________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
ग्रामण्येत्यादि-ग्रामणीशब्दात् टादौ स्वरे पक्षेऽनेन पुंवद्भावाद्धस्व-नागमाभावे यथासम्भवं "निय आम्" (१.४.५१) इति ङेरामादेशे “क्विब्वृत्तेरसुधियस्तौ" (२.१.५८) इति यत्वम्, तद्विमुक्तपक्षे हस्वत्वं नागमश्चेति; एवम्-कर्तृणेत्यादि । अन्यत इति - त्रपु - जत्वादिशब्दानां जातिशब्दत्वान्न विशेष्यनिबन्धनं नपुंसकत्वमित्यन्यत इति वचनात् पुंवद्भावो न भवति । "पीङः कित्" ( उणा० २१) इति लौ पीलुवृक्षः, तस्य विकार- फलेऽणो लुप् ।।६२।।
૪૩૬
T
ल. न्यास - वाऽन्यत इत्यादि । पुंवद् वेति परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणापि वत्यर्थं गमयति यथाऽग्रिर्माणवक इति, तथा अत्रापि परार्थो नपुंसकस्तत्र हि प्रयुक्तः पुमानिति । ग्रामणिनेति ननु पूर्वं "क्विब्वृत्तेरसुधियस्तो" (२.१.५८) इत्यादिना यत्वं कस्मान्न भवति ? सत्यम्-“इदुतोस्त्रेरीदूत्” (१.४.२१) इत्यत्र स्त्रीवर्जनेन परमपि इयुव्यत्वादि इदुदाश्रितेन बाध्यते इति भणनात्, यद्वा आदेशादागम इति न्यायाद् यत्वं बाधित्वा नोऽन्तः । ग्रामण्येति - ग्रामणीशब्दस्यानेन पुंवत्त्वे हस्वनागमाभावः । कर्तॄणामिति-द्वयोरपि "हस्वापश्च” (१.४.३२) इति नाम्, न त्वपुंस्त्वपक्षे " अनाम्स्वरे० " (१.४.६४) इत्यनेन नोऽन्तः, तत्रामो वर्जितत्वात्, द्वितीयप्रयोगो रूपनिर्णयार्थो दर्शितः । न तु तस्य किञ्चिदत्रान्यत् फलम्। चित्रगवे इति - अत्र चित्रा गावो यस्येति "क्लीबे” (२.४.९७) हस्वत्वम्, तत् पुंस्त्वे सति निवर्तते, ततश्च "गोश्चान्ते ह्रस्वः०" (२.४.९६) ह्रस्वः, ततो "ङित्यदिति" (१.४.२३) इत्योत्वम् । कुमार्ये इति - अत्र यद्यपि कुमारीशब्दः पुंवत् तथापि नित्यस्त्रीविषयत्वादीकारस्य “स्त्रीदूतः” (२.४.२९) इति दैः ।।६२।।
दध्यस्थि- सक्थ्यक्ष्णोऽन्तस्यान् । १।४।६३ ।।
बृ०न्यास-दध्यस्थीत्यादि। अस्यतेः "वी सञ्ज्यसिभ्यस्थिक्" ( उणा० ६६९) इति थिकि अस्थि, "सञ्ज्ञं सङ्गे" इत्यस्मात् पूर्वसूत्रेण थिकि सक्थि, दध्यक्षिशब्दौ च साधितौ, 'दध्यस्थि- सक्थ्यक्ष्णः' इत्यन्तस्य कार्यिणो विशेषणमतष्टादौ स्वर इत्यस्य परत्वमात्रं विज्ञायते, न तत्सम्बन्धित्वमेवेत्याह- तत्सम्बन्धिनीत्यादि । अत्र नपुंसकार्थविशिष्टैः दध्यादिभिः स्याद्याक्षिप्तं नाम विशेष्यते तेन दध्याद्यन्तस्यापि नाम्नोऽन् भवतीत्युदाहरति - परमदना इत्यादि । ननु सत्यपि तदन्तविधौ दध्याद्यन्तस्यानपुंसकस्य ग्रहणं नोपपद्यते, नपुंसकस्येत्यनुवृत्तेः, नैष दोषः - नात्र नपुंसकस्येत्यनेन प्रकृतं नाम विशेष्यतेऽपि तु श्रुतत्वाद् दध्यादय एव, तदन्तानां त्वेषां दध्यादीनां लिङ्गान्तरेऽपि वर्तमानानां नपुंसकत्वमस्त्येव, तेन नपुंसके वर्तन्ते ये दध्यादयस्तदन्तस्य नाम्रोऽनपुंसकेऽपि वर्तमानस्य ग्रहणमुपपन्नं भवतीत्युदाहरति- प्रियास्था शुनेत्यादि । यदि तर्हि तदन्तस्य ग्रहणं केवलानां न सिद्ध्यति, अयमप्यदोषःव्यपदेशिवद्भावात् केवलानामपि भविष्यति, व्यपदेशिवद्भावोऽनाम्ना इति च न्यायः, प्रत्ययविधिविषय एवेति नोपतिष्ठते । अतिदन्या इति-दध्यतिक्रान्तयेति समासे तृतीयैकवचनेऽनेनानादेशे सन्निपातलक्षणस्यानित्यत्वात् "स्त्रियां नृतो० " (२.४.१) इति ङीप्रत्यये “अनोऽस्य” (२.१.१०८) इत्यकारलोपे “इवर्णादेरस्वे० " (२.१.२१) इत्यनेन यत्वे अतिदध्या स्त्रिया । दध्यादीनां स्वभावेनैव नपुंसकत्वाद् व्यभिचाराभावात् तद्विशेषणमनर्थकम् उच्यते यदा ते यदृच्छाशब्दाः क्रियाशब्दा वा सन्तो लिङ्गान्तरे वर्तन्ते तदाऽस्ति व्यभिचार इति तद्व्यवच्छेदार्थं तद्विशेषणमित्याह- नपुंसकस्येत्यादि । अतिना ब्राह्मणेन वारिणेत्यादौ अन्-नागमयोः सावकाशत्वाद् दध्रेत्यादावुभयप्राप्तौ “स्पद्धे” (७.४.११९) इति परत्वादनं बाधित्वा नागम एव प्राप्नोति, उच्यते - परशब्दस्येष्टवाचित्वात् स्पद्धे यदिष्टं तद् भवतीति व्याख्यानात् पूर्वविप्रतिषेधेन नाऽऽगमं बाधित्वाऽनादेश एव भवति । यदाऽस्य योगस्योत्तरत्रानुवृत्तिः “अनाम्स्वरे नोऽन्तः (१.४.६४) दध्यस्थि-सक्थ्यक्ष्णोऽन्तस्यान् टादौ" इति, तत्र वाक्यभेदेन 'अनाम्स्वरे' इति सामान्येन नोऽन्तो भवति, दध्यादीनां तु टादौ स्वरेऽन् भवतीति *विशेषविधानेनाऽन्तं बाधित्वाऽनेन भवतीत्याह - विशेषविधानादित्यादि । परत्वं तु यथावस्थितसूत्रापेक्षया नागमस्योक्तमिति ।। ६३ ।। * ला. सू. सम्पादितपुस्तके 'विशेषविधानान्तं बाधित्वा' इति पाठो वर्तते ।