Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 294
________________ (२७४) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] पुष वृद्धौ । इनामिति दीर्घः। पूषा, पूषणौ, पूषणः । प्लिह गतौ । इकारस्य दीर्घत्वं निपात्यते । प्लीहा कुक्षिव्याधिः॥ मुह वैचित्त्य । मुहरुपधाया दीर्घः । धोऽन्तादेशी रमागमश्च निपातनात् । मूर्धा । 'मूर्धा ना मस्तकोऽस्त्रियाम्।' इत्यमरः॥मुर्वी बन्धने । अस्योकारस्य दीर्घत्वं वस्य धश्च निपात्यते इत्युज्ज्वलदतः । मूर्दा।टुमस्जो शुद्धौ । मस्जेश्चुत्वेन सस्य शः। झबे जबा इति सस्य जः। मज्जा। नकारान्तोऽयम् । आवन्तोऽप्यभ्युपगम्यते । “ऊष्मया सार्द्धमूष्माऽपि मज्जोक्ता मज्जयासह।" इति द्विरूपकोशः॥ माङ माने । इनामिति दीर्घः । 'अर्यमा तु पुमान्सूर्ये पितृदेवान्तरेऽपि च ।" इति मोदनी ॥ टुओश्विइर् गतिवृद्धयोः । धातोरिकारलोपः संप्रसारणाभावः सप्तम्या अलुक च निपात्यते । मातरीत्यव्ययमन्तरिक्षवाचि तस्मिन् स्वयतीति' मातरिश्वा । 'मातरिश्वा सदागतिः।' इत्यमरः॥अथ च वादरिति सूत्रण वस्योत्वं न भवति अभिव्यक्तेः पदार्थपरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य नदन्तस्य च ग्रहणात् । तेन मातरिश्वनः मातरिश्वनेत्यादि । मह पूजायाम् । धातोः स्य धःअवुगागमश्च निपात्यते । मघवा इन्द्रः ॥ इत्युणादौ प्रथमः पादः ॥ - (कृहोरेणुः) करेणुः । हरेणुः॥ (सुबोधिनी)-कहोरेणुः॥ एणुप्रत्ययमाह-डुकृञ करणे। करेणुः । 'करणुरिभ्यां स्त्री नेभे' इत्यमरः।। 'करेणुर्गजयोषायां स्त्रियां पुति मतङ्गजे ।' इति मेदिनी । हृज हरणे । हरेणुः। 'हरेणुर्ना सतीने स्त्री रेणुकाव लयोपयोः।” इति मेदिनी ॥ हरेणुर्गन्धद्रव्यं कलायश्चेति बोध्यम् । 'कलायस्तु सतीनकः' इत्यमरः॥ (कुषादेः क्थः) कुष्ठम् । रथः । काश दीप्तौ काष्ठम् । अवभृथः॥ __ (सुबोधिनी)-कुषादेः क्थः॥ क्थप्रत्ययमाह-फित्त्वान्न गुणः। कुप निष्कर्षे। कुष्ठम् । 'कुष्ठं रोगे पुष्करेऽस्त्री' इति मेदिनी ॥ 'कुष्ठं रं गे सुगन्धे च' इति विश्वः॥ रमु क्रीडायाम् । लोपस्त्वनुदात्ततनामिति मलोपः । रथ । 'रथः पुमानवयवे स्यन्दन वेतसेऽपि च।' इति मेदिनी ॥ 'रथः स्यात्स्यन्दने काये चरण वेतसेऽपि च।' इति 'विश्वः ॥ काश दीप्तौ । छशषेति षत्वं ष्टुत्वम् । “कामा दारुहरिद्रायां कालमानप्रकषयोः। स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्॥” इति मेदिनी ॥ "काष्ठं दार्विन्धनं त्वेधः” इत्यमरः॥ डुभृञ् धारणादौ । अब थो यज्ञस्नानम् ॥ (उषादेस्थः) ओष्ठः । कोष्ठः। गाथा । अर्थः । शु गतौ॥ शोथः॥ (सुबोधिनी)-उषादेस्थः॥ थप्रत्ययमाह-उष दाहे । ओष्ठः । कुष निष्कर्षे । कोष्ठः। कोष्ठः कुक्षिकुसूलयोः॥'गै शब्दे । गाथा । “गाथा श्लोके. संस्कृतान्यभाषायां शेषवृत्तयोः।।' इति मेदिनी॥ ऋ गतौ । अर्थः। 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।' इत्यमरः । शु गतौ । शोथः। 'शोफस्तु श्वयथुः शोथः' 'त्यमरः॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372