Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 315
________________ [ पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता। (२९५) (सुबोधिनी)-वातप्रम्यादयः ॥ कीप्रत्ययान्ता निपात्यन्ते। कस्येत्संज्ञा । माङ् माने । आतोऽनपीत्यालंपिः । वातं प्रमिमीते इति वातप्रमीः । 'वातप्रमीर्वातमृगः' इत्यमरः ॥ अयं स्त्रीपुंभयोः ॥ या प्रापणे । ययीरश्वः । पा रक्षणे । पपीः । निपातनादुभयत्र द्वित्वम् । 'पपीः स्यात्सोमसूर्ययोः' इति विश्वः ॥ (तत्त्वदी०)-वात०॥ ययीरश्वः ॥ 'पपीः स्यात्सोमसूर्ययोः ॥' (रत्न्यादयः) रत्निः।अजू अञ्जलिः।मदीमत्स्यः। अत अतिथिः। अगि अङ्गुलिः । कौतेः कवचः । यु यवासः । कृश कृशानुः॥ (सुबोधिनी)-रत्न्यादयः॥ रत्न्यादयो निपात्यन्ते-ऋअजूमदीअतअगिकुयुकृशिभ्योऽष्टभ्यः कत्नि आठ स्य इथि उलि अच आस आनुक् प्रत्यया यथासंख्यमष्टौ भवन्ति । ऋ गतौ कलिः । कित्त्वान्न गुणः । रत्वम् । रनिः । 'बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताः ।' अरनिरत्र नसमासः । प्रसृतागुलियों हस्तः, सोऽरनिरित्यर्थः ॥ अजूठ क्त्यादौ कलिः । अञ्जलिः । 'अञ्जलिस्तुं पुमान्हस्तः संपुट कुडवेऽपि च' इति मंदिनी ॥ मदी हर्षे । स्यः मत्स्यः । 'मत्स्यो मीनेऽथ पुम्भूम्नि देशे' इति मेदिनी ॥ अत सातत्यगमने । इथिः । अतिथिः । 'अतिथिः कुशपत्रे स्यात्पुमानागन्तुके त्रिषु' इति मेदिनी ॥ अगि गतौ । उलिः अङ्गुलिः। 'अङ्गुलिः करशाखायां कर्णिकायां गजस्य च' इति हैमः ॥कु शब्दे । अचः । कवचः । 'कवचो गर्दभाण्डे । सन्नाहे पर्पटेऽपि च' इति मेदिनी ॥ यु मिश्रणे । आसः। यवासः ‘यासो यवार । दुःस्पर्शः' इत्यमरः ॥ कृश तनूकरणे । आनुकू । कृशानुः। 'कृशानुः पावकोऽनलः' इत्यमरः॥ (तत्त्वदी०)-रत्न्यादयः इति ॥ ऋ इत्यस्य रनिरिति । 'बद्धमुष्टिः करो रनिः सोऽरनिः प्रसृताङ्गुलिः ॥' (श्रः करः) शर्करा ॥ (सुबोधिनी)-श्रःकरः। करप्रत्ययमाह-ककारस्य नेत्वं बाहुलकात् ॥शु हिंसायाम् । शर्करा । 'शर्करा खण्डविकृतावुपलाशर्करांशयोः ॥ शर्करान्वितदेशे च रुग्भंदे सकलेजप च' इति मेदिनी ॥ (पुषः कित्) पुष्करः ॥ (सुबोधिनी) पुषः कित ॥ करक्प्रत्ययमाह--पुष पुष्टौ । पुष्करम् । “पुष्कर खेऽम्बुपद्मयोः। तूर्यवक्त्रे खड्गफले हस्तिहस्ताग्रकाण्डयोः । कुष्ठौषधौ द्वीपतीर्थभेदयोश्च नपुंसकम् ! ना रागनागविहगनृपभेदेषु चाम्बुदे” इति मेदिनी ॥ (गमेरिनिर्भविष्यति) गमिष्यतीति गमी ॥

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372