________________
४४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इति न्यायादकाराश्रितत्वादमादेशस्य कथं तद्विघातकृज्जरसादेशः? उच्यते-अत एवाम्सम्प्रदायादनित्योऽयमिति विज्ञायते, अन्यथा मकारेणैव कृतत्वादम्सम्प्रदायोऽनर्थक इति। अपरे तु जरसादेशं न मन्यन्ते ।।५७ ।।
ल.न्यास-अतः स्येत्यादि। नन्वत्राद्ग्रहणं किमर्थम्? न च वाच्यम्-अद्ग्रहणाभावे दधीत्यत्राप्यमादेशः स्यात्, यतः “अनतो लुप्" (१.४.५९) इति सूत्रं बाधकं विद्यत इति। ननु अनत इत्यत्र पर्युदासः प्रसज्यो वा नञ् गृह्यत इति संदेहः, न च वाच्यम्-पर्युदासे हि "नामिनो लुप्" (१.४.६१) इति सूत्रं कुर्यात्, तस्मात् प्रसज्य एवेति, कुतः? काष्ठा परं प्रकर्षमध्यापक इत्यत्र क्रियाविशेषणत्वेन आकारादप्यमो लुग् दृश्यते, अतोऽनत इति कर्तव्यमेव, अत: संदेहस्तदवस्थ एव, अतोऽद्ग्रहणेन ज्ञाप्यते-प्रसज्य एव गृह्यते, तथा च पय इत्यादौ लुप् सिद्धा, न त्वमादेशः । अत इति नपुंसकस्य विशेषणम्, अतस्तदन्तप्रतिपत्तिर्भवतीत्याह-अकारान्तस्येति। अम्ग्रहणमुत्तरार्थम्, तेनान्यत् पश्येति सिद्धम् ।।५७।।
पञ्चतोऽन्यादेरनेकतरस्य दः ।१।४।५८।। बृ०न्यास-पञ्चत इत्यादि-पञ्च परिमाणमस्येति “पञ्चद् दशद् वर्गे वा" (६.४.१७५) इत्यदन्तात् षष्ठी, पञ्चत इत्यन्यादेविशेषणं तथा नपुंसकस्येति, तच्चाधिकृतयोः स्यमोरित्याह-नपुंसकानामित्यादि । अन्यादिः पृथग्गणपठितो नास्त्यतस्तत्र कश्चिन्मुह्येदित्युक्तम्-सर्वाद्यन्तर्वतिनामिति-सर्वादावयं पठ्यते-'अन्य, अन्यतर, इतर, डतर, डतम' इति, तत्रान्यादयस्तिस्रः प्रकृतयः, डतरडतमौ प्रत्ययौ। प्रत्ययग्रहणे तु “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति यस्मात् तौ विहितौ तदादेस्तदन्तस्य कतर-कतमादेर्ग्रहणमित्युदाहरति-अन्यत् तिष्ठतीत्यादि। अनेकतरस्येति समानाधिकरणविशेषणादन्यादेरिति षष्ठी, तया च सम्बन्धिविज्ञानम्, अतोऽन्यादिसम्बन्धिनोः स्यमोर्दो भवतीत्याह-अन्यादीत्यादि ।।५८ ।।
ल.न्यास-पञ्चत इत्यादि-पञ्च संख्या परिमाणमस्य “पञ्चद् दशद् वर्गवा" (६.४.१७५) इति डत् प्रत्ययः ।।५८ ।।
अनतो लुप् ।१।४।५९।। बृ०न्यास-अनत इत्यादि। अथ हे कर्तृ! इत्यादौ निरवकाशत्वात् प्रथमं सेलोपे *प्रत्ययलोपलक्षण* न्यायेन “हस्वस्य गुणः” (१.४.४१) इति गुणः कस्मान्न भवतीत्याह-लुकमकृत्वेत्यादि। अथ यत् कुलं तत् कुलमिति परत्वादत्वसत्वप्रसङ्गात् तद्व्यावृत्तये “त्यदादिभ्यश्च” इति लुब् वक्तव्या, न च नित्या लुप्, अत्व-सत्वे तु लुपिं कृते "लुप्ययवृल्लेनत्" (७.४.१०२) इति स्थानित्वाभावात् प्रत्ययलक्षणप्रतिषेधाद् विभक्त्यभावान प्राप्नुत इत्यनित्ये इति वाच्यम्, पूर्वं *लुप्यसत्यामत्वे सति अपवादत्वाल्लुपं बाधित्वा “अतः स्यमोऽम्" (१.४.५७) इत्यम्सद्भावादनत इत्यनुवादकम्, अनुवादकत्वाभावे तु नित्यत्वावकाश एव नास्ति, 'यस्य तु लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्' एतत् तु पाक्षिकम्, यदा द्वयोर्लक्षणयोः सम्प्रधारणा क्रियते तदा यल्लक्षणप्रवृत्तावपि यस्य द्वितीयस्य लक्षणस्य प्रवृत्तिविघातो नास्ति तत् प्रति न तस्य दौर्बल्यं लक्षणान्तरेण तत्प्रवृत्तिनिवारणात्, यथा वालि-सुग्रीवयोर्युद्धे रामेण वालिनो वधेऽपि न सुग्रीवापेक्षं दौर्बल्यमभिदधति शूरमानिनः, एतद्दर्शनसंश्रयेणोच्यते-यस्य लक्षणान्तरेणेति, यदा त्वेष न्याय आश्रीयते- लक्षणान्तरप्रवृत्तिनिमित्तमुपसंहरलक्षणं बलवद् भवति, इतरत् तु तदुपसंहतनिमित्तलक्षणान्तरोपपादितप्रवृत्तिविघातं दुर्बलमेव, तथा च वासुदेवसहायत्वात् पाण्डवा बलिनो दुर्बलान् धार्तराष्ट्रान् विजिग्यिरे तदा नास्त्येव-यस्य लक्षणान्तरेणेति, उच्यते -*अन्तरङ्गानपि विधीन् बहिरङ्गो लुब् बाधते* इत्यत्रापिग्रहणानित्यानां च परेषां च लुपा बाधनमिति त्यदाद्यत्वं लुपा बाध्यत इत्याह-अत्रेत्यादि-तथा चोच्यते-*सर्वविधिभ्यो लोपविधिर्बलवान् * इति ।।५९।। * ला.सू. सम्पादितपुस्तके 'लुप्यसत्यां मत्वे' इति पाठो दृश्यते। . ला.सू. सम्पादितपुस्तके 'लक्षणान्तरस्य प्रवृत्तिनिमित्त....' इति पाठ उपलभ्यते।