Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 333
________________ [पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता । (३१३) (सुबोधिनी)-वौ तसेः ॥ तसु उपक्षये अस्माद्विपूर्वात्तिः स्यात् ॥ वितस्तिः । 'अङ्गुष्ठे सकनिष्ठे स्याद्वितरितादशाङ्गुलः'इत्यमरः ॥ 'स्त्रीपुंसयोक्तिस्तिः स्यात्' इत्यमरमाला ॥ पद गतौ । पत्तिः ॥ (दृणातेह्रस्वः) इतिः॥ (सुबोधिनी)-दृणातेईस्पः ॥ दृ विदारणे अस्मात्तिः स्याद्धातोर्हस्वत्वं च ॥ दृतिः । 'दृतिश्चर्मपुटे मत्स्ये ना' इति मेदिनी ॥ (कतृकृपिभ्यः कीटः) किरीटम् । तिरीटम् । कृपीटम् ॥ (सुबोधिनी)-कृतृकृषिभ्यः कीटः ॥ कीटप्रत्ययमाह-कित्त्वान्न गुणः। क विक्षेपे । ऋत इरितीर किरीटम । 'किरीटं मुकुटे न स्त्री' इति चन्द्रगोमी॥त प्लवनतरणयोः । ऋत इरितीर । तिरीटं सुवर्ण शिरोवेष्टनं च ॥ कृपू सामर्थ्य । कृपीटम् । 'कृपीटमुदरे नीरे' इति विश्व ॥ (तत्त्वदी०)-किरिटमि' । शिरोवेष्टने ॥ तिरीटमिति सुवर्णे । कृपीटमिति वारिकुक्ष्योश्च ॥ (धातोरसुः) चेतः । सरः । पयः॥ (सुबोधिनी)-धातोरसुः॥असुप्रत्ययमाह-उदित्त्वादीप् । चिती संज्ञाने।चित संचतने चुरादिश्च । चेतः । चत्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः ॥ सृ गतौ । सरः । ईपि सरसी । 'सरसी तु महासरः' इति शब्दार्णवः ॥ 'महान्ति सरांसि सरस्यः' इति भाष्यम् ॥ पय गतौ पीङ् पाने च । पयः। ‘पयः स्यात्क्षीरनीरयोः' इति मेदिनी ॥ (अशेयुट् स्तुतौ) अश्नुते इति यशः॥ (सुबोधिनी)-अशर्युट स्तुतौ ॥ अशूङ व्याप्तावस्मादसुःस्याद्धातोर्युडागमश्च ॥ यशः, कीर्तिः ॥ (उब्जेर्बले बलोपः) ओजः॥ (सुबोधिनी)-उब्जेबले बलोपः॥उब्ज आर्जवे अस्मादसुःस्यादले वाच्ये बस्य लोपश्च ॥ ओजः । 'ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि' इति मेदिनी ॥ (श्रिञः शिरः किच) शिरः॥ ( सुबोधिनी)-श्रिञः शरः किच्च॥श्रिञ् सेवायामस्मादसुः स्यात्स च कित् धातोः शिरादेशश्च ॥ शिरः ! 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः ॥ कप्रत्यये तु शिर इत्यदन्तोऽपिा शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इति कोशान्तरम्॥ 'पिण्डं दद्याद्याशिरे' इति वायुपुराण ॥ “कुण्डलोघृष्टगण्डानां कुमाराणां तरस्विनाम् ॥ निचकर्त्त शिरान्द्रौणिर्नालेभ्य इव पङ्कजान्” इति महाभारते ॥

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372