Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 312
________________ (२९२) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] 'भ्रमरः कार्मुके भृङ्गे' इति मेदिनी ॥ चमु अदने । चमः। 'चमरं चामर स्त्री तु मञ्जरीमृगभेदयोः' इति मेदिनी ॥ दिवु क्रीडादौ । ज्यन्तः । देवयतीति देवरः । पत्युः कनिष्ठभ्राता ॥ वस निवासे । ज्यन्तः । वासयतीति वासरो दिवसः॥ (तत्त्वदी०)-अादेरिति ॥ अररं कपाटम् ॥ (कुवः किद्रुट् च ) कुररः॥ (सुबोधिनी) कुवः किद्भुट् च ॥ करप्रत्ययमाह-कित्त्वान्न गुणः। कु शब्द । कुररः। उत्क्रोशकुररौ समो' इत्यमरः ॥ (अङ्गयादेरारः) अङ्गारः । मन्दारः॥ (सुबोधिनी)-अङ्गयादेरारः॥आरप्रत्ययमाह-अगि गतौ अङ्गारः। 'अङ्गारमुल्मुके न स्त्री पुंल्लिङ्गस्तु महीसुते' इति मेदिनी ॥ मदि स्तुत्यादौ । मन्दारः। बाहु लकादारुप्रत्ययोऽपि । मन्दारुः। 'पारिभद्रे तु मन्दारुर्मन परः पारिजातके'इति शब्दार्णवः ॥ 'मन्दारुः स्यात्सुरद्रुमे । पारिभद्रेर्कपणे च' हा विश्वः ॥ (गडेःकड च) गड आसेचने । कडारः।। । (सुबोधिनी)-गडेः कड च॥गडि वदनैकदेशे । गड सेचने वा । अस्य कडादेश आरप्रत्ययश्च स्यात् ॥ 'कडारः कपिलः पिङ्गः' इत्यमरः ॥ 'कडारः कपिले दास' इति मेदिनी ॥ (शृङ्गारादयः) शृङ्गारः । भृङ्गारः । मृजूष मार्जारः । कमु कुमारः। तुषारः। कासारः॥ (सुबोधिनी)-शृङ्गारादयः॥ आरप्रत्ययान्ता निपात्यन्ते ॥ श हिंसायाम। नुस् गुक् ह्रस्वश्च निपात्यते । शृङ्गारः । 'शृङ्गारः सुरंग नाटये रसे च गजमण्डने । नपुंसकं लवङ्गेऽपि नागसंभवचूर्णयोः ॥"इति मेदिनी । भृञ् भरणे । नुम् गुक च निपात्यते।भृङ्गारः। 'भृङ्गारः कनकालुका।' 'भृङ्गारी झिल्लिकायां स्यात्कनकालौ पुनः घुमान्' इति च ॥ मृजूष शुद्धौ । मृजेर्वृद्धिरिति वृद्धिः । मार्जारः । 'ओतुबिडालो मार्जारः' इत्यमरः ॥ 'मार्जार ओतो खट्वाङ्गे' इति मेदिनी ॥ कमु कान्तौ । उपधाया उत्वं गुणाभावश्च निपातनात् । कुमारः। कुमारः स्याच् के स्कन्दे युवराजेश्ववारके। बालके वरुणाद्रौ ना न द्वयोर्जात्यकाश्चने । कुमारी शैल तनयावनकाल्योर्नदीभिदि । सहाऽपराजिताकन्याजम्बूद्वीपेषु च स्त्रियाम॥' इति मेदिनी ॥ तुष तुष्टौ । तुषारः। 'तुषारस्तुहिनं हिमम्' इत्यमरः॥ कास शब्दकुत्सायाम् । कासारः । 'कासारः सरसी सरः' इत्यमरः॥ (तत्त्वदी० )-भृङ्गार इति । 'भृङ्गारः कनकालुका ॥

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372