Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 464
________________ परिशिष्ट २ ૪૦૫ मैसोऽपीति वाच्यम्, सम्भवति मुख्ये गुणकल्पनाया अयोगादिति । परत्वात् पूर्वमेत्वमित्यपि न वाच्यम्, उभयोरन्यत्र सावकाशत्वेनैकत्र युगपत्प्रवृत्तौ स्पर्द्धसम्भवे परत्वसम्भवादिति, न चात्रैसोऽन्यत्र सावकाशत्वमस्ति, अतोऽपवादत्वेनैत्वस्यैव बाधकः । इह कश्चिदविमृश्यकारी एत्वैस्त्वयोरुत्सर्गापवादभावमपह्नुत्य परत्वादेत्वप्रवृत्तिं नोदयन् भूतपूर्वगत्या नित्यत्वमैस्त्वस्याचक्षाणत्वस्य चायं (?) ( एत्वस्य चायं बाधक इति) प्रतिपादयति, यदाह “एत्वं *भिसि परत्वाच्चेदत ऐस्त्वं कथं भवेत् ? । कृतेऽप्येत्वे भौतपूर्वान्नित्यमैस्त्वं तथा सति" ।। जणं जरा "षितोऽङ्” (५.३.१०७) इत्यङि “ऋवर्णदृशोऽङि" (४.३.७) इति गुणे आपि च तामतिक्रान्तैः "प्राऽत्यव-परि०" (३.१.४७) इति समासे "गोश्चान्ते० " (२.४.९६) इति हस्वत्वेऽनेन भिस ऐसादेशे “ऐदौद्०" (१.२.१२) इत्येत्वे अतिजरैरिति । यद्येवमेसादेश एवास्तु किमैस्करणेन ? "ऐदोद्०" (१.२.१२) इत्येत्वे रूपस्य सिद्धत्वात्, उच्यते- ऐस्करणं स्वरूपलाभार्थम्, स्वरूपलाभस्तु ऐत्वाभाव एव, ऐत्वाभावस्तु जरसादेश एव, जरसादेशस्तु सन्निपातलक्षणानित्यत्व एवेत्याह-एसादेशेनैवेत्यादि-एकदेशविकृतस्यानन्यत्वात् कृतहस्वोऽपि जराशब्द एवेति "जराया जरस् वा” (२.१.३.) इति जरसादेशेऽतिजरसैः, अन्यथा कृतह्रस्वं जराशब्दान्तं नाम समाश्रित्यैस्भावः प्रवृत्तः कथं तद्विघातस्य निमित्तं स्यात् ? न चेन्निमित्तं स्वरादावुच्यमानो जरसादेशो न प्राप्नोति, विभक्तेः स्वरादित्वाभावादित्यर्थः । अन्ये त्विति - श्रीशेषराजः, एत्वैत्वयोर्द्विमात्रत्वाविशेषादिति भावः । अत इत्यनुवर्तनाद् मुनिभिरित्यादौ ऐसादेशो न भवतीत्याह - अत इत्येवेत्यादि । चैत्रभिस्सा, ओदनभिस्सटेति- "प्सांक् भक्षणे" अतोऽभिपूर्वाद् “उपसर्गादातः” (५.३.११०) इत्यङि पृषोदरादित्वादभेरकारलोपे पस्य सकारें आपि एकत्र टागमे भिस्सा, भिस्सटा, चैत्रस्य भिस्सा ओदनः - चैत्रभिस्सा, ओदनस्य भिस्सटा दग्धिका - ओदनभिस्सटा, अत्र स्याद्यधिकारान्नायं भिस् स्यादिरिति ऐस् न भवति । ननु विनापि स्याद्यधिकारम्, *अर्थवद्ग्रहणे नानर्थकस्य इति न्यायाद् भिस्सा-भिस्सटाशब्दयोरेकदेशस्य भिसोऽनर्थकत्वादैस् न भविष्यति, सत्यम्-अविच्छेदार्थं स्याद्यधिकारः, स चेहानुवर्तमानः अर्थवद्ग्रहणे नानर्थकस्य इत्येतन्यायानपेक्षं विशिष्टस्यैव भिस ऐसादेशं नियमयतीत्येतदर्थं नायमपेक्षणीय इति, अपेक्ष्यमाणश्च न्यायो गौरवमादधाति, अनित्यश्चेति ।।२।। * ल. न्यास - भिस ऐसिति । एसादेशेनैवेति- एसादेशे कृते "लुगस्या०" (२.१.११३) इति तु न वाच्यम्, विधानसामर्थ्यात्, अन्यथा यदि देवेरित्यभीष्टं स्यात् तदा इसिति कुर्यात् । अतिजरसैरिति एकदेशविकृतस्यानन्यत्वात् कृतहस्वोऽपि जराशब्द एवेति । भिस्सटेति- "प्सांक् भक्षणे" इत्यस्याभिपूर्वस्याभिप्सायते इति “उपसर्गादातः” (५.३.११०) इति अङि पृषोदरादित्वादभेरकारलोपे पकारस्य राकारे आणि लक्ष्यानुरोधाद् विकल्पेन टागमे भिस्सा, भिरसटा ।।२।। इदमदसोऽक्येव । १।४।३ ॥ बृ०न्यास -- इदमित्यादि । इदमदस इति समाहारद्वन्द्वाद् ङस् । इमकैः, अमुकेरिति इदम्, अदस्' आभ्यां भिसि "आ द्वेरः" (२.१.४१) इत्यत्वे “लुगस्यादेत्यपदे” (२.१.११३) इत्यकारलोपे “त्यादिसर्वादेः०" (७.३.२९) इत्यकि "दो मः स्यादौ " (२.१.३९) इति "मोऽवर्णस्य " (२.१.४५ ) इति च दस्य मत्वे "मादुवर्णोऽनु" (२.१.४७) इत्युत्वेऽनेन भिस ऐस्त्वे " ऐदौत्" (१.२.१२) इत्यैकारः । एभि:, अमीभिरिति इदमः "अनक्" (२.१.३६) इत्यत्वे " एद् बहुस्भोसि" (१.४.४) इत्येत्वम्, अदसः 14 'आ द्वेरः" (२.१.४१) इत्यत्वे दस्य मत्वे पूर्ववदेत्वे "बहुष्वेरीः " (२.१.४९) इतीत्वम्, अकीति वचनादनयोरकारात् परस्य भिस ऐसादेशो न भवति । अथ किमर्थमिदम् ? यावताऽनयोरन्त्यात् स्वरात् पूर्वमको विधानादकारात् परो भिसिति पूर्वेणैव ऐसादेशो भविष्यति, * ला. सू. सम्पादितपुस्तके 'भ्यसि' इति पाठो वर्तते, परं सोऽसमीचीनः प्रतिभाति, पश्यत महाभाष्यम् ।

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564