Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 324
________________ (३०४) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (उल्बादयः ) उच समवाये। उल्बः। शुल्बम् । स्था स्तम्बः। स्तबकः॥ (सुबोधिनी) उल्बादयः॥ वप्रत्ययान्ता निपात्यन्ते ॥ उच समवाय चस्य लत्वं गुणाभावश्च। उल्बम्। 'गर्भाशये जरायुः स्यादुल्वंच कललऽस्त्रियाम्' इति मेदिनी ॥ शुच शोके । चस्य लत्वं गुणाभावश्च निपातनात्। शुल्बम्। 'शुल्वं ताम्र यज्ञकर्मण्याचारे जलसन्निधौ' इति मेदिनी ॥ ष्ठा गतिनिवृत्तौ अस्मादम्बअबक एतौ प्रत्ययौ निपातनाद्धातोस्थस्य तश्च । स्तम्बः । स्तबकः। 'स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपिच' इति विश्वः॥ स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः' इति मेदिनी॥'स्याद् गुच्छकस्तु स्तबकः' इत्यमरः ॥ (तत्त्वदी०)-उल्बमिति गर्भाशयः । शुल्वं ताम्रम् । स्तम्बो गुच्छस्तृणादीनाम् । स्तबकः पुष्पगुच्छः॥ (शाशपिभ्यां दः) शादः। शब्दः॥ ___ (सुबोधिनी)-शाशपिभ्यां दः॥ दप्रत्ययमाह-शो त करणे। शादः । 'शादो जम्बालशष्पयोः' इत्यमरः॥ 'शादः स्यात्कर्दमे शष्पे' इति मेदिनी ॥ 'शष्पं बालतृणं घासः' इत्यमरः ॥ शप आक्रोशे । शब्दो निनादः॥ ( तत्त्वदी०)--शाद इति जम्बालशष्पयोः ॥ (अब्दादयः) अवतीत्यब्दः । कुन्दः॥ (सुबोधिनी)-अब्दादयः॥ दप्रत्ययान्ता निपात्यन्ते-अव रक्षणे। वस्य बः। अब्दः। 'अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान्' इति मेदिनी ॥ कु शब्दे । निपातनान्नुम् । कुन्दः। 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' इति मेदिनी ॥ (वलिमलितनिभ्यः कयः) वलयम् । मल यः । तनयः॥ (सुबोधिनी)-वलिमलितनिभ्यःकयः॥ कयप्रत्ययमाह-कित्त्वाद् गुणनिषेधादि । वल संवरणविलयम् । 'वलयःकण्ठरोगे ना कङ्कणे पुन्नपुंसकम्'इति मेदिनी ॥ मल धारणे । मलयः। मलयः पर्वतान्तरे । शैलांशे देश आरामे त्रिवृतायां तु योषिति' इति मेदिनी ॥ तनु विस्तारे । तनयः । आत्मजस्तनयः सूनुः' इत्यमरः॥ (हरो दुक च) हरतीति हृदयम् ॥ (सुबोधिनी)-हजो दुकू च ॥ हृञ् हरणे अस्मात्करः स्याद्धातोर्दुगागमश्च । हियते विषयैरिति हृदयं मनः ॥ .. (मिनोते रुः) मेरुः। . ( सुबोधिनी)-मिनोतेरुः॥प्रत्ययमाह-डुमिञ्प्रक्षेपणे। "मेरुः सुमेरुहेमाद्रि इत्यमरः॥

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372