Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
[ पूर्वकृदन्ते उणादयः ]
( ३०८ )
सिद्धान्तचन्द्रिका।
(वर्णेर्बलिश्च ) वर्ण वर्णने सौत्रः । बलिः ॥
( सुबोधिनी) - वर्णैर्बलिश्च ॥ वर्णिः सौत्रोऽस्मात्किः स्याद्धातोर्बलिरादेशश्च ॥ बलिः । 'करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ।' ववयोरैक्याद्वलिः ॥ ( तवदी ० ) - बलिरिति ॥ पूजोपहारयोः ॥ (वपादेरिञ् ) वापिः । राजिः । वारिः ।
॥
(सुबोधिनी) -- वपादेरिञ् । इञ्प्रत्ययमाह - ञित्त्वाद् वृद्धिः । डुव वापिः ॥ राजू दीप्तौ । राजिः । 'राजिः स्त्री पङ्क्तिरेखयोः' इति मेदिनी ञ्यन्तः । त्रेरिति ञिलोपः । वारिः । 'वारिः स्मृता सरस्वत्यां वारि इति विश्वः ॥ कृदिकारादितीप्तु पाक्षिकः सर्वत्र भवति । 'वारी तु इत्यमरः ॥ 'वारिः पथिकसंहतौ' इति च ॥
( तत्त्वदी ० ) - वपा० ॥ वारिर्गजबन्धनी । जले क्लीबम् ॥ (नहो भः ) नाभिः । जनिः । आजिः । अतिः ॥
( सुबोधिनी ) - नहो भः ॥ णह बन्धने अस्मादिञ् स्यात् हस्य भश्च ॥ नाभिः । “नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रती के स्यात्स्त्रियां कस्तूरिकामदे” इति मेदिनी ॥ जनी प्रादुर्भावे । इञ् । जनिवध्योरिति न वृद्धिः । जनिः । कृदिकारादिति पक्षे ईपू । जनी । 'जनी सीमन्तिनीवध्वं रुत्पत्तावौषधीभिदि' इति मेदिनी ॥ अज गतौ क्षेपणे च । बाहुलकादजेर्वीभावो न आजिः संग्रामः ॥ अत सातत्यगमने । आतिः पक्षी ॥
बीज संताने ।
वृञ् वरणे । हीबेरनीरयोः " गजबन्धनी'
( तत्त्वदी ० ) - नहो भः ॥ "नाभिः स्यात्क्षत्रिये पुंसि प्राण्यङ्गे तु स्त्रियाम् ॥” ( अशे रुट् ) राशिः
॥
( सुबोधिनी) - अशे रुद्र ॥ अशू व्याप्तावस्मादिञ् प्रत्ययो धातो रुडागमश्च स्यात् ॥ राशिः ॥ 'राशिमेषादिपुञ्जयोः' इति मेदिनी ॥ ( वातेर्डित् ) विः ॥
( सुबोधिनी) - वातेर्डित् ॥ वा गतिगन्धनयोर स्माड्डिः स्यात् । ङित्त्वाट्टिलोपः । दिः पक्षी । स्त्रियां वीत्यपि ॥
(नीव्यादयः ) निपूर्वी व्येञ् । नीविः । प्रहिः । समानं ख्यायते जनैरिति सखा ॥
(सुबोधिनी ) - नीव्यादयः । डिप्रत्ययान्ता निपात्यन्त - निपूर्वो व्येञ संवरणे । विलोपः । नेदींघों निपात्यते । यत इति यलोपः । नीविः । कृदिकारादि • तीपि नीवी । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च इत्यमरः ॥ परिपणो
Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372