोपश्च ) कशः ॥ ( सुबोधिनी) - क्लिशेर्लस्य लोपश्च ।। क्लिशु विबाधने अस्मादः स्याद्धातोर्लकारस्य लोपश्च ॥केशः | "केशः स्यात्पुंसि वरुणे हीबरे कुन्तलेऽपि च' इति मेदिनी ॥ ( फलेरितः फस्य पः ) पलितम् ॥ (सुबोधिनी ) - फलेरितः फस्य पः ॥ फल निष्पत्तावस्मादितप्रत्ययः स्याने द्धातोरादेर्वर्णस्य पवं च ॥ पलितम् । 'पलितं जरसा शौक्ल्यम्' इत्यमरः ॥ 'पलितं शैलजे तापे केशपाशे च कर्दमे' इति मेदिनी ॥ (कृञादेर्वु : ) करकः । कटकः । कुर गतौ । कोरकः । नरकः । (सुबोधिनी)--कृञादेर्बुः। वुप्रत्ययमाह-- पुवोरित्यकादेशः । डुकृञ् करणे । करकः कमण्डलुः । करको वृष्टिपाषाणः ॥ कटे वर्षावरणयोः । कटको वलयः ॥ नृ नये । नरकः । ' स्यान्नारकस्तु नरको निरयो दुर्गातिः स्त्रियाम् इत्यमरः ॥ ' नरकः पुंसि निरये देवारातिप्रभेदयोः' इति मेदिनी ॥ ( तत्त्वदी ० ) -- कृ० ॥ कोरक इति ॥ कोरकोऽस्त्री कुमले स्यात्कक्कोलकमृणालयोः' इति मेदिनी ॥ 'कोरकः पुमान्' इत्यमरस्य प्रायेण पुमानिति व्याखानान्न दोषः ॥ नरक इति ॥ नारकोऽपि च ॥ (चीकयतेराद्यन्तविपर्ययः ) चीक आमर्षणे । कीचकः ॥ ( सुबोधिनी) - ची कयतेराद्यन्तविपर्ययः ॥ चीक आमर्षणे चुरादिरस्याद्यन्तविपर्ययः वुश्च जेरिति ॥ ञिलोपः । कीचकः । ' कीचको ध्वनिमद्वंशे दैत्यभेदे दुमान्तरे' इति हैमः ॥ ( तत्त्वदी १ ) कीचक इति ॥ वायुना शब्दकारी सच्छिद्रो वंशः ॥ O ( पचिमच्योरिरतः ) पेचकः । मच कल्कने । मेचकः । ( सुबोधिनी ) - पचिमच्योरिरतः । एतयोरुपधाया अत इः स्याद्दुप्रत्ययश्च ॥ गुणः । डुपचषू पाके । पेचकः । 'उलूके करिणः पुच्छमूलोपान्ते च पेचकः' इत्यमरः॥ 'पेचको गजलाङ्गूले मूलोपान्ते च कौशिके' इति मेदिनी ॥ मच कल्कने । मेचकः । "मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्ते वाच्यवत्क्लीवं स्रोतोऽञ्जनान्धकारयोः' इति मेदिनी ॥

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372