Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
(३०१ )
[ पूर्वकृदन्ते उणादयः ]
टीकाद्वयोपेता ।
( सूङादेः क्रिः ) सूरिः । भूरिः । अद्रिः ॥
(सुबोधिनी) - मूङादेः क्रिः ॥ क्रिप्रत्ययमाह - कित्त्वान्न गुणः ॥ षूङ् प्राणिप्रसवे । सूरिः ‘धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः' इत्यमरः ॥ अभिवानमालायां सूरीति नान्तमुदाहृतम् ॥ भू सत्तायाम् । भूरिः । " भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः” इति मेदिनी ॥ अद भक्षणे ॥ अद्रेः । 'अद्रयो द्रुमशैलार्काः' इत्यमरः ॥
( रात्रिः ) रात्रिः । शत्रिः । अत्रिः ।।
(सुबोधिनी) - रादेखिः ॥ त्रिप्रत्ययमाह--रा दाने। रात्रिः । शल शातने । शत्रिः । 'शत्रिर्नाम्भोधरे विष्णौ' इति मेदिनी ॥ अद भक्षणे अत्रिर्मुनिभेदः ॥
( पतेरत्रिः ) पतत्रिः ॥
(सुबोधिनी) - पतेः ॥ अत्रिप्रत्ययमाह-- पत्लृ गतौ । पतत्रिः पक्षी । पतत्रशब्दात्पक्षवाचकान्मत्वर्थे इनि तु नान्तः । पतत्री, पतत्रिणौ । (तत्त्वदी० ) -- पतेरत्रिरेिति । पक्षिणि ॥ (मृङ ईचिः ) मरीचिः ॥
( सुबोधिनी) - मृङ ईचिः ॥ ईचिप्रत्ययमाह - मृङ् प्राणत्यागे । मराीचैः । 'मरीचिः कृपणे दीप्तौ ऋ भेदे च दृश्यते' इति विश्वः ॥ ' मरीचिर्मुनिभेदे ना गंभस्तावनपुंसकम्' इति मेदिना ॥
( वेञो डिच ) वाचिः ॥ (सुबोधिनी ) - वे
डिच्च ॥ वेञ् तन्तुसंताने अस्मादीचिर्डित्स्यात् ॥ वीचिः । 'वीचिः स्वल्पे तरङ्गे स्यादवकाशे सुखे द्वयोः" इति विश्वः ॥ ( पुरः कुषः ) पुर अग्रगमने । पुरुषः ॥
(सुबोधिनी) - पुरः कुषः ॥ कुषप्रत्ययमाह - कित्त्वान्न गुणः । पुर अग्रगमने । पुरुषः । बाहुलकाद्दीर्घे पूरुषः । ' पुरुषस्त्वात्मनि नरे पुन्नागे च' इति हैमः ॥ 'पुरुषाः पूरुषा नरः' इत्यमरः ॥
1
1
( नहिक लिभ्य उषः ) परुषम् । नहुषः । कलुषम् ॥ (सुबोधिनी) - पुनहि कलिभ्य उषः ॥ उषप्रत्ययमाह - पृ पालनपूरणयोः । परुषम् । 'परुषं कर्बुरे रूक्षे निष्ठुरोक्तौ च वाच्यवत्' इति मेदिनी ॥ णह बन्धने । नहुषः । 'नहुषो राजविशेषे नागभिद्यपि ' इति हैमः ॥ कल शब्दसंख्यानयोः । कलुषम् । 'कलुषं त्वाविलैनसोः' इति विश्वः ॥
( पीयेरूषः ) पीय पाने सौत्रः । पीयूषम् । पेयूषः ॥
Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372