________________
૪૩૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
वाऽष्टन आः स्यादौ ।१।४।५२।। बृन्न्यास-वाष्टन इत्यादि। स्यादाविति परत्वमात्रेण कार्यस्य विशेषणमित्याह-तत्सम्बन्धिनीत्यादि। “अशौटि व्याप्तौ" अतः “षप्यशौभ्यां तन्” (उणा० ९०३) इति तनि “यज-सृज-मृज०” (२.१.८७) इत्यादिना शस्य षत्वे “तवर्गस्य श्चवर्ग०" (१.३.६०) इति टत्वे भिस्प्रत्ययेऽनेनाऽऽत्वे च अष्टाभिः। अष्टौ मानमस्य “संख्यायाः संघ-सूत्र-पाठे" (६.४.१७१) इति के "नाम्नो नोऽनह्नः" (२.१.९१) इति नलोपे अष्टकः, अत्र *अन्तरङ्गानपि विधीन् बाधित्वा लुप् प्रवर्तते* इति स्यादेरभावादात्वं न भवति। अन्यसम्बन्धिनोरित्येके-विश्रान्तविद्याधर इति। केचित् त्विति-स इव ।।५२।।
__ ल.न्यास-वाष्टन इत्यादि । पूर्वसूत्राद् डेरनुवृत्तिा भूदिति स्यादिग्रहणम्। अथ “अष्ट और्जस्-शसोः” (१.४.५३) इत्यत्र 'अष्ट:' इति ज्ञापकाद् डेरनुवृत्ति भविष्यति, सत्यम्-तद्धि मतान्तरसंग्रहार्थम् ।।५२ ।।
अष्ट औजेस-शसोः ।१।४।५३।। बृन्यास-अष्ट इत्यादि। अष्टास्वित्याद्येकदेशस्याष्टन्शब्दस्य षष्ठ्यन्तमनुकरणमित्याह-अष्ट इत्यादि। तञ्च 'जस्शसोः' इत्यस्य विशेषणम्, तेन तत्सम्बन्धिनोरित्याह-अष्टाशब्दसम्बन्धिनोरित्यादि। अष्टन्शब्दाज्जसि शसि च “वाष्टन आः स्यादौ" (१.४.५२) इत्याकारेऽनेन जस्-शसोरौकारे एकत्र “ऐदौत् सन्ध्यक्षरैः” (१.२.१२) इति, अन्यत्र च “लुगातोऽनापः" (२.१.१०७) इति अष्टौ। अष्ट इत्यधिकृतनाम्नो विशेषणाद् विशेषणे च तदन्तविधेर्भावात् तदन्तमुदाहरति-"सन्महत्-परमो०" (३.१.१०७) इति “नञ्" (३.१.५१) इति च विशेषण-तत्पुरुषसमासो-परमाष्टौ, अनष्टौ इति। अष्टेति-अष्टन् जस्-शसोरात्वाभावादौत्वाभावे “डतिष्णः संख्याया लुप्" (१.४.५४) इति लुप्। प्रिया अष्टौ येषामिति बहुव्रीहौ नाष्टन्शब्दसम्बन्धिनौ जस्-शसावित्यात्वे सत्यपि औत्वाभावात् प्रियाष्टास्तिष्ठन्ति, प्रियाष्टः पश्य इति। केचित् त्विति-तदप्यष्ट इति निर्देशस्य तुल्यत्वात्।।५३ ।।
डति-ष्णः संख्याया लुप् ।१।४।५४।। बृन्यास-डति-ष्ण इत्यादि। डति-ष्ण इति संख्यायाः प्रकरणात् षष्ठ्यन्ताया विशेषणम्, तत्र च तदन्तविधिरित्याहडति-षकार-नकारान्ताया इत्यादि। कतीत्यादि-'किम् यद् तद्' इत्येतेभ्य: “यत्तत्किमः” (७.१.१५०) इति डतिप्रत्यये जस्शसोरनेन लुपि कति, यति, तति तिष्ठन्ति। पश्येत्यनुप्रयोगो जस्-शसोरभिव्यक्त्यर्थः । षष् इति षन्ता, पञ्चन् इति नान्ता संख्या, ततो जस्-शसोलुंपि “धुटस्तृतीयः" (२.१.७६) इति यथासम्भवं तृतीयत्वे प्रथमत्वे च “नाम्नो नोऽनह्नः" (२.१.९१) इति नलोपे च षट्, पञ्चः एवम्-(परमषट्) परमाश्च ते षट् चेति “सन्महत्-परम०" (३.१.१०७) इति संख्याप्रधानत्वात् समासस्य तत्सम्बन्धिनावेव जस्-शसाविति लुप्। त्रय इत्यादि-डतिष्ण इति वचनादिह न भवति। तन्मानमेषामिति “यत्-तदेतदो डावादिः" (७.१.१४९) इत्यतौ तावन्तः। अथ शतादिभ्यः शौ नागमे नान्तत्वेऽपि संख्याया लुप कस्मान्न भवतीत्याह-शतानीत्यादि। तत्सम्बन्धिविज्ञानादितिप्रियाः कति येषां समासस्यान्यपदार्थप्रधानत्वाद् जस्-शसोर्डत्याद्यन्तसंख्यासम्बन्धाभावाल्लुप् न भवति ।।५४ ।।
ल.न्यास-डतिष्ण इत्यादि। सत्रिपातलक्षणत्वादेति-संनिपतति कार्यमस्मिन् संनिपातो निमित्तं शिलक्षणम्, स लक्षणं चिरं यस्य तस्य। केचित् त्विति-वामनादयः तन्मते इदं न सिद्ध्यति
यति ते नाग! शीर्षाणि, तति ते नाग! वेदनाः। न सन्ति नाग! शीर्षाणि, न सन्ति नाग ! वेदनाः ।।५४ ।।