Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
૪૪૬
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सखी-पञ्जू श्वश्रू" (२.४.७६) इति निपातनात् सखी, ततो द्विवचनम्। सत्यपि नामग्रहणे *लिङ्गविशिष्टस्य० * इति *एकदेशविकृतस्यानन्यवत्त्वे* अपीति च इत इति वचनान्न भवति, अनयोश्च न्याययोरस्तित्वे इदमेवेद्ग्रहणं ज्ञापकमित्याह-इदमेवेत्यादि। अथ शौ सति (*आदेशादागमः* इति न्यायाद् ऐत्त्वात् प्रथममेव) नागमेन भवितव्यम्, ततश्च तेन व्यवधानादैकारो न भविष्यति, न च द्वयोरन्यत्र सावकाशत्वात् परत्वादेकारः स्यादिति वाच्यम्, कृतेऽप्यैकारे "क्लीबे" (२.४.९७) इति हस्वत्वे पश्चाद् नागमे दीर्घत्वे च न कश्चिद् दोषः, नैतदस्ति * असिद्ध बहिरङ्गमन्तरङ्गे* इति घुनिमित्तस्यैकारस्य बहिरङ्गत्वाद् हस्वत्वे कर्तव्येऽसिद्धत्वात्। ननु भवत्वेवं तथापि कृताकृतप्रसङ्गित्वेन नित्यत्वात् पूर्वं नागम एव घुड्व्यवधायको भविष्यति, नैवम्-कृतेऽपि नागमे प्रकृतिभक्तत्वेनाव्यवधायकत्वादैकारोऽपि नित्य इति द्वयोनित्यत्वादैकार एव स्यादिति शिप्रतिषेधः ।।८३।।।
ल.न्यास-सख्युरित्यादि। ननु प्रक्रियालाघवार्थ “सख्युरितोऽशावाय्" इति क्रियताम्, किमैत्करणेन? न-"अनेकवर्ण०" (७.४.१०७) इति सकलस्यापि स्यात्। न च *निर्दिश्यमानानां०* इति इत एवायमिति वाच्यम्, यतो विभक्तिसामान्येन सखिशब्दस्य विशेष्यत्वेन इकारस्य विशेषणत्वेन च निर्दिश्यमानत्वाभावात्। अशाविति-अथ शो सति आदेशादागमः इति न्यायाद् ऐत्वात् प्रथममेव नागमेन भाव्यम्, ततस्तेन व्यवधानादैकारो न भविष्यतीति, न च द्वयोरप्यन्यत्र सावकाशत्वादैकारः स्यादिति वाच्यम्, कृतेऽप्यैकारे "क्लीबे" (२.४.९७) इति हस्वत्वे ततो नागमे दीर्घत्वे च न कश्चिद् दोषः, नैवम्-असिद्धं बहिरङ्गम् इति घुनिमित्तस्यैकारस्य बहिरङ्गत्वाद् ह्रस्वत्वे कर्तव्येऽसिद्धत्वात्। ननु भवत्येवं तथापि कृताकृतप्रसङ्गित्वेन नित्यत्वात् पूर्वं नागम इति घुटव्यवधायको भविष्यति, नैवम्-कृतेऽपि नागमे प्रकृतिभक्तत्वेनाव्यवधायकत्वाद् ऐकारोऽपि नित्य इति द्वयोनित्ययोः परत्वादैकार एव स्यादिति शिप्रतिषेधः। अतिसखीनि पूजितः सखा येषु कुलेषु, यद्वा सखिशब्दो नपंसकोऽपि लक्ष्येष दश्यते ।।८।।
ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डा ।१।४।०४।। बृन्न्यास-ऋदुशनसित्यादि-समाहारद्वन्द्वात् पञ्चमी। ऋकारान्तस्य “अझै च” (१.४.३९) इत्यरि प्राप्ते, त्रयाणां तु “दीर्घड्याब्०" (१.४.४५) इति सिलोपे “अभ्वादेरत्वसः सौ” (१.४.९०) इति ("सो रुः" २.१.७२ इति, "र: पदान्ते०" १.३.५३ इति च) दीर्घत्व-सत्व-विसृष्टेषु, सखिशब्दस्य त्वैत्वे प्राप्ते डारम्भः, डकारः “डित्यन्त्यस्वरादेः” (२.१.११४) इति विशेषणार्थः । पुरुं दशतीति “विहायस्सुमनस्पुरुदंशस्०" (उणा० ९७६) इत्यसि पुरुदंशा। नञ्पूर्वादीहे: “नज ईहेरेहेधौ च” (उणा० ९७५) इत्यसि एहादेशे च अनेहा 1।८४।।
ल.न्यास-ऋदुशनसित्यादि-ऋकारान्तस्य अझै च" (१.४.३९) इत्यरि त्रयाणां “दीर्घड्याब" (१.४.४५) इति सिलोपे “अभ्वादे०" (१.४.९०) इति दीर्घत्वे “सो रुः" (२.१.७२) इति रुत्वे च, सखिशब्दस्य तु ऐत्वे प्राप्ते डाऽऽरम्भः। हे अनेहः! इत्यत्र “न सन्धिः" (१.३.५२) इति सन्धिनिषेधः ।।८४ ।।
नि दीर्घः ।११४८५॥
बृन्यास–नि दीर्घ इत्यादि। घुटीति नीत्यस्याऽऽधारस्याऽऽधार इत्याह-धुटि परे यो नकारस्तस्मिन्निति। स्वरस्येतिअयमभिप्रायः-“एक-द्वि-त्रिमात्रा हस्व-दीर्घ-प्लताः" (१.१.५) इति 'स्वराः' इत्यनेन संहितायां षष्ठ्यर्थे प्रथमाव्याख्यानात् *हस्वदीर्घ-प्लुताः स्वराणां स्थाने भवन्ति इति परिभाषाविज्ञानात् “अवर्ण-कवर्ग-ह-विसर्गाः कण्ठ्याः " इति 'झुग्नः' इत्यत्र सत्यपि घकारस्य कण्ठ्यत्वे दीर्घो न भवति। स्रुचपूर्वाद्धन्तेः “अचित्ते टक्" (५.१.८३) इति टकि “गम हन-जन०" (४.२.४४) इत्यकारलोपे “हनो ह्रो नः" (२.१.११२) इति घ्रादेशे झुग्नः, तमाचष्टे "णिज् बहुलं०" (३.४.४२) इति णिच् ।।८५।।
Loading... Page Navigation 1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564