Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 337
________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (३१५) (सुबोधिनी)-अप्पूर्वः सतिः॥ मृ गतावप्पूर्वः । अप्सराः । स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सराः इति शब्दार्णवः । 'अप्सरस्स्वप्सराः प्रोक्ताः सुमनाः सुमनःसु च' इति द्विरूपकोशः॥ (तत्त्वदी० )-अप्सरा इ ते ॥ प्रायेण भूम्नि अप्सरसः ॥ (पुरुपूर्वो रौतिः) पुरूरवाः॥ इत्युणादौ चतुर्थः पादः॥ (सुबोधिनी)-पुरुपूर्वो गतिः॥रु शब्दे पुरुपूर्वः । पुरुशब्दान्तस्य दी? निपातनात्। पुरूरवाः । 'पुरूरवां बुधसुतो राजर्षिश्च पुरूरवाः' इत्यमरः ॥ इति सुबोधिन्यामुणादौ चतुर्थः पादः ॥ ४॥ ( अदि भुवो डुतः) अद्भुतम् ॥ (सुबोधिनी)-अदि भुवो दुतः ॥ अदित्यव्ययमाकस्मिकार्थे । तस्मिन्नुपपदे भूधातोडुतः प्रत्ययः स्यात् ॥ डित्त्वाहिलोपः । अद्भुतम् आश्चर्यम् ॥ (गुधेरूमः) गोधूमः ॥ (सुबोधिनी)-गुधेरूमः॥ गुध परिवेष्टने अस्मादूमः स्यात् ॥ गुध्यते परिवेष्टयत प्राणिभिरिति गोधूमः । 'गोधूमा नागरङ्गे स्यादोषधीव्रीहिभेदयोः' इति मेदिनी ॥ (मसेरूरः) मसूरः। ( सुबोधिनी)-मसेरूरः। मसी परिणामे अस्मादूरः स्यात् ॥ मसूरः ॥ (तृहेक्नो हलोपः तृणम् ॥ - (सुबोधिनी) तृहेः क्नो हलोपः॥ तृह हिंसायामस्मात् क्नः स्याद्धातोर्हस्य लोपश्च ॥ कित्त्वाद् गुणाभावः तृणम् ॥ (दंसेष्टो न आ च ) दासः। (सुबोधिनी)-दसेष्टो नआ च॥दसि दंशनदर्शनयोरस्मादृप्रत्ययःनस्यात्वंच॥ दासः । 'दासः शूदे दानपात्रे भृत्यधीवरयोरपि' इति विश्वः ॥ टित्त्वादीप् । दासी। ( तत्त्वदी० )-दास इति । सेवकशूद्रयोर्दासः ॥ (दशेश्च) दाशः ॥ (सुबोधिनी)-दशेश्च ॥ अस्मादपि टः स्यान्नस्यात्वं च ॥ दाशः । कैवर्ते दाश. धीवरौं' इत्यमरः॥ (तत्त्वदी० ) दंशेश्च ॥ दाशो धीवरः ॥ (सौ रमेक्तः सोर्दीर्घः) सूरतः ॥

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372