________________
परिशिष्ट-२
४33
नपुंसकस्य शि: ।१।४।५५।। बृन्यास-नपुंसकस्येत्यादि-स्त्री च पुमांश्च स्त्रीपुंसौ “स्त्रियाः पुंसो०" (७.३.९६) इति समासान्ते सति न स्त्रीपुंसौ नपुंसकम्, नखादित्वानञोऽदादेशाभावः, स्त्रीपुंशब्दस्य पृषोदरादित्वात् पुंसकादेशः। शिरिति कार्यपदम्, तञ्च कार्यिसापेक्षम्, तत्रान्यस्यासम्भवादधिकृतयो: जस्-शसोरेव कार्यित्वमित्याह-जस्-शसोरित्यादि । कुण्डशब्दात् शसोऽनेन शावादेशे "स्वराच्छौ” (१.४.६५) इति नागमे “नि दीर्घः" (१.४.८५) इति दीर्घत्वे च कुण्डानि, एवमन्यत्रापि। अथेह कस्मान्न भवति?-कुण्डं कुण्डं ददाति कुण्डश इति, "संख्यैकार्थाद् वीप्सायाम्” (७.२.१५१) इति शस् अत्राप्यस्तीत्यत आह-स्याद्यधिकारादित्यादि-अयं परिहारः-यदार्थप्रकरणादिवशाद् वृत्तौ कुण्डादिशब्द एकार्थाभिधायी भवति तदा शस उत्पत्तिरविरुद्धा, न त्वन्यदा, प्रस्थादयस्तु शब्दा वृत्तावेकसंख्यार्थाभिधायका एव, शस्विधौ हि वृत्तिस्था एकार्थताऽऽश्रीयते, न तु वाक्यस्य, अर्थ-प्रकरणादिरहितश्च कुण्डादिशब्दो वृत्तावेकार्थो न भवतीति शसा न भवितव्यमेव, कस्मात् पुनः कुण्डादिशब्दो वृत्तावेकार्थो न भवति? उच्यते-जातिशब्दात्, जातिशब्दा हि नैकस्यामेव जात्याधारभूतायां व्यक्तौ वर्तन्ते, किन्त्वनेकस्यामपि, एवं च यत् तत्र शस्विधौ जयादित्यप्रभृतिभिः प्रत्युदाहरणमुपन्यस्तम्संख्यैकवचनादिति किम् ? घटं घटं ददातीति तदप्युपपद्यते। यद्यर्थप्रकरणादिरहितो जातिशब्दो वृत्तावेकार्थो न भवतीति । शकारस्याप्रयोगिणः प्रयोजनमाह-शकार इत्यादि। इह नपुंसकशब्देन नपुंसकाभिधायकस्य शब्दस्य वा ग्रहणं स्यादर्थस्य वेति द्वौ पक्षौ, तत्राद्ये पक्षे नपुंसकाभिधायकेन स्याद्याक्षिप्तं नाम विशिष्यते-नपुंसकाभिधायकशब्दान्तानाम्न इति, नाम्ना वा नपुंसकाभिधायकं नाम-यन्नपुंसकाभिधायकमिति, तत्र पूर्वस्मिन् पक्षे बहूनि त्रपूणि येषां ब्राह्मणानां तान् बहुत्रपून्, तथाऽतिक्रान्तं त्रपु यैस्तान् अतित्रपून् इत्यत्रापि प्रसङ्गः, द्वितीयपक्षे तु नास्त्यतिप्रसङ्गः, अर्थग्रहणेऽपि न दोषः, अर्थेन हि नामैव विशेषयितव्यम्, अन्यस्याप्रस्तुतत्वाद् असंशब्दितत्वाञ्च; एवं त्रिषु पक्षेषु सम्भवत्सु तदन्तपक्षनिराकरणेन द्वावितरौ पक्षावाश्रित्योक्तम्-नपुंसकस्य सम्बन्धिनोरित्यादि ।।५५।।
ल.न्यास-नपुंसकस्येत्यादि-स्त्री च पुमाँश्च स्त्रीपुंसौ "स्त्रियाः पुंसो०" (७.३.९६) इति समासान्तः, न स्त्रीपुंसौ नखादित्वाद् नोऽदभावः, पृषोदरादित्वात् स्त्रीपुंसशब्दस्य पुंसक आदेशः ।।५५।।
औरी: ।१।४५६॥ बृन्यास-औरीरिति-कार्य-कार्यिणोरभेदनिर्देशः सर्वादेशार्थः, अन्यथा विश्लिष्टावर्णत्वादीकारपरभागस्योवर्णस्य स्यात्, नपुंसकस्येत्यत्रापि पूर्ववद् व्याख्येयम्। परमकुण्डे इति-परमे च ते कुण्डे चेति "सन्महत्-परमो०" (३.१.१०७) इति विशेषणसमासस्योत्तरपदार्थप्रधानत्वात् तत्सम्बन्धित्वाद् भवत्येव ।।५६।।
ल.न्यास-औरीरिति-कार्य-कार्यिणोरभेदनिर्देशः सर्वादेशार्थः, अन्यथा “षष्ठ्यान्त्यस्य" (७.४.१०६) इति न्यायाद् विश्लिष्टावर्णस्यौकारस्य स्यात्, यतः अओ इति प्रकृतौ “ऐदौत् सन्ध्यक्षरैः" (१.२.१२) इत्यनेन औकारो निष्पादितः ।।५६।।
अतः स्यमोऽम् ।१।४।५७।। बृन्यास-अत इत्यादि। अत इति नपुंसकस्य विशेषणमतस्तदन्तप्रतिपत्तिर्भवतीत्याह-अकारान्तस्येति। तकारः श्रुतिसुखार्थः। अथाकारकरणं किमर्थम्? न चाऽमः सर्वादेशार्थमिति वाच्यम्, “प्रत्ययस्य” (७.४.१०८) इति सर्वादेशस्य सिद्धत्वात्; किञ्च, अन्तादेशेऽपि “समानादमोऽतः" (१.४.४६) इत्यकारलोपे विशेषाभावादित्याह-अम इत्यादि। जरामतिक्रान्तमिति समासे हस्वे च सति ततः सेरमादेशेऽतिजरसं कुलं तिष्ठतीति प्रथमयोदाहतम्, द्वितीया तु नोदाहता, तत्र परत्वान्नित्यत्वाञ्च पूर्व जरसादेशेन भाव्यम्। मकारविधानेऽपि दोषाभावः, *समानन्यायेन* तु लाघवार्थममोऽप्यम्करणम्। ननु च *सन्निपातलक्षणो विधिरनिमित्तम्०*