Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 503
________________ ४४४ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (२.१.९०) इत्यतः परमिति नासत, ततः पथीयतीति क्विपि अलोपे यलोपे चेदं रूपम्। नन्वनेनाऽऽत्वरूपे स्यादिविधौ विधातव्ये नलोपस्यासिद्धत्वात्रान्तत्वमस्ति, न च वाच्यम् “अतः" (४.३.८२) इत्यल्लुक: "स्वरस्य परे०" (७.४.११०) इति स्थानिवद्भावेन नान्तत्वानुपपत्तिरिति, यतः प्रत्यासत्तेर्यनिमित्तो लुक् विधिरपि यदि तनिमित्तो भवतीति व्याख्यानात्, अत्र तु अस्य लुक् क्विपि, आत्वं तु सौ प्रत्यये प्राप्नोतीति कृत्वात्र नान्तत्वमस्त्येवेति प्राप्नोत्यात्वम्, सत्यम्-नान्तेति व्यावृत्तिबलादेव न भवति, अन्यथा यत्र कुत्रापि नलोपस्तत्र सर्वत्राप्यमीषां पथ्यादीनां ध्वनीनामनेनाऽऽत्वलक्षणे स्यादिविधौ कर्तव्ये “ण-षमसत्परे०" (२.१.६०) इति न्यायेन नलोपस्यासिद्धत्वे नान्तत्वसद्भावादनेनात्वं भवेदेवेत्यत्र सूत्रे नान्तनिर्देशोऽनर्थकः स्यात्, तस्माद् यत्र साक्षानान्तत्वममीषां भवति तत्रेदं प्रवर्ततेऽन्यत्र तु व्यावृत्तिरिति सर्वं समीचीनम्। तर्हि "दीर्घड्याब्" (१.४.४५) इति सूत्रेण सेल्क् कस्मान्न भवति? यतोऽयमपि स्यादिविधिः, स्यादिविधौ च नलोपोऽसन् भवतीति, सत्यम्-“दीर्घड्याब्०" (१.४.४५) इत्यत्र सावधारणं व्याख्येयम्-व्यञ्जनान्तादेव यदि सिर्भवतीति, विहितविशेषणाद् वा यत्र एभ्यः परः सिर्विहितो भवति तत्र लुग् भवति, अत्र त्वीकारान्ताद् विहितो न व्यञ्जनान्तादिति। तर्हि या सा'इत्येवमादिषु सेक् न प्राप्नोति, सत्यम्-यत्रैतेषां मध्यादेकस्माद् विहितो भवति, कार्यान्तरेषु च कृतेषु पश्चादेतेषामेव मध्येऽन्यतमस्मात् परो भवति, तत्रापि भवति, तेनानयोः प्रयोगयोर्व्यञ्जनान्तात् परो विहितः कार्यान्तरेषु च सत्सु विद्यते आबन्तादिति सेल्ग् भवत्येव। 'यः सः' इत्यनयोस्तु व्यञ्जनान्ताद् विहितोऽस्ति, परम् “आ द्वेरः" (२.१.४१) इत्यादिकार्येषु कृतेषु सत्सु पश्चादमीषां मध्यादेकस्मादपि परो नास्तीति न सेर्लुक्। बहुभुक्षा इति-"ऋ-लुति हस्वो वा" (१.२.२) इति हस्वः, स्त्रीत्वाभावादितः कच् न भवति। हे सुपथिन्!, हे सुपथि! इति-"क्लीबे वा" (२.१.९३) इत्यनेन वा नस्य लोपः।।७६।। एः ।१।४७७।। बृन्यास-एरिति। पथ्यादीनामेकारस्यासंभवाद् ‘ए:' इति इकारात् षष्ठीत्याह-ए: इकारस्येति। सुपन्थानीति-शोभनः पन्था येष्विती विग्रहे जसि रूपम् ।।७।। ल.न्यास-एरिति। पथ्यादीनामेकारस्यासम्भवाद् ‘ए:' इति इकारात् षष्ठीत्याह-इकारस्येति ।।७७।। थो न्थ् ।१।४।७८॥ बृन्यास-थो न्थिति। अनेकवर्णत्वात् सर्वस्य प्राप्तौ 'थः' इति स्थानिविशेषार्थम्, ऋभुक्षिनिवृत्त्यर्थं च। उदाहरणं तु पूर्वकथितमेवेत्याह-तथैवोदाहतमिति ।।७८।। ल.न्यास-थो न्थिति-अनेकवर्णत्वात् सर्वस्य प्राप्तो 'थः' इति स्थानिविशेषार्थमृभुक्षिनिवृत्त्यर्थं च ।।७८ ।। इन् ङी-स्वरे लुक् ।१।४।७९।। बृन्यास-इन् ङीत्यादि। निमित्तविशेषानुपादाने घुडधिकारस्य निर्णीतत्वात्, 'स्वरे' इति निमित्तविशेषोपादानात्, घुटि च पथ्यादीनामिनो विशेषविधेविषयत्वादघुट्स्वर एवावसीयत इत्याह-अघुट्स्वरादाविति। सुपथी इति-शोभनः पन्था यस्या ययोर्वेति 'ऋक्पू:पथ्यपोऽत्" (७.३.७६) इति समासान्तस्य “पूजास्वतेः प्राक् टात्" (७.३.७२) इति प्रतिषेधात्, उणादीनामव्युत्पन्नपक्षस्याश्रयणादिनन्तत्वाभावात् “इनः कच्” (७.३.१७०) इत्यस्याप्यप्रवृत्तेर्नान्तत्वात् “स्त्रियां नृतोऽस्वस्रादेङ8:" (२.४.१) इति ड्याम्, कुलविशेषणत्वे नपुंसकत्वाद् “औरी:” (१.४.५६) इतीकारे वाऽनेनेनो लुक्; एवम्-'सुमथी' इत्यादावपि। अभेदनिर्देश इतिभेदनिर्देशे हि “षष्ठ्यान्त्यस्य" (७.४.१०६) इति अन्त्यस्य न एव लोपः स्यादित्यर्थः ।।७९।।

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564