Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 325
________________ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। . (३०५) (जवादयः) जत्रु । अश्रु । रुरुः। शातयतीति शत्रुः ॥ (सुबोधिनी )-जवादयः॥ रुप्रत्ययान्ता निपात्यन्ते-जनी प्रादुर्भाव। नस्य तो निपातनात् । जत्रु । 'संधी तस्यैव जत्रुणी' इत्यमरः ॥ तस्य स्कन्धस्येत्यर्थः ॥ अशूङ व्याप्तौ । अश्रु नयनजलम्॥ रु शब्दे । निपातनाद् गुणाभावः । रुरुः। 'कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररोहिषाः' इत्यमरः ॥'रुरुदैत्ये मृगेऽपि च' इति मेदिनी॥ शद्ल शातने ज्यन्तः । शातयतीति। जेरिति जिलोपः। निपातनादस्वत्वम् । शत्रुः॥ (तत्त्वदी०)-रुरुरिति मृगभेदे ॥ (कुसेरुम्भोमेदेताः) कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितः॥ (सुबोधिनी)-कुसेरुम्भोमेदेताः ॥ कुस संश्लेषणे अस्मात् उम्भ उम ईद इत एते प्रत्ययाः स्युः॥ उम्भादिप्रत्ययानाह-कुसुम्भम्। 'कुसुम्भं हेमनि महारजने ना कमण्डलौ' इति मेदिनी ॥ कुसुमम् । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति मेदिनी॥कुसीदम्। 'कुसीई जीवने वृष्टयां क्लीबं त्रिषु कुसीदके' इति मेदिनी॥ कुसिता जनपदः ॥ (तत्त्वदी० )-कुसित इति जनपदे ॥ (तण्डुलादयः) तड आघाते। तण्डुलः। अकि लक्षणे। अकुशः। चष चषालः। पल्वलम् । निधृषा धिष्ण्यम् । शल्यम् । (सुबोधिनी)-तण्डुलादयो निपात्याः॥ तड आघाते । उलप्रत्ययो नुमागमश्च निपात्यत । तण्डुलः। 'तण्डुलः स्याद्विहङ्गे च धान्यादिनिकरे पुमान्' इति मंदिनी ॥ अकि लक्षणे । उशप्रत्ययो निपातनात् । अकुशः। 'अकुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः॥ चष भक्षण । आलप्रत्ययो निपातनात् । चषालः । 'चषालो यूपकण्टकः' इत्यमरः ॥ पा पाने । वलप्रत्ययो निपात्यते लुगागमश्च धातोर्हस्वत्वं च । पल्वलमल्पसरः। जिधृषा प्रागल्भ्ये । ण्यप्रत्ययः । ऋत इत्वं च निपात्यते । धिष्ण्यम् । 'धिष्ण्यं स्थाने गृहे भेऽग्नौ' इत्यमरः ॥ 'धिष्ण्यं स्थानानिसद्मसु । ऋक्षे शक्तौ च' इति मेदिनी ॥ शल गतौ । यप्रत्ययः। शल्यम् । 'शल्यं तु न स्त्रियां शकौ क्लीवं वडेषुतोमर । मदनद्रुश्वाविधी ना' इति मेदिनी॥ ( तत्त्वदी० )-शल्यम् ।। 'शल्यं वा पुंसि शकुर्ना ॥' (मूशक्यम्यबिभ्यः क्लः) मूलम् । शक्तः । अम्लः । अबिशब्दे । अम्ब्लः ॥ . (सुबोधिनी)-मूशक्यम्यबिभ्यः क्लः ॥ क्लप्रत्ययमाह-कित्त्वान गुणः । मृङ् बन्धने । मूलम् । 'मूलं बुध्नो विनामकः' इत्यमरः ॥ शक्ल शक्तौ । शक्ल: ।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372