Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 311
________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२९१) (सुबोधिनी)-क्रादेरभः॥ अभप्रत्ययमाह-क विक्षेपे । करभः । 'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते इति मेदिनी॥ 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः ॥ गृ हिंसायाम् । शरभः। 'शरभस्तु पशोभिदि“करभो वानरभिदि' इति च मदिनी ॥ शल गतौ। शलभः। 'समौ पतङ्गशलभौ' इत्यमरः ॥ कल गतौ। कलभः । 'कलभः करिपोतके॥' गर्द शब्दे । गर्दभः।"गर्दभः श्वेतकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः।” इति मेदिनी ॥ (ऋषिवृषिभ्यां कित) ऋषभः। वृषभः॥ (सुबोधिनी) ऋषिवृषिभ्यां कित् ॥ कभप्रत्ययमाह-कित्त्वान्न गुणः । ऋषी गतौ।ऋषभः"ऋषभःस्यादादिजिने वृषभे भेषजे स्वरेकर्णरन्ध्रे कोलपुच्छे श्रेष्ठेचाप्युत्तरे स्थितः॥ऋषभी शूकशिम्ब्यां स्यात्पुरुषाकारयोषिति । विधवायां शिरालायाम्" इति हेमचन्द्रः॥ "ऋषभस्त्वौषधान्तरे । स्वरभिद्वषयोः कर्णरन्ध्रे गर्दभपुच्छयोः । उत्तरस्थः स्मृतः श्रेष्ठ स्त्रीनराकारयोषिति । शूकशिम्ब्यां शिरालायां विधवायां वधिन्मता।” इति मेदिनी ॥ वृषु सेचने । वृषभः । 'वृषभः श्रेष्ठवृषयोः ॥' (रासवल्लिभ्यां च ) रास शब्दे।रासभः। वल्ल संवरणे वल्लभः॥ (सुबोधिनी)-रासवल्लिभ्यां च ॥ अभः स्यात् ॥ राम शब्दे । रासभः ॥वल्ल संवरणे । वल्लभः। 'वल्लभो दयितेऽध्यक्षे सलक्षणतुरङ्गमे' इति मेदिनी ॥ (विशादेरन्तः) वेशन्तः । वसन्तः । जयन्तः ॥ (सुबोधिनी)-विशादेरन्तः॥ अन्तप्रत्ययमाह-विश प्रवेशने । वेशन्तः।'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः॥ वस निवासे । वसन्तः ऋतुः॥ जि जये । जयन्तः । 'जयन्तः पाकशासनिः' इत्यमरः ॥ (तत्त्वदी० )-विशादेरिति ॥ वेशन्तः पल्वलम् ॥ जयन्तः शक्रपुत्रः ॥ (हन्तेहिर्मुट च) हेमन्तः॥ (सुबोधिनी) हन्तेहिर्मुट च ॥ हन हिंसागत्योः। अस्य हिरादेशोऽन्तप्रत्ययः प्रत्ययस्य मुडागमश्च स्यात् ॥ हेमन्तः॥ बाहुलकादन्येभ्योऽप्यन्तः । अर्ह पूजायाम्। अर्हन्तः । 'अर्हन्तः क्षपणको जिनः' इति विक्रमादित्यकोशः॥ (अयोदेररः) अररम् । भ्रमरः। चमरः । देवरः । वस निवासे। वासरः॥ (सुबोधिनी )-अादररः ॥ अरप्रत्ययमाह-ऋ गतौ। अररम् । 'अररं छदकपाटयोः' इति मेदिनी ॥ 'कपाटमररं तुल्ये' इत्यमरः ॥ भ्रम अनवस्थाने । भ्रमरः।

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372