________________
४४४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (२.१.९०) इत्यतः परमिति नासत, ततः पथीयतीति क्विपि अलोपे यलोपे चेदं रूपम्। नन्वनेनाऽऽत्वरूपे स्यादिविधौ विधातव्ये नलोपस्यासिद्धत्वात्रान्तत्वमस्ति, न च वाच्यम् “अतः" (४.३.८२) इत्यल्लुक: "स्वरस्य परे०" (७.४.११०) इति स्थानिवद्भावेन नान्तत्वानुपपत्तिरिति, यतः प्रत्यासत्तेर्यनिमित्तो लुक् विधिरपि यदि तनिमित्तो भवतीति व्याख्यानात्, अत्र तु अस्य लुक् क्विपि, आत्वं तु सौ प्रत्यये प्राप्नोतीति कृत्वात्र नान्तत्वमस्त्येवेति प्राप्नोत्यात्वम्, सत्यम्-नान्तेति व्यावृत्तिबलादेव न भवति, अन्यथा यत्र कुत्रापि नलोपस्तत्र सर्वत्राप्यमीषां पथ्यादीनां ध्वनीनामनेनाऽऽत्वलक्षणे स्यादिविधौ कर्तव्ये “ण-षमसत्परे०" (२.१.६०) इति न्यायेन नलोपस्यासिद्धत्वे नान्तत्वसद्भावादनेनात्वं भवेदेवेत्यत्र सूत्रे नान्तनिर्देशोऽनर्थकः स्यात्, तस्माद् यत्र साक्षानान्तत्वममीषां भवति तत्रेदं प्रवर्ततेऽन्यत्र तु व्यावृत्तिरिति सर्वं समीचीनम्। तर्हि "दीर्घड्याब्" (१.४.४५) इति सूत्रेण सेल्क् कस्मान्न भवति? यतोऽयमपि स्यादिविधिः, स्यादिविधौ च नलोपोऽसन् भवतीति, सत्यम्-“दीर्घड्याब्०" (१.४.४५) इत्यत्र सावधारणं व्याख्येयम्-व्यञ्जनान्तादेव यदि सिर्भवतीति, विहितविशेषणाद् वा यत्र एभ्यः परः सिर्विहितो भवति तत्र लुग् भवति, अत्र त्वीकारान्ताद् विहितो न व्यञ्जनान्तादिति। तर्हि या सा'इत्येवमादिषु सेक् न प्राप्नोति, सत्यम्-यत्रैतेषां मध्यादेकस्माद् विहितो भवति, कार्यान्तरेषु च कृतेषु पश्चादेतेषामेव मध्येऽन्यतमस्मात् परो भवति, तत्रापि भवति, तेनानयोः प्रयोगयोर्व्यञ्जनान्तात् परो विहितः कार्यान्तरेषु च सत्सु विद्यते आबन्तादिति सेल्ग् भवत्येव। 'यः सः' इत्यनयोस्तु व्यञ्जनान्ताद् विहितोऽस्ति, परम् “आ द्वेरः" (२.१.४१) इत्यादिकार्येषु कृतेषु सत्सु पश्चादमीषां मध्यादेकस्मादपि परो नास्तीति न सेर्लुक्। बहुभुक्षा इति-"ऋ-लुति हस्वो वा" (१.२.२) इति हस्वः, स्त्रीत्वाभावादितः कच् न भवति। हे सुपथिन्!, हे सुपथि! इति-"क्लीबे वा" (२.१.९३) इत्यनेन वा नस्य लोपः।।७६।।
एः ।१।४७७।। बृन्यास-एरिति। पथ्यादीनामेकारस्यासंभवाद् ‘ए:' इति इकारात् षष्ठीत्याह-ए: इकारस्येति। सुपन्थानीति-शोभनः पन्था येष्विती विग्रहे जसि रूपम् ।।७।।
ल.न्यास-एरिति। पथ्यादीनामेकारस्यासम्भवाद् ‘ए:' इति इकारात् षष्ठीत्याह-इकारस्येति ।।७७।।
थो न्थ् ।१।४।७८॥ बृन्यास-थो न्थिति। अनेकवर्णत्वात् सर्वस्य प्राप्तौ 'थः' इति स्थानिविशेषार्थम्, ऋभुक्षिनिवृत्त्यर्थं च। उदाहरणं तु पूर्वकथितमेवेत्याह-तथैवोदाहतमिति ।।७८।।
ल.न्यास-थो न्थिति-अनेकवर्णत्वात् सर्वस्य प्राप्तो 'थः' इति स्थानिविशेषार्थमृभुक्षिनिवृत्त्यर्थं च ।।७८ ।।
इन् ङी-स्वरे लुक् ।१।४।७९।।
बृन्यास-इन् ङीत्यादि। निमित्तविशेषानुपादाने घुडधिकारस्य निर्णीतत्वात्, 'स्वरे' इति निमित्तविशेषोपादानात्, घुटि च पथ्यादीनामिनो विशेषविधेविषयत्वादघुट्स्वर एवावसीयत इत्याह-अघुट्स्वरादाविति। सुपथी इति-शोभनः पन्था यस्या ययोर्वेति 'ऋक्पू:पथ्यपोऽत्" (७.३.७६) इति समासान्तस्य “पूजास्वतेः प्राक् टात्" (७.३.७२) इति प्रतिषेधात्, उणादीनामव्युत्पन्नपक्षस्याश्रयणादिनन्तत्वाभावात् “इनः कच्” (७.३.१७०) इत्यस्याप्यप्रवृत्तेर्नान्तत्वात् “स्त्रियां नृतोऽस्वस्रादेङ8:" (२.४.१) इति ड्याम्, कुलविशेषणत्वे नपुंसकत्वाद् “औरी:” (१.४.५६) इतीकारे वाऽनेनेनो लुक्; एवम्-'सुमथी' इत्यादावपि। अभेदनिर्देश इतिभेदनिर्देशे हि “षष्ठ्यान्त्यस्य" (७.४.१०६) इति अन्त्यस्य न एव लोपः स्यादित्यर्थः ।।७९।।