Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 318
________________ (२९८) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (अर्जेजः) ऋजीषम् । अबि शब्दे। अम्बरीषो निपात्याअम्बरीषम् ॥ (सुबोधिनी)-अर्जेजः ॥ अज अर्जने अस्मात्कीपः स्याद्धातोर्ऋजादेशश्च ॥ ऋजीषम्।'ऋजीषं पिष्टपचनम्' इत्यमरः।अवि शब्दोनिपातनादीषप्रत्ययः प्रत्ययस्यारुडागमश्च । अम्बरीषः। “अम्बरीषं रणे भ्राष्टे क्लीवं पुंसि नृपान्तरे।नरकस्य प्रभेदे च किशोरे भास्करपि च । आम्रातकऽनुपाते च"इति मेदिनी॥ 'अम्बरीषः पुमान्भ्राष्ट्र' क्लीवे पुंसि नृपान्तरे ।'इति बोपालितः ॥ 'क्लीवेऽम्बरीषं भ्रष्ट्रो ना' इत्यमरः॥ ( तत्त्वदी० )-अम्बरीष इति ॥ 'अम्बरीषः पुमान्भ्राष्ट्र कीबेऽपि ॥' (क्रादेरीरः) करीरः । शु शरीरम् ॥ (सुबोधिनी)-क्रादेरीरः॥ ईरप्रत्ययमाह-कृ विक्षेप। करीरः। “वंशारे करीरोऽस्त्री वृक्षभिद्धटयोः पुमान्। करीरा चीरिकायां च टन्तमूले च दन्तिनाम्" इति मेदिनी ॥ शू हिंसायाम् । शीर्यते इति शरीरम् । अर्द्धचा देः। 'शरीरं वर्म विग्रहः' इत्यमरः॥ (तत्त्वदी० )क्रादेरिति ॥ करीरो वंशाङ्कुरः ।। (गभीरादयः)गम्ल गभीरः-गम्भीरःवश उशीरम्। घस्ल क्षीरम्।। ( सुबोधिनी)-गभीरादयः॥ ईरप्रत्ययान्ता निपा यन्ते॥गम्ल गता । मस्य भः पाक्षिको नुम् च निपातनात् । गभीरम्-गम्भीरम् । 'निं गभीरं गम्भीरम्'इत्य. मरः ॥ वश कान्तौ । निपातनात्करिप्रत्ययः।ग्रहामिति संप्रसारणम् । उशीरम्। मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यम्' इत्यमरः ॥ घस्ल अदने। कीरप्रत्ययो निपातनात् । गमामित्युपधालोपे कत्वं षत्वम् । क्षीरम् । 'क्षीरं च दुग्धे नीरे च' इति विश्वः॥ (शीको धुकूलवलवलवालपालाः) शीधुः। शीलम् । शेवलः। शैवलः। शेवालम् । शेपालम् ॥ ___ (सुबोधिनी)-शीङोधुक्लक्वलवलञ्वालपालाः॥ शीङ स्वप्ने अस्माषट् प्रत्यया भवन्ति ॥ शेरतेऽनेनेति शीधुः । अर्द्धर्चादिः। 'मैरेयमासवः शीधुः' इत्यमरः ॥ लक् । शीलम् । शीलं स्वभावे सद्वत्ते' इति मे देनी ॥ वलः । शेवलम् । वलञ् । शैवलम् । 'जलनीली तु शेवालं शैवलः' इत्यमरः । शैवलं पद्मकाष्ठे स्याच्छैवाले तु पुमानयम्' इति मेदिनीवाल । शेवालम् ॥ पाल । शेपालम् । 'शैवालं शैवलो न स्वी शेपालो जलनीलिका' इति शब्दार्णवः॥ ( तत्त्वदी० )-शीधुरिति ॥ मद्यम् ॥ 'शेवालं शैवलो नत्री शेपालो जलनीलिका ॥

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372