Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 293
________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२७३) (ग्रीवादयो वप्रत्ययान्ता निपात्यन्ते ) ग्रीवा। लिहन्त्यनयेति जिह्वा ॥ __ (सुबोधिनी)-ग्रीवादगो वप्रत्ययान्ता निपात्यन्ते ॥ गृ निगरणे। ईडागमो गुणाभावश्च निपातनात् । गिरन्त्यनयति ग्रीवा ॥ लिह आस्वादने । लस्य जो गुणाभावश्च निपातनात् । लिहन्त्यनयेति जिह्वा ॥ (तत्त्वदी०)-ग्रीवादय इति ॥ गिरन्त्यनयेति ग्रीवा ॥ (खादेः कन) युवा । वृषा । तक्ष्णोति काष्ठानि तक्षा । राजा । धवि गतौ । धन्वयति ारानिति धन्वा । प्रतिदिवा ॥ (सुबोधिनी)-य्वादेः कन् ॥ कन्प्रत्ययमाह-कित्त्वान्न गुणः । यु मिश्रणे । यौतीति । नुधातारित्युत् । नापधाया इति दीर्घः । नाम्नो नो लोपशिति नलोपः । युवा । 'युवा स्यात्तरुणे श्रेष्ठ नेसर्गबलशालिनि।' इति मेदिनी ॥ वृषु सेचने । वृषा । 'वृषा कर्णे महेन्द्रे ना' इति : दिनी॥त तनूकरणे । तक्षा । 'तक्षा तु वर्द्धकिस्त्वष्टा रथकारश्च काष्ठतट्।' इ यमरः ॥ राज दीप्तौ । राजा । 'राजा प्रभौ नृपे चन्द्रे पक्षे क्षत्रियशक्रयोः।' इत्यमरः । धवि गतौ। धन्वा । 'समानौ मरुधन्वानौ' इत्यमरः॥ 'अथास्त्रियाम् । धनुश्चापो धन्यशरासनकोदण्डकार्मुकम्।' इत्यमरः॥ “धन्वा तु मरुदंश ना क्लीवे चापे शरेऽपि ।' इति मेदिनी ॥ दिवु क्रीडादौ । प्रतिदीव्यत्यस्मिनिति प्रतिदिवा दिवसः॥ (सप्यशूभ्यां तुट ) षप समवाये । सप्त । अष्ट ॥ (सुबोधिनी)-सप्यशूभ्यां तुटु च ॥ आभ्यां कन् प्रत्ययः स्यात्तस्य तुडागमश्च ॥ पप समवाये । जश्व सोरिति जसो लुक् । नाम्नो नो लोपशिति नलोपः । सप्त ॥ असूङ व्याप्तौ । छशति षत्वम् । अष्ट ॥ (नधि जेहातेः) अहः॥ __ (सुबोधिनी)-नजि ज हातेः॥ ओहाक् त्यागे अस्मात्कन् प्रत्ययः स्यात् ॥ न जहाति प्रकाशमिति । आगाऽनपीत्यालोपः। अह्न इति नस्य सः। अहः ॥ __(श्वादयः) श्वा । उक्षा । पुष्यति कमलानीति पूषा । प्लेहते प्लीहा । मुह्यन्त्यस्मिन्नाइते मूर्दा । मज्जत्यस्थिषु मज्जा । अर्यपूर्वो माङ् अर्यमा । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । मह पूजायाम् । मह्यते इति मघवा ॥ इत्युणादौ प्रथमः पादः॥ (सुबोधिनी )-श्रवादयः ॥ कन्प्रत्ययान्ता निपात्यन्ते-टुओश्विइर गतिवृद्धयोः । श्वयतीति । इकारलोपो निपातनात् । श्वा ॥ उक्ष सेचने । उक्षा वृषभः ॥ १८

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372