________________
परिशिष्ट-२
४३१ 'शालाः पश्य, यकृन्ति' इत्यादौ उभयोर्दीर्घत्व-श्यादेशयोः सावकाशत्वाद् ‘वनानि' इत्यादौ उभयप्राप्तौ परत्वाच्छिरेवेत्याहवनानीत्यादि।।४९।।
ल.न्यास-शसोऽतेत्यादि। समानस्योत-अत्र यद्यपि समानस्य शसोऽकारस्य च स्थानित्वम्, तथापि *प्रधानानुयायिनो व्यवहारा भवन्ति* इति प्रधानस्थान्यासन एव दीर्घा भवति, प्रधानत्वं च षष्ठीनिर्दिष्टस्य समानस्यैवेति, प्रधानस्थान्यासन्न इति वचनाद् 'मुनीन्' इत्यादी शसोऽकारस्य "अवर्ण-हविसर्गः" इति आसन्नत्वेऽप्याकारो न भवति। वातप्रमीनिति-वातं प्रमिमते "वातात् प्रमः कित्" (उणा० ७१३) ईप्रत्ययः, देवनन्दिना मृगेऽपि स्त्रीलिङ्ग उक्तः ।।४९।।
संख्या-साय-वेरहस्याहन् ङौ वा ।१।४।५०।। बृन्यास-संख्येत्यादि। (संख्या-साय-वेरिति) समाहारद्वन्द्वात् पञ्चमी, (अह्नस्येति) 'व्यह्न' इत्यादाववस्थितस्य ‘अह्र' इत्येकदेशस्यानुकरणात् षष्ठी। द्वयोरहोर्भव इति समासप्रत्ययविधौ तदन्तविधेरनिष्टत्वात् “वर्षाकालेभ्यः" (६.३.८०) इतीकणोऽसम्भवात् भाविन्यणि “संख्या समाहारे च०" (३.१.९९) इति द्विगुसमासेऽटि अह्रादेशे "भवे" (६.३.१३) इत्यणि “द्विगोरनपत्ये" (६.१.२४) इति तल्लुपि च ङावनेन ‘अहन्' इत्यादेशे "ईडौ वा" (२.१.१०९) इति विकल्पेनाकारलोपे वयह्नि, यहनि, ह्यह्ने, एवम्-त्रिषु यावत्सु तावत्सु वा भव इति, शेषं पूर्ववत्। संख्यापूर्वस्य तद्धित एवोदाहरणम्, समाहारेऽह्लादेशस्य उत्तरपदे डिप्रत्ययस्य चाभावादिति। सायमहः “सायाह्रादयः" (३.१.५३) इति समासे “सर्वांश-संख्या-ऽव्ययात्" (७.३.११८) इत्यहादेशे चात एव निर्देशान्मकारलोपे पूर्ववदहनादेशादौ सायाह्नि इत्यादि। व्यह्नि इति-प्रादिसमासः। व्यहे इति-"द्विगोरन्नह्रो०" (७.३.९९) इत्यटि "नोऽपदस्य तद्धिते" (७.४.६१) इत्यन्त्यस्वरादिलोपः ।।५० ।।
___ ल.न्यास-संख्या-सायेत्यादि। अग्विषये इति-द्वयोरहोर्भव: “संख्या समाहारे च०" (३.१.९९) इति तद्धितविषये द्विगुसमासेऽ. विषयेऽटि अह्रादेशः, शाकटायनस्तु "वर्षाकालेभ्यः" (६.३.८०) इति इकण्प्रत्ययविषयेऽट्प्रत्ययमिच्छति, स्वमते तु न 'द्वयह' इत्यस्याकालवाचित्वात्। यावदह्नि इत्यादिषु दुसंज्ञकेषु "दोरीयः" (६.३.३२) विषयेऽटि तत ईयः; तस्य च "द्विगोरनपत्ये०" (६.१.२४) इति लुक्।
यहे इति-"द्विगोरनह०" (७.३.३९) इत्यत्र अहन्ग्रहणात् ज्ञापकात् “सर्वांश०" (७.३.११८) इति परमप्यटं बाधित्वा “द्विगोरहनहोऽट्" (७.३.९९) इत्यः ततोऽहाभावः ।।५० ।।
निय आम् ।१।४।५१।।
बृन्न्यास-निय इत्यादि। प्रयुक्तानामन्वाख्यानाद् 'आम्' इति प्रयोगादर्शनाद् 'नियः' इति पञ्चमीनिर्देशात्, ङावित्यस्य षष्ठ्या विपरिणामे स्थानित्वमित्याह-नियः परस्य डे: स्थाने इति। नयतेः क्विपि ङौ आमादेशे “धातोरिवर्णोवर्णस्य०" (२.१.५०) इतीयादेशे नियाम्, ग्रामपूर्वात् तु “क्विब्वृत्तेरसुधियस्तो” (२.१.५८) इति यत्वे ग्रामण्याम्। अस्य तु “आमो नाम् वा" (१.४.३१) इति “हस्वापश्च" (१.४.३२) इति च नामादेशो न भवति, तत्र नित्यस्त्रीदूतोऽधिकृतत्वात् ।।५१।।
ल.न्यास-निय इत्यादि। ननु ग्रामण्यामित्या नी साक्षानास्ति किन्तु णी इत्यामो न प्राप्तिः, सत्यम्-स्यादिविधौ णत्वमसिद्धम्। अस्यामः “आमो नाम् वा" (१.४.३१) इति नामादेशो न भवति, तत्र नित्यस्त्रीदूतोरधिकृतत्वात्। ननु *एकदेशविकृत०* इति क्लीबेऽपि प्राप्तिरस्ति, न-निय ई नी इतीकारप्रश्लेषात् 'निनि, ग्रामणिनि कुले' इत्येव भवति, भोजेन तु भूतपूर्वन्यायेन नपुंसकेऽपि नियामित्युक्तम्।।५१।।