Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 297
________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२७७) केऽपि सुरा क्वचित्।' इति विश्वः ॥ षूङ प्राणिगर्भविमोचने । सावयति प्रेरयति कर्मणि लोकभिति सूरः । “सूरसूर्यार्यमादित्यः -' इत्यमरः । डुधाञ् धारणादौ । अपिद्दाधेतीत्वम्। धीरैः । 'धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे । स्त्रियां श्रवणतुल्यायाम्' इति मेदिनी । गृधु अभिकाङ्क्षायाम् । गृध्रः । ' गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके।' इति मेदिनी ॥ ( शूरादयः ) शुः सौत्रः । शूरः । षिञ् सीरः । चिञ् चीरम् ॥ ( सुबोधिनी ) - शूरादयः ॥ क्रप्रत्ययान्ता निपात्यन्ते -शु गतौ । निपातनाद्दीर्घः सर्वत्र । शूरः । 'शूरः स्यात्पादपे भटे।' इति मेदिनी ॥ ' शूरश्चारुघटे सूर्ये' इति विश्व - हेमचन्द्रौ ॥ षिञ् बन्धने । सीरः । ' सीरोऽर्कहलयोः पुंसि' इति मेदिनी ॥ चित्र चयने । चीरम् | 'चीरो झिल्लयां नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः ।' इति मेदिनी ॥ 'चीरं तु गोस्तने वस्त्रे चूडायां सीसकेऽपि च । चीरः कृच्छ्राटिकाशिलयोः" इति विश्वः ॥ ( वा विन्धेः ) वीघ्रम् । वृधु वर्धम् । वप्रः । इन्द्रः । अगि गतौ । अग्रम् | वज्रम् | डुव विप्रः । उच समवाये । उग्रः ञिभी भये । भेरी । भेलः । शुच शोके शुक्रः । शुक्लः । गुङ गतौ। गौरः । इणू इरा । माला ॥ (सुबोधिनी ) - वाविधेः ॥ ञिइन्धी दीप्तौ विपूर्वादस्मात् कन् स्यात् ॥ नो लोप इति नलोपः । वीध्रम् । 'वीध्रं तु विमलार्थकम् |' इत्यमरः ॥ वृधु वृद्धौ । व चर्म ॥ डुव बीजसंताने । वप्रः प्राकारः । विप्रः पितरि केदारे वप्रः प्राकाररोधसोः । ' इति धरणिः ॥ इदि परमैश्वर्ये । इन्द्रः । ' इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः।' इति विश्वः ॥ अगि गतौ । नलोपो निपात्यते । अग्रम् | " अग्रं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूह च मान्तरे पुन्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्॥” इति मेदिनी ॥ व्रज गतौ । वज्रः । 'वज्रोऽस्त्री हीके पवौ' ॥ डुवप् बीजसन्ताने । उपधाया इत्वं निपातनात् । विप्रः ॥ उच समवाये । चस्य गो निपातनात् । उग्रः 'उग्रः शूद्रासुते क्षत्राद्भुद्रे पुंसि त्रिषूत्कटे ।' इति मेदिनी ॥ ञिभी भये । नदादित्वादी । 'मेरी स्त्री दुन्दुभिः पुमान् ।' इत्यमरः ॥ पक्षे रस्य लत्वं निपात्यते । भेलः। ‘भेलः प्लवे मणौ पुंसि भीरावज्ञे च वाच्यवत् । ' इति मेदिनी ॥ शुच शोके । चस्य को निपातनात् । शुक्रः । 'शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् । रेतो - क्षिरुग्भिदो : क्लीबम्' इति ॥ पक्षे लत्वं निपात्यते । शुक्लः । 'शुक्लो योगान्तरे सिते । नपुंसकं तु रजते' इति च मेदिनी ॥ गुङ् अव्यक्ते शब्द | वृद्धिर्निपातनात् । गौरः ॥ “गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् । ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेशरे ॥ गौरी त्वसंजातरजःकन्याशंकर भार्ययोः ॥ रोचने रजनीपिङ्गाप्रियङ्गुवसुधासु च ।

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372