Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
View full book text ________________
[ पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता ।
(२८५) (बन्धेर्बधबुधौ च) ब्रनः । बुध्नः ॥
(सुबोधिनी)-बन्धेर्बधबुधौ च ॥ बन्ध बन्धने अस्मान्नक स्याद्धातोः स्थाने एतावादेशौ च स्याताम् ॥ ब्रनः । बुध्नः । 'भास्कराहस्करबध्नप्रभाकरविभाकराः'' इत्यमरः ॥ 'बुध्नो ना मूलरुद्रयोः' इात मेदिनी ॥
(धादेनः ) धानाः। पर्णम् । वस्नः। श्रोणः॥
(सुबोधिनी)--धादेर्नः ॥ नप्रत्ययमाह--डुधाज्ञ धारणादौ । धाना भृष्टयवे स्त्रियाम्' इत्यमरः ॥ 'धाना भृष्टयवे प्रोक्ता धान्याकेभिनवोद्भिदि' इति विश्वः ॥ पृ पालनादौ । पर्णम् । 'पर्ण पत्रे किंशुके ना' इति मेदिनी ॥ वस निवासे । वस्नः । 'वस्नी मूल्ये वेतने च' इति विश्वः ॥ 'वनस्त्वविक्रये पुंसि वेतने स्यान्नपुंसकम्' इति मेदिनी ॥ अविक्रये मूल्ये इत्यर्थः ॥ श्रु श्रवणे । श्रोणः पगुः ॥
(तत्त्वदी०)-धादेरिति ॥ 'धाना भृष्टयवे स्त्रियाम् ।' मूल्यवेतनयोर्वस्नः। श्रोणः पङ्गुः।। . (लक्षेनस्यामटौ) लक्षणम् । लक्ष्मणः ॥ __ (सुबोधिनी)-लक्षेनस्याग्मटौ॥ लक्ष दर्शनाङ्कनयोः । अस्माच्चुरादिश्यन्तात् नः स्यात्प्रत्ययस्याण्मटावागमौ च स्याताम् ॥ लक्षणम् । लक्ष्मणः । 'लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा' इति॥ "लक्षणं नाम्नि चिह्न च सौमित्रिरपि लक्षणः। लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः" इति विश्वः ॥ "लक्ष्मणं नाम्नि चिह्न स्यात्सारस्यां लक्षणा क्वचित् । लक्ष्मणा त्वौषधीभेदे सारस्यामपि योषिति । रामभ्रातरि पुंसि स्यात्मश्रीके चाभिधेयवत्" इति मेदिनी ॥
(तत्त्वदी०)-लक्षेरिति ॥ 'लक्षणं नाम्नि चिह्ने च रामभ्रातार च द्वयम् ।' . 'लक्षणा हंसयोपायां सारसस्य च लक्ष्मणा ॥'
(रास्नादयः) रास शब्द। राना। साना । स्थूणा। वीणा । कृती कृत्स्नम् । तिज तीक्ष्णम् । श्लिषेः श्लक्ष्णम् ॥
(सुबोधिनी)--रास्नादयः॥ नक्प्रत्ययान्ता निपात्यन्त ॥ रस आस्वादने। उपधाया दीक़ निपातनात् । राना । 'रास्ना तु स्याद्भुजङ्गाक्ष्यामेलापामपि स्त्रियाम्' इति मंदिनी॥षस स्वप्ने।उपधाया दीर्घो निपातनात्।सास्ना । 'सास्ना तु गलकम्बलः' इति मंदिनी॥ष्ठा गतिनिवृत्ती ऊत्वं णत्वं च निपात्यते । स्थूणा। 'स्थूणा स्यात्सूर्ध्या स्तम्भ गृहस्प च' इति मेदिनी ॥ सूर्मी लोहप्रतिमा ॥वी गत्यादिषु । णत्वं निपातनात्।वीणा। 'वीणा विद्युति वल्लक्याम्' इति मेदिनी॥कृती छेदने।वक्ष्यमाणेभ्यः कनप्रत्ययो निपातनात् । कृत्स्नम् ॥ तिज निशाने । धातोदीं? निपातनात् । चोः कुरिति गःखसे चपा झसानामिति कः । षत्वणत्वे । तीक्ष्णम् । “तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं यवाग्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु' इति मेदिनी॥ श्लिष आलिङ्गने । श्लिषरिकारस्यात्वं निपातनात् । षढोरिति कत्वम् । श्लक्ष्णम् ॥
Loading... Page Navigation 1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372