Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 492
________________ परिशिष्ट-२ ४33 नपुंसकस्य शि: ।१।४।५५।। बृन्यास-नपुंसकस्येत्यादि-स्त्री च पुमांश्च स्त्रीपुंसौ “स्त्रियाः पुंसो०" (७.३.९६) इति समासान्ते सति न स्त्रीपुंसौ नपुंसकम्, नखादित्वानञोऽदादेशाभावः, स्त्रीपुंशब्दस्य पृषोदरादित्वात् पुंसकादेशः। शिरिति कार्यपदम्, तञ्च कार्यिसापेक्षम्, तत्रान्यस्यासम्भवादधिकृतयो: जस्-शसोरेव कार्यित्वमित्याह-जस्-शसोरित्यादि । कुण्डशब्दात् शसोऽनेन शावादेशे "स्वराच्छौ” (१.४.६५) इति नागमे “नि दीर्घः" (१.४.८५) इति दीर्घत्वे च कुण्डानि, एवमन्यत्रापि। अथेह कस्मान्न भवति?-कुण्डं कुण्डं ददाति कुण्डश इति, "संख्यैकार्थाद् वीप्सायाम्” (७.२.१५१) इति शस् अत्राप्यस्तीत्यत आह-स्याद्यधिकारादित्यादि-अयं परिहारः-यदार्थप्रकरणादिवशाद् वृत्तौ कुण्डादिशब्द एकार्थाभिधायी भवति तदा शस उत्पत्तिरविरुद्धा, न त्वन्यदा, प्रस्थादयस्तु शब्दा वृत्तावेकसंख्यार्थाभिधायका एव, शस्विधौ हि वृत्तिस्था एकार्थताऽऽश्रीयते, न तु वाक्यस्य, अर्थ-प्रकरणादिरहितश्च कुण्डादिशब्दो वृत्तावेकार्थो न भवतीति शसा न भवितव्यमेव, कस्मात् पुनः कुण्डादिशब्दो वृत्तावेकार्थो न भवति? उच्यते-जातिशब्दात्, जातिशब्दा हि नैकस्यामेव जात्याधारभूतायां व्यक्तौ वर्तन्ते, किन्त्वनेकस्यामपि, एवं च यत् तत्र शस्विधौ जयादित्यप्रभृतिभिः प्रत्युदाहरणमुपन्यस्तम्संख्यैकवचनादिति किम् ? घटं घटं ददातीति तदप्युपपद्यते। यद्यर्थप्रकरणादिरहितो जातिशब्दो वृत्तावेकार्थो न भवतीति । शकारस्याप्रयोगिणः प्रयोजनमाह-शकार इत्यादि। इह नपुंसकशब्देन नपुंसकाभिधायकस्य शब्दस्य वा ग्रहणं स्यादर्थस्य वेति द्वौ पक्षौ, तत्राद्ये पक्षे नपुंसकाभिधायकेन स्याद्याक्षिप्तं नाम विशिष्यते-नपुंसकाभिधायकशब्दान्तानाम्न इति, नाम्ना वा नपुंसकाभिधायकं नाम-यन्नपुंसकाभिधायकमिति, तत्र पूर्वस्मिन् पक्षे बहूनि त्रपूणि येषां ब्राह्मणानां तान् बहुत्रपून्, तथाऽतिक्रान्तं त्रपु यैस्तान् अतित्रपून् इत्यत्रापि प्रसङ्गः, द्वितीयपक्षे तु नास्त्यतिप्रसङ्गः, अर्थग्रहणेऽपि न दोषः, अर्थेन हि नामैव विशेषयितव्यम्, अन्यस्याप्रस्तुतत्वाद् असंशब्दितत्वाञ्च; एवं त्रिषु पक्षेषु सम्भवत्सु तदन्तपक्षनिराकरणेन द्वावितरौ पक्षावाश्रित्योक्तम्-नपुंसकस्य सम्बन्धिनोरित्यादि ।।५५।। ल.न्यास-नपुंसकस्येत्यादि-स्त्री च पुमाँश्च स्त्रीपुंसौ "स्त्रियाः पुंसो०" (७.३.९६) इति समासान्तः, न स्त्रीपुंसौ नखादित्वाद् नोऽदभावः, पृषोदरादित्वात् स्त्रीपुंसशब्दस्य पुंसक आदेशः ।।५५।। औरी: ।१।४५६॥ बृन्यास-औरीरिति-कार्य-कार्यिणोरभेदनिर्देशः सर्वादेशार्थः, अन्यथा विश्लिष्टावर्णत्वादीकारपरभागस्योवर्णस्य स्यात्, नपुंसकस्येत्यत्रापि पूर्ववद् व्याख्येयम्। परमकुण्डे इति-परमे च ते कुण्डे चेति "सन्महत्-परमो०" (३.१.१०७) इति विशेषणसमासस्योत्तरपदार्थप्रधानत्वात् तत्सम्बन्धित्वाद् भवत्येव ।।५६।। ल.न्यास-औरीरिति-कार्य-कार्यिणोरभेदनिर्देशः सर्वादेशार्थः, अन्यथा “षष्ठ्यान्त्यस्य" (७.४.१०६) इति न्यायाद् विश्लिष्टावर्णस्यौकारस्य स्यात्, यतः अओ इति प्रकृतौ “ऐदौत् सन्ध्यक्षरैः" (१.२.१२) इत्यनेन औकारो निष्पादितः ।।५६।। अतः स्यमोऽम् ।१।४।५७।। बृन्यास-अत इत्यादि। अत इति नपुंसकस्य विशेषणमतस्तदन्तप्रतिपत्तिर्भवतीत्याह-अकारान्तस्येति। तकारः श्रुतिसुखार्थः। अथाकारकरणं किमर्थम्? न चाऽमः सर्वादेशार्थमिति वाच्यम्, “प्रत्ययस्य” (७.४.१०८) इति सर्वादेशस्य सिद्धत्वात्; किञ्च, अन्तादेशेऽपि “समानादमोऽतः" (१.४.४६) इत्यकारलोपे विशेषाभावादित्याह-अम इत्यादि। जरामतिक्रान्तमिति समासे हस्वे च सति ततः सेरमादेशेऽतिजरसं कुलं तिष्ठतीति प्रथमयोदाहतम्, द्वितीया तु नोदाहता, तत्र परत्वान्नित्यत्वाञ्च पूर्व जरसादेशेन भाव्यम्। मकारविधानेऽपि दोषाभावः, *समानन्यायेन* तु लाघवार्थममोऽप्यम्करणम्। ननु च *सन्निपातलक्षणो विधिरनिमित्तम्०*

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564