Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 314
________________ ( २९४ ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः } ( सुबोधिनी ) - इणः कित् ॥भकू स्यात् ॥ कित्त्वान्न गुणः । इण् गतौ । इभः । 'इभः स्तम्बेरमः पद्मी' इत्यमरः ॥ ( असिसञ्जिभ्यां क्थिः ) अस्थि । सवि ॥ ( सुबोधिनी ) - असिसञ्जिभ्यां क्थिः ॥ क्थिप्रत्ययमाह -- कित्त्वान्नस्य लोपः । अक्षेपणे । अस्थि । 'कीकसं कुल्यमस्थि च' इत्यमरः ॥ षञ्ज सङ्गे । चोः कुरिति गः । खसे चपा इति कः । नो लोप इति नलोपः । सक्थि । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः ॥ (शुषादेः क्सिः ) शुक्षिः । कुष निष्कर्षे । कुक्षिः । अशू अक्षि ॥ (सुबोधिनी ) - शुषादेः क्सिः ॥ क्सिप्रत्ययमाह - कित्त्वान्न गुणः । शुष शोषणे । षढोरिति कः । षत्वम् । शुक्षिः वातः ॥ कुष दाहे । कुक्षिः ॥ अशूङ व्याप्तौ । छशषेति षत्वं कत्वं च । अक्षि नयनम् ॥ (तत्त्वदी ० ) - शुक्षिरिति ॥ शुक्षितः ॥ ( इषः सुः ) इक्षुः ॥ ( सुबोधिनी ) - इष: क्सुः ॥ क्सुप्रत्ययमाह- कित्त्वान्न गुणः । इषु इच्छायाम् । कत्वे षत्वे इक्षुः । ' रसाल इक्षुः ' इत्यमरः ॥ ( अविस्तृत त्रिभ्य ई: ) अवीः । तरीः । स्तरीर्धूमः । तन्त्रीः । (सुबोधिनी) - अवितृस्तृतन्त्रिभ्य ईः ॥ इत्ययमाह - - अव रक्षणादौ । अवीः । 'अवीर्नारी रजस्वला ॥' प्लवनतरणयोः । तरी । 'स्त्रियां नौस्तरणिस्तरिः " इत्यमरः ॥ स्तृञ् आच्छादने । स्तरीधूमः ॥ तत्रि कुटुम्बधारणे चुरादिः। तन्त्रयतीति । जेरिति ञिलोपः । तन्त्रीवणा ॥ ( तत्त्वदी ० ) - अवि ॥ अवीरिति ॥ अवति गर्भमवीः 'अवीं स्त्रीं गर्भिणीं विदुः ॥' तरीनः ॥ स्तरीः शयनं धूम इति च ॥ (लक्षेर्मुट् च ) लक्ष्मीः ॥ इात तृतीयः पादः ॥ (सुबोधिनी) - लक्षेर्मुट् च ॥ लक्ष दर्शनाङ्कनयोः चुरादिः अस्मादीप्रत्ययः स्या त्प्रत्ययस्य_मुडागमश्च ॥ जेोति ञिलोपः । लक्ष्मीः । 'लक्ष्मी: संपत्तिशोभयोः । ऋद्धयोषधौ च पद्मायाम्' इति मेदिनी ॥ दीर्घादपि वृदिकारादिति पाक्षिक ईपू कैश्विदिष्यते । अत एव वातप्रमीश्रीलक्ष्मीत्यादिशब्दा क्षे ईबन्ता अपि । 'आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरिप्रिया' इति द्विरूपकोशः ॥ इति सुबोधिन्यामुणादौ तृतीयः पादः ॥ ( वातप्रम्यादयः) वातप्रमीः । यान्त्यनेनेति ययीः । पारक्षणे । पपीः।।

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372