________________
परिशिष्ट-२
४४५ ल.न्यास-इन् डीत्यादि। अघुट्स्वरादाविति-डीसाहचर्याद् अघुटीति विशेषणं ज्ञेयम्, तर्हि स्यादिमन्तरेणापि प्राप्नोतीति न वाच्यम्, स्याद्यधिकाराश्रयणात्, ङीग्रहणस्य वैयर्थ्यप्रसङ्गाञ्च, निमित्तविशेषानुपादाने घुटीत्यधिकारस्य निर्णीतत्वात् 'स्वरे' इति निमित्तविशेषोपादानाद् घुटि च पथ्यादीनामिनो विशेषविधिविषयत्वादघुट्स्वरे इत्यवसीयते । सुपथी स्त्री कुले वेति-व्युत्पत्तिपक्षे सुभ्वादित्वात्, उणादीनामव्युत्पत्रानि नामानीति पक्षाश्रयणाद् इनन्तत्वाभावादिनः कच् न भवति, समासान्तविधेरनित्यत्वाद् “ऋक्पू:०" (७.३.७६) इत्यपि न, नान्तत्वात् “स्त्रियां नृतो." (२.४.१) इति डोः ।।७९।।
वोशनसो नश्चामन्त्र्ये सौ ।१।४।८०।। बृन्यास-वोशनस इत्यादि। नकारादादेशात् श्रुतश्चकारोऽन्यस्यासम्भवात् पूर्वसूत्रोपात्तं लुग्लक्षणमादेशान्तरं समुञ्चिनोतीत्याह-नकार इत्यादि। वष्टे: “वष्टे: कनस्" (उणा० ९८५) इति कनसि “वशेरयङि" (४.१.८३) इति वृति उशनस्, तत्रामन्त्र्ये सावनेनान्तस्य नकार-लोपयोः कृतयोः “दीर्घड्याब" (१.४.४५) इति “अदेतः स्यमोलुंक" (१.४.४२) इति सेलोपे तद्विमुक्तपक्षे च सिलोपरुत्वादौ रूपत्रयम् ।।८।।
ल.न्यास-वोशनस इत्यादि। यदा*सर्वविधिभ्यो लोपः* इति न्याय आश्रीयते तदा से: स्थानिवद्भावेन कार्यम् ।।८।।
उतोऽनडुचतुरो वः ।१।४।८१।। बृन्यास-उत इत्यादि-यद्यपि निमित्तविशेषानुपादाने घुटीत्यधिक्रियते तथाप्युत्तरत्र विशेषग्रहणादामन्त्र्यसिरेवात्रानुवर्तते। सूत्रे सस्वरस्य निर्देशाद् उत्तरत्र वादेशस्य सस्वरस्य विधानात् तत्प्रस्तावात् सस्वर एव भवति। (हे प्रियानड्वन्!) प्रिया अनड्वाहो यस्येति, एकत्वे कच्प्रसङ्गाद् बहुत्वेन विग्रहः। (हे अतिचत्वः!) चतुःशब्दार्थप्राधान्येनैकामन्त्रणासम्भवे चतुःशब्द उपसर्जनसमास एवोदाहियते। बहुव्रीहौ चतुःशब्दः प्रियशब्दादेवोत्तरः सम्भवति “प्रियः" (३.१.१५७) इति पूर्वनिपातारम्भात्, अन्यत्र तु “विशेषण-सर्वादि-संख्यं०" (३.१.१५०) इति चतुःशब्दस्यैव पूर्वनिपात: संभवतीत्युदाहरति-हे प्रियचत्वः! इति। सत्यपि *नामग्रहणे लिङ्गविशिष्टस्य०* इति ‘हे अनडुहि !' इत्यत्र गौरादिनिपातनाद् वत्वाभावः, एवमुत्तरत्रापि ।।८१।।
ल.न्यास-उतोऽनडुछेत्यादि-उत्तरत्र शेषग्रहणादामन्त्र्यसिरेवानुवर्तते, न तु विशेषनिमित्तानुपादानाद् घुटीति। सत्यपि *नामग्रहणे लिङ्गविशिष्टस्य०* इति 'हे अनडुहि !' इत्यत्र गौरादिनिपातनाद् वत्वाभावः, एवमुत्तरत्रापि। चतुःशब्दस्यार्थप्राधान्येन एकामन्त्रणासम्भवे समासे उपसर्जनीभूत एवोदाहियते ।।८१।।
वाः शेषे ।१।४।०२।। बृन्यास-वाः शेष इति। उपयुक्तादन्यः शेष उच्यते, उपयुक्तश्च पूर्वसूत्रे आमन्त्र्यसिरेवात आह-आमन्त्र्यविहितेत्यादि।।८२।।
ल.न्यास-वाः शेष इति। इह शेष इति-अत्र सूत्रे शेषस्य घुट आघ्रातत्वाद् एतत्सूत्रमुक्त: प्राक्तनसूत्रविषय इति भावः ।।८२।।।
सख्युरितोऽशावेत् ।१।४।८३।। बृन्न्यास-सख्युरित्यादि। इत इति सख्युरित्यस्य स्थानित्वेन विशेषणमित्याह-सखिशब्दस्येत्यादि। “षन भक्तो" अतः “सनेडखिः” (उणा० ६२५) इति डखिप्रत्ययेऽन्त्यस्वरादिलोपे सखि, ततः प्रथमाद्विवचनादौ घुटि अनेनैकारे आयादेशे च सखायो इत्यादि। प्रथमैकवचने “ऋदुशनस्पुरुदंशो०" (१.४.८४) इति विशेषेण डादेशविधानानोदाहतम्। सख्यो इति-सखिशब्दस्य “नारी