Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 330
________________ (३१०) सिद्धान्तचन्द्रिका। पूर्वकृदन्ते उणादयः ] (नामादयः) म्रा नाम । षो साम । षिञ् सीमा । व्ये व्योम । रु रोम । पै शोषणे पाप्मा । वेमा । अतेर्मनिण् आत्मा ॥ ( सुबोधिनी ) नामादयः ॥ मन्प्रत्ययान्ता निपात्यन्ते ॥ ना अभ्यास । नायतेऽननेति । मलोपो निपातनात।नाम। 'आख्याह्ने अभिधानं च नामधेयं च नाम .' इत्यमरः ॥ षोऽन्तकर्मणि । साम । 'साम क्लीबमुपायम्य भेदे वेदान्तरेऽपि च' इति मेदिनी ॥ पिञ् बन्धने । सिनोतेदों निपात्यते । सीमा । 'सीमसीमे स्त्रियामुभे' इत्यमरः ॥ व्ये संवरणे । अन्त्यस्योत्वं निपातनात । गुणः । व्योम ॥ रु शब्दे । रोम गात्रकेशः॥ पा पाने । पुगागमो निपात्यते । पाप्मा पापम् ॥ वेञ् तन्तुसंताने । वेमा तन्तुवायदण्डः । अर्द्धर्चादिः। अतेर्मनिण। णित्त्वाद्वाद्धिःइकार. उच्चारणार्थः। अत सातत्यगमने । आत्मा। "आत्मा पुांस स्वभावे स्यात्प्रयत्नमनसोरपि। धृतावपि मनीषायां शरीरब्रह्मणोरपि" इति मेदिनी ॥ (तत्त्वदी०)नामा० ॥ वेमा तन्तुवायदण्डः ॥ (हनिमशिभ्यां सिकः) हंसिका । मश शब्दे । मक्षिका ॥ (सुबोधिनी)-हनिमशिभ्यां सिकः ॥ आभ्यां मिकप्रत्ययः स्यात् ॥ सिकप्रत्ययमाह-हन हिंसागत्योः। हंसिका । 'हंसिका हंसयोपिति' । मश शब्दे रोषकृते च । छशषेति षत्वम् । षढोरिति कत्वं षत्वं च । मक्षिका । 'मक्षिका भस्मराली स्यात्' इति हारावली ॥ (कोररः) कवरः ।। (सुबोधिनी)-कोररः॥ कु शब्दे अस्मादरः स्यात् ॥ कवरः पाठकः । बवयोरैक्यादीपि प्रत्यये कबरी केशविन्यासः । अन्यत्र कवरा ॥ - (गिर उडः ) गरुडः॥ _ (सुबोधिनी)-गिर उडः ॥ गृ निगरणे अस्मादुडप्रत्ययः ॥ गरुडः ॥ (इन्देः कमिनलोपश्च ) इदम् ॥ (सुबोधिनी)-इन्दः कमिनलोपश्च ।। इदि परमैश्वर्ये अस्मात्कमिः स्यान्नलोपश्च ॥ कित्त्वाद् गुणों न । इकार उच्चारणार्थः । इदमित सर्वादिगणस्थशब्दोऽयं सन्निहितपरामर्शकः ॥ . (कायतेर्डिम् ) किम् ॥ (सुबोधिनी)-कायतेर्डिम् ॥ कै शब्दे अस्मात् डिम प्रस्ययः स्यात् ॥ डित्त्वाडिलोपः। किम् ॥ (धातोस्त्रः) वस्त्रम् । अस्त्रम् । छत्रम् ॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372