Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 332
________________ (३१२) सिद्धान्तचन्द्रिका। [ पूर्व कृदन्ते उणादयः ] प्रत्येक योज्यः अशू व्याप्तावित्यादिभ्यः इत्रप्रत्ययः स्यात् । बैङ् पालने इत्यादिभ्यः उत्रप्रत्ययः स्यात् ॥ अशूङ् आशत्रम् ॥ वह प्रापणे । वहित्रम् ॥ धृञ् धारणे । 'धरित्रम् । इपि धरित्री ॥ अम गतौ । आमित्र: शत्रुः । मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम् ॥ त्रैङ् । आत्वे उत्रे च त्रोत्रं प्रहरणम् ॥ वृञ् वरणे । वरुत्रं प्रावरणम् ॥ (तत्त्वदी० )-त्रोत्रमिति ॥ प्रहरणे ॥ (चितेः कणः कश्च ) चिक्कणम् ॥ (सुबोधिनी)-चितेःकणः कश्च॥चिती संज्ञाने अस्मात्कणप्रत्ययः स्यात् तस्य । कश्च ॥ बाहुलकाद्गुणाभावः । चिक्कणम् । 'चिक्कणं ममृणं स्निग्धम्' इत्यमरः ॥ (तत्त्वदी०)-चिक्कणमिति ॥ स्निग्धे ।। (सूचेः स्मः) मूक्ष्मम् ॥ (सुबोधिनी)-मूचेः स्मः ॥ सूच पैशुन्य चुरादिर मात्स्मप्रत्ययः स्यात् ॥ जेरिति जिलोपः । कुत्वषत्वे । सूक्ष्मम् । 'मूक्ष्मं स्यात्कण्टकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी ॥ (पातेईम्सुः) पुमान् ॥ (सुबोधिनी )पातेईम्सुः ॥ पा रक्षणेऽस्मात् डुम्सुप्रत्ययः स्यात् ॥ डित्त्वाटिलोपः । उदित्त्वात् स्त्रियामीप् । सुपुंसी । पुंसोऽसुङ् इत्यङ् । पुमान् ॥ (भुजादेः किष्यः) भुजिष्यो दासः॥ (सुबोधिनी)-भुजादेः किष्यः॥भुज पालनादावस्मात् किष्यप्रत्ययः स्यात्॥ 'कित्त्वान्न गुणः । भुजिष्यः। भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्र कदासयोः।' इति मेदिनी। “भुजिष्यः परिचारकः' इत्यमरः ॥ (वसादेस्तिः) वस्तिः। शास्तिः । अगमम्यतीति अगस्तिः॥ (सुबोधिनी)-वसादेस्तिः ॥ तिप्रत्ययमाह-वस निवासे । वस आच्छादने च । -वस्तिः। 'वस्तिईयोनिरूहे नाभ्यधोभूमिदशासु च ।' इति मेदिनी ॥ वस्ति भरधी द्वयोः' इत्यमरः॥शासु अनुशिष्टौ । शास्तिः राजदण्डः ॥ असु क्षेपणे। विन्ध्याख्यमगमस्यतीति । हलादेरिति टिलोपः । अगस्तिः । 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान् ।' इति मेदिनी ॥ (तत्त्वदी०)-वस्तिरिति ॥ 'वस्ति भेरधो द्वयोः । दशासत्रेऽपि वस्तयः ।' शास्तिमैति । राजदण्डे । अगमिति विन्ध्याख्यमित्यर्थः ।। (वौ तसेः) तसु उपक्षये । वितस्तिः । पनिः ॥

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372