Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 495
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ग्रामण्येत्यादि-ग्रामणीशब्दात् टादौ स्वरे पक्षेऽनेन पुंवद्भावाद्धस्व-नागमाभावे यथासम्भवं "निय आम्" (१.४.५१) इति ङेरामादेशे “क्विब्वृत्तेरसुधियस्तौ" (२.१.५८) इति यत्वम्, तद्विमुक्तपक्षे हस्वत्वं नागमश्चेति; एवम्-कर्तृणेत्यादि । अन्यत इति - त्रपु - जत्वादिशब्दानां जातिशब्दत्वान्न विशेष्यनिबन्धनं नपुंसकत्वमित्यन्यत इति वचनात् पुंवद्भावो न भवति । "पीङः कित्" ( उणा० २१) इति लौ पीलुवृक्षः, तस्य विकार- फलेऽणो लुप् ।।६२।। ૪૩૬ T ल. न्यास - वाऽन्यत इत्यादि । पुंवद् वेति परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणापि वत्यर्थं गमयति यथाऽग्रिर्माणवक इति, तथा अत्रापि परार्थो नपुंसकस्तत्र हि प्रयुक्तः पुमानिति । ग्रामणिनेति ननु पूर्वं "क्विब्वृत्तेरसुधियस्तो" (२.१.५८) इत्यादिना यत्वं कस्मान्न भवति ? सत्यम्-“इदुतोस्त्रेरीदूत्” (१.४.२१) इत्यत्र स्त्रीवर्जनेन परमपि इयुव्यत्वादि इदुदाश्रितेन बाध्यते इति भणनात्, यद्वा आदेशादागम इति न्यायाद् यत्वं बाधित्वा नोऽन्तः । ग्रामण्येति - ग्रामणीशब्दस्यानेन पुंवत्त्वे हस्वनागमाभावः । कर्तॄणामिति-द्वयोरपि "हस्वापश्च” (१.४.३२) इति नाम्, न त्वपुंस्त्वपक्षे " अनाम्स्वरे० " (१.४.६४) इत्यनेन नोऽन्तः, तत्रामो वर्जितत्वात्, द्वितीयप्रयोगो रूपनिर्णयार्थो दर्शितः । न तु तस्य किञ्चिदत्रान्यत् फलम्। चित्रगवे इति - अत्र चित्रा गावो यस्येति "क्लीबे” (२.४.९७) हस्वत्वम्, तत् पुंस्त्वे सति निवर्तते, ततश्च "गोश्चान्ते ह्रस्वः०" (२.४.९६) ह्रस्वः, ततो "ङित्यदिति" (१.४.२३) इत्योत्वम् । कुमार्ये इति - अत्र यद्यपि कुमारीशब्दः पुंवत् तथापि नित्यस्त्रीविषयत्वादीकारस्य “स्त्रीदूतः” (२.४.२९) इति दैः ।।६२।। दध्यस्थि- सक्थ्यक्ष्णोऽन्तस्यान् । १।४।६३ ।। बृ०न्यास-दध्यस्थीत्यादि। अस्यतेः "वी सञ्ज्यसिभ्यस्थिक्" ( उणा० ६६९) इति थिकि अस्थि, "सञ्ज्ञं सङ्गे" इत्यस्मात् पूर्वसूत्रेण थिकि सक्थि, दध्यक्षिशब्दौ च साधितौ, 'दध्यस्थि- सक्थ्यक्ष्णः' इत्यन्तस्य कार्यिणो विशेषणमतष्टादौ स्वर इत्यस्य परत्वमात्रं विज्ञायते, न तत्सम्बन्धित्वमेवेत्याह- तत्सम्बन्धिनीत्यादि । अत्र नपुंसकार्थविशिष्टैः दध्यादिभिः स्याद्याक्षिप्तं नाम विशेष्यते तेन दध्याद्यन्तस्यापि नाम्नोऽन् भवतीत्युदाहरति - परमदना इत्यादि । ननु सत्यपि तदन्तविधौ दध्याद्यन्तस्यानपुंसकस्य ग्रहणं नोपपद्यते, नपुंसकस्येत्यनुवृत्तेः, नैष दोषः - नात्र नपुंसकस्येत्यनेन प्रकृतं नाम विशेष्यतेऽपि तु श्रुतत्वाद् दध्यादय एव, तदन्तानां त्वेषां दध्यादीनां लिङ्गान्तरेऽपि वर्तमानानां नपुंसकत्वमस्त्येव, तेन नपुंसके वर्तन्ते ये दध्यादयस्तदन्तस्य नाम्रोऽनपुंसकेऽपि वर्तमानस्य ग्रहणमुपपन्नं भवतीत्युदाहरति- प्रियास्था शुनेत्यादि । यदि तर्हि तदन्तस्य ग्रहणं केवलानां न सिद्ध्यति, अयमप्यदोषःव्यपदेशिवद्भावात् केवलानामपि भविष्यति, व्यपदेशिवद्भावोऽनाम्ना इति च न्यायः, प्रत्ययविधिविषय एवेति नोपतिष्ठते । अतिदन्या इति-दध्यतिक्रान्तयेति समासे तृतीयैकवचनेऽनेनानादेशे सन्निपातलक्षणस्यानित्यत्वात् "स्त्रियां नृतो० " (२.४.१) इति ङीप्रत्यये “अनोऽस्य” (२.१.१०८) इत्यकारलोपे “इवर्णादेरस्वे० " (२.१.२१) इत्यनेन यत्वे अतिदध्या स्त्रिया । दध्यादीनां स्वभावेनैव नपुंसकत्वाद् व्यभिचाराभावात् तद्विशेषणमनर्थकम् उच्यते यदा ते यदृच्छाशब्दाः क्रियाशब्दा वा सन्तो लिङ्गान्तरे वर्तन्ते तदाऽस्ति व्यभिचार इति तद्व्यवच्छेदार्थं तद्विशेषणमित्याह- नपुंसकस्येत्यादि । अतिना ब्राह्मणेन वारिणेत्यादौ अन्-नागमयोः सावकाशत्वाद् दध्रेत्यादावुभयप्राप्तौ “स्पद्धे” (७.४.११९) इति परत्वादनं बाधित्वा नागम एव प्राप्नोति, उच्यते - परशब्दस्येष्टवाचित्वात् स्पद्धे यदिष्टं तद् भवतीति व्याख्यानात् पूर्वविप्रतिषेधेन नाऽऽगमं बाधित्वाऽनादेश एव भवति । यदाऽस्य योगस्योत्तरत्रानुवृत्तिः “अनाम्स्वरे नोऽन्तः (१.४.६४) दध्यस्थि-सक्थ्यक्ष्णोऽन्तस्यान् टादौ" इति, तत्र वाक्यभेदेन 'अनाम्स्वरे' इति सामान्येन नोऽन्तो भवति, दध्यादीनां तु टादौ स्वरेऽन् भवतीति *विशेषविधानेनाऽन्तं बाधित्वाऽनेन भवतीत्याह - विशेषविधानादित्यादि । परत्वं तु यथावस्थितसूत्रापेक्षया नागमस्योक्तमिति ।। ६३ ।। * ला. सू. सम्पादितपुस्तके 'विशेषविधानान्तं बाधित्वा' इति पाठो वर्तते ।

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564