Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 326
________________ (३०६) ___ सिद्धान्तचन्द्रिका। [पूवकृदन्ते उणादयः ] 'शक्ल प्रियंवदे' इत्यमरः॥ अमरोगे। चुरादिश्यन्तः । बाहुलकादुपधाह्रस्वः । रिति जिलोपः। अम्लः । 'अम्लो रसविशेष स्यादम्ली चाङ्गेरिकौषधौ' इति मेदिनी ॥ अवि शब्द । अम्ब्लो रसः ॥ . ( तत्त्वदी०) शक्ल इति ॥ 'शक्ल: प्रियंवदे ॥' (मादेयः) माया। छाया सस्यम् । षुञ् सव्यम् । (सुबोधिनी)-मादेर्यः॥ यप्रत्ययमाह-मा माने। माया । 'माया स्याच्छाम्बरी'बुद्धयोर्मायः पीताम्बरेऽसुरे' इति मेदिनी ॥ छो छेदने छाया। "छाया स्यादातपाभाव प्रतिबिम्बार्कयोषितोः। पालनोत्कोचयोः कान्तिसच्छोभापङ्केिषु स्त्रियाम्" इति विश्वः॥ षस स्वप्ने । सस्यम् । 'वृक्षादीनां फलं सस्यम्' इत्यमरः ।। षुज्ञ अभिषके । सव्यम् । "सव्यं वामे प्रतीपे च' इति मेदिनी ॥ 'सव्यं दक्षिणवामयाः' इति विश्वः॥ : (तत्त्वदी० )-सव्यमिति ॥ 'दक्षिणवामयोः ॥' । -- (जनेयक ) जाया-जन्यम् ॥ (सुबोधिनी)-जनेर्यक् ॥ जन जनने अस्माद्यक् प्रत्ययः स्यात् ॥ जनसनति वाऽऽत्वम् । जाया। जन्यम् । “जन्यं हट्टपरीवादे संग्रामे च नपुंसकम् । जन्या मातृवयस्यायां जन्यः स्याजनके पुमान् । त्रिपुत्पोद्यजनित्रोध नवोढाज्ञातिभृत्ययोः । स्निग्धे” इति मेदिनी ॥ (तत्त्वदी०)-जन्यमिति युद्धे ॥ (अध्यादयः) हन् अघ्न्या। कनी दीप्तौ। न्या। वन्ध्या। संध्या। (सुबोधिनी)-अघ्न्यादयः॥ यक्प्रत्ययान्ता निपात्यन्ते-हन हिंसागत्योः । धातोरडागम उपधालोपश्च निपातनात् । 'हनो ने' इति यः । अघ्न्या। नझपूर्वाद्धन्तेर्यक् उपधालोपश्चेत्यन्ये । अघ्न्यः प्रजापतिः “माहेयी औरभेयी गौरुस्रा माता च शृङ्गिणी । अर्जुन्यन्या रोहिणी स्यात्" इत्यमरः ॥ कनी दीप्तौ । कन्या । 'कन्या कुमारिकागौयोरौषधीराशिभेदयोः'इति विश्वः॥बन्ध बन्धने । निपातनान्नलोपाभावः। बवयोरैक्यात् । वन्ध्या 'वन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादपजः स्त्रियाम्' इति मेदिनी॥ संपूर्वाद्धाजो यक् । आतो लोपश्च निपातनात्।संध्या। 'सायंसंध्या पितृप्रसः' इत्यमरः।। (अादेवन् ) अर्वा । पृ पर्वा ॥ (सुबोधिनी)-अादेवन् ॥ वन्प्रत्ययमाह--अर्वा : 'अर्वा तुरङ्गगयोः' इति विश्वः ॥ 'अर्वा तुरङ्गमे पुसि कुत्सिते वाच्यलिङ्गकः' इति मेदिनी ॥ पृ पालनादौ । पर्वा । "पर्व क्लीवं सहे ग्रन्थौ प्रस्तावे लक्षणान्तरे। दर्शपतिपदोः संधौ विषुवत्प्रभृतिध्वपि” इति मेदिनी ॥

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372