________________
परिशिष्ट २
૪૩૫
ल. न्यास - अनत इत्यादि । ननु अनत इति किमर्थम् ? न च वाच्यम्-कुण्डमित्यत्रापि स्यात्, “अतः स्यमोऽम्" (१.४.५७) इति बाधकात्, अत्रोच्यते - अनत इत्यस्याभावे “पञ्चतोऽन्यादे० " (१.४.५४) इत्यतोऽन्यादेरित्यागच्छेत्, न च वाच्यम् अन्याद्यभीष्टौ हि एकमेव योगं कुर्यात्, पूर्वमेकतरवर्जितस्यान्यादेर्ग्रहणम्, इह तु एकतरस्यापीति पृथग्योगस्य साफल्यात् । हे कर्तृ । इत्यादौ परत्वात् प्रथमं सेलोपे * प्रत्ययलोपलक्षण न्यायेन "हस्वस्य गुणः " (१.४.४१) इति गुणः कस्मान्न भवतीत्याह - लुकमकृत्वेति । । ५९ ।।
जरसो वा | १|४ |६० ।।
बृ०न्यास-जरसो वेति-( एतदुपरिन्यासो न दृश्यते ) ।।६० ।।
ल. न्यास - जरस इत्यादि । अन्ये त्विति - उत्पलादयः । । ६० ।।
नामिनो
लुग् वा । १।४ । ६१ ।।
बृ०न्यास-नामिन इत्यादि । नामिन इत्यधिकृतस्य नपुंसकस्य विशेषणम्, तत्र च तदन्तविधिरित्याह- नाम्यन्तस्येत्यादि । अथानुवर्तमानयैव लुपा सिद्धं किं लुग्ग्रहणमित्याह - लुपैवेत्यादि - तेन लुक्पक्षे “लुप्यय्वृल्लेनत्" (७.४.११२) इति स्थानिवद्भावप्रतिषेधाभावे स्थानिवद्भावात् “हस्वस्य गुणः " (१.४.४१) इत्यादिर्भवतीति तथैवोदाहृतम् ।।६१ ।।
ल. न्यास-नामिन इत्यादि । प्रियतिसृ कुलमिति - "ऋदुशनस्-पुरु०" (१.४.८४) इत्यत्र घुटः सेग्रहणादत्र क्लीबत्वेन घुट्त्वाभावे सेः स्थानित्वेऽपि न डाः । नेच्छन्त्येके देवनन्द्यादयः । इच्छन्त्यन्ये उत्पलादयः । । ६१ । ।
वाऽन्यतः पुमांष्टादौ स्वरे । १।४ । ६२ ।।
T
बृ०न्यास - वाऽन्यत इत्यादि । नामिन इति वर्तते, तद् यथा नपुंसकस्य विशेषणं तथाऽन्यत इत्यपि तच षष्ठ्यन्तमप्यर्थवशात् प्रथमान्ततया विपरिणम्यत इत्याह-यो नाम्यन्त इत्यादि । अन्यत इति व्याचष्टे - विशेष्यवशादिति । अन्यत इति सामान्याभिधानेऽपि तदन्यद् विशेष्यमेव विज्ञायते, विशेष्यादन्यतो लिङ्गाभावात् । अयमभिप्रायः - इह द्विधा लिङ्गव्यवस्था, केषाञ्चित् स्वत लिङ्गम्, यथा-दधि-मध्वादिजातिशब्दानाम्, केषाञ्चिदन्यतो विशेष्यात्, यथा-गुण-क्रिया द्रव्य-सम्बन्धनिमित्तानां पट्वादिशब्दानाम्, ते हि विशेष्यलिङ्गमुपाददते, न तेषां स्वतो व्यवस्थितं किञ्चिल्लिङ्गमस्ति, तथाहि - 'पटुः पुमान्, पट्वी स्त्री, पटु कुलम्' इति विशेष्यत एव लिङ्गं दृश्यते, न स्वत इति, अतोऽन्यत इति गुण - क्रिया द्रव्य-सम्बन्धनिमित्तप्रवृत्तिः शब्दोऽभिधीयत इति अन्यतो नपुंसक इत्युच्यमानेऽपि नपुंसकोपादायिना शब्देन तदैव पुंस्त्वोपादानाभावः । अथ विशेषणस्योपलक्षण एवोपक्षीणत्वात् कार्ये सन्निधानाभावात् स्त्रियामपि पुंभावः स्यादिति चेत् ? न परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणापि वत्यर्थं गमयत्येव यथा - अब्रह्मदत् ( अब्रह्मदत्ते ब्रह्मदत्त इति) अत्र हि निर्ज्ञाते झटिति ब्रह्मदत्ते पदार्थैकदेशभूता रूढसम्बन्धाः क्रियागुणास्तानुपलभ्य एव ब्रह्मदत्त इत्युच्यते, समुदायपदार्थवादिनो ह्यवयवेऽपि शब्दप्रवृत्तिरेवम्भूतश्च निर्देश इति नोपपद्यते, नहि नपुंसकस्य स्वतो लिङ्गधर्माः केचित् प्रसिद्धाः सन्तीति, अस्ति तु लोके भाविनो धर्मान् भूतवदुपादाय व्यपदेशः, एष ब्रह्मदत्त इति, लभतामयं प्रतिपद्यतामयं ब्रह्मदत्तधर्मानिति भूतवदुपादाय सोऽयमित्यभिसम्बन्धेन तच्छब्दप्रतिलम्भः, एवमिहापि भाविनो नागमाभावादीन् पुल्लिङ्गाश्रयान् धर्मानुपादाय वतिमन्तरेणापि नपुंसके तच्छब्दप्रवृत्तिरित्याह- पुंवद् वा भवतीति । पुंस्त्वातिदेशेन साध्यमर्थं दर्शयति-यथा पुंसीत्यादि - " अनाम्स्वरे नोऽन्तः" (१.४.६४) इति नागमः, "क्लीबे" (२.४.९७) इत्यादिहस्वत्वं च न भवतीत्ययमर्थः पुंवद्भवतीत्यनेन साध्यते । पुमनुवादेन चात्र न किञ्चित् कार्यं शास्त्रे विहितमस्तीति पुंस्यदृष्टस्य नपुंसककार्यस्यैव नागम-ह्रस्वलक्षणस्य पुंभावेनाभावः प्रयोजनत्वेनोच्यते, न च स्त्रियां तत् संभवतीति ।