Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेना।
(२६९) स्थागोलके हस्तिसन्नाहेक्षुविकारयोः । गुडा स्नुह्यां च कथिता गुडिकायां च . योषिति ॥” इति मेदिनी ॥
(स्थादेरालः ) स्थालम् । स्थाली ॥ (सुबोधिनी)-स्थादेरालः॥ आलप्रत्ययमाह-ष्ठा गतिनिवृत्तौ । स्थालम् । 'स्थालं भाजनभेदेऽपि स्थाली स्यात्पाटलौषधौ।' इति मेदिनी ॥
(पतिचण्डिभ्यामालञ् )पातालम् । चडि कोपे। चण्डालः॥ (सुबोधिनी)-पतिचण्डिभ्यामालन ॥ आलञ्प्रत्ययमाह-जित्त्वाद्वाद्धिः। पत्र पतने। पतन्त्यस्मिन्नधर्मिण इति पातालम् । 'अधोभुवनपातालबलिस रसातलम्।' इत्यमरः॥ 'पातालं नागलोके स्याद्विवरे वडवानले।' इति मेदिनी॥ चडि कोपे। नुमि कृते उपधाया अभावान वृद्धिः । चण्डालः । अणप्रत्यये चाण्डालः ॥
(तमादिभ्यः कालः ) तमालः। बिड भेदने । बिडालः। मृणहिंसायाम् । मर्णयति कमलानि मृणालम् । कुल संख्याने नाशने च । कोलति नष्टां करोति मृत्तिका कुलालः। कपालम् । पल्यते त्यज्यतेऽसौ पलालः॥
(सुबोधिनी)-तमादिभ्यः कालः॥ कालप्रत्ययमाह-कित्त्वान्न गुणः । तमु काङ्क्षायाम् । तमालः। 'तमालस्तिलके खड्ग ना पिच्छे वरुणद्रुमे।' इति मेदनी ॥ विश प्रवेशने।"विशाला विन्द्रवारुण्यामुज्जयिन्यां तु योषित । नृपवृक्षभिदोः पुसि पृथुलेऽप्यभिधेयवत्॥"इति मेदिनी॥ बिड आक्रोशे । बिडालः। "बिडालो नेत्रपिङ्गे स्याद्वषदंशकके पुमान्।' इति मेदिनी। 'ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक्।'इत्यमरः।। मृण हिंसायाम् । मृणालम् । 'मृणालं नलदे क्लविं पुन्नपुंसकयोर्विसे ।' इति मेदिनी॥ कुल संख्याने। कुलालः। कुलालः ककुभे कुम्भकारे स्त्रीत्वं जनान्तरे।' इति मेदिनी॥ "कुलालो घूकपक्षिणि । ककुभे कुम्भकारे च' इति हैमः ॥ कपि चलने । नलोपो निपात्यते । कपालम् । 'कपालोऽस्त्री शिरोऽस्थ्नि स्याटादेः शकले बजे।' इति. मेदिनी ॥ पल गतौ । पलालः ॥
(पतादिभ्योऽङ:) पतङ्गः। तरङ्गः । लवङ्गम् ॥ __ (सुबोधिनी)-पतादिभ्योऽङ्गः ॥ अङ्गप्रत्ययमाह-पत्ल पतने। पतङ्गः। 'पतङ्गः शलभे शालिप्रभेद पक्षिसूर्ययोः । क्लीवं सूते' इति मेदिनी ॥ सूते पारदे इत्यर्थः ॥ तृ प्लवनतरणयोः। तरङ्गः । 'तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः।' इति विश्वः॥ लूञ छेदने । 'लवङ्गं देवकुसुमम्' इत्यमरः॥
(बिडादेः कित् ) बिडङ्गः । मृद क्षोदे। मृदङ्गः ॥
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372