________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ४३०
ल.न्यास-समानादित्यादि। अचिनवमिति-न च वाच्यं परत्वानित्यत्वाञ्च गुणेन भाव्यमिति, प्राप्तौ सत्यां हि परत्वं नित्यत्वं च चिन्त्यत इति ।।४६।।
दीर्घो नाम्यतिसृ-चतसृ-षः ।१।४।४७॥ बृन्यास-दी? नामीत्यादि। अत्र स्याद्यधिकारादामादेश एव नाम् गृह्यत इत्याह-आमादेशे नामीति। तिसृणाम्, चतसृणाम् इति। त्रि-चतुरोरामि परत्वात् “त्रि-चतुर०" (२.१.१) इति तिसृ-चतस्रादेशे “हस्वापश्च" (१.४.३२) इति नामादेशः। षण्णाम्, चतुर्णाम् इति-"संख्यानां र्णाम्" (१.४.३३) इति नामादेशः; ननु नात्र समानस्य नाम्युच्यमानो दीर्घः प्राप्नोति, षकाररेफाभ्यां तस्य व्यवधानात्, तयोश्चासमानत्वात्, सप्तम्या निर्दिष्टे चोपश्लिष्टस्यैव कार्यभावात्, सत्यम्-अयमेव प्रतिषेधो ज्ञापयतियदुत, वर्णान्तरव्यवहितेऽपि नामि पूर्वसमानस्य दीर्घा भवतीत्याह-अष् इत्यादि। दधिनामेत्यादौ स्याद्यधिकाराद् 'नामन्' इत्याद्येकदेशस्यानर्थकत्वाद् वा दीर्घो न भवतीत्याह-स्यादाविति। यद्येवमिह तर्हि प्राप्नोति-दण्डस्य नामो दण्डनाम इति, अत्र हि नामिति धातुर्घजि प्राप्ताकारोऽर्थवान् इति, उच्यते-तत्रापि समुदाय एवार्थवान्, अवयवानां तु काल्पनिकमर्थवत्त्वमन्वय-व्यतिरेकाभ्यां कल्पितत्वात्, अयं तु नाम इति आमादेश एव प्रतिपदोक्त इति न भवति ।।४७ ।।
ल.न्यास-दीर्घो नाम्येत्यादि। आमादेश इति स्याद्यधिकारदामादेश एव गृह्यतेऽत इदमुक्तम्। अष् इति-ननु षकार-रेफाभ्यां व्यवधानादेव न भविष्यति दीर्घः, किं धूवर्जनेन? इत्याह-नकारेणेति-अन्यव्यञ्जनेन तु असम्भव इति ।।४७ ।।
नुर्वा ।१।४।४८॥ बृन्यास-नुर्वेति। अथेह वाग्रहणमन्तरेणापि नित्यं दीर्घविधेः पूर्वेणैव सिद्धत्वात् पृथग्वचनाद् विकल्पोऽवसीयते, अतिस-चतसृ-ष इत्यत्राकरणात् प्रतिषेधाशङ्काऽपि न विधेया, तिस-चतसृप्रतिषेधाइकारान्तस्य नृशब्दस्यैवेति नियमोऽपि नाशङ्कनीयः, उच्यते-पृथग्वचनस्यानर्थक्यपरिहाराय विकल्पयितव्ये पूर्वो विधिनित्योऽयं विकल्पित इति किं न स्यात् ? युक्तं चैवम्-अयं विधिनित्य इति द्विवचनात् *द्विद्धं सुबद्धं भवति* अतो वाग्रहणादयं विधिविकल्पितः, पूर्वो नित्य इति विज्ञायते।।४८।।
शसोऽता सश्च नः पुंसि ।१।४।४९॥ बृन्यास-शसोऽतेत्यादि। अत्र यद्यपि समानस्य शसोऽकारस्य च स्थानित्वम्, तथापि *प्रधानानुयायिनो व्यवहारा भवन्ति* इति प्रधानस्थान्यासन एव दीर्घो भवति, प्रधानत्वं च षष्ठीनिर्दिष्टस्य समानस्यैवेत्याह-समानस्येत्यादि। चकाराद् भिन्नार्थं वाक्यद्वयमित्याह-तत्सत्रियोगे चेत्यादि। पुंस्त्वं त्वत्र वैयाकरणप्रसिद्धं लिङ्गम्, यत्रायमिति प्रत्ययोऽनुवर्तते, नेदमियमिति वा, न तु लौकिकं प्रजननयोन्यभिव्यक्तं प्राणिधर्मः, तत्र हि भ्रकुंसान् पश्य, स्त्रियोऽपि हि यदा पुरुषवेषधारिण्यो भ्रकुंसा उच्यन्ते तदा स्त्रीवृत्तिरयं न पुंवृत्तिः, तथा 'षण्ढान् पश्य, पण्डकान् पश्य' इति नपुंसकेऽपि न सिद्ध्यति, तथा 'वृक्षान् पश्य' इत्यप्राणिष्वपि, तथा 'चञ्चा इव चञ्चाः पुरुषान् पश्य' इत्यत्रापि पुरुषवृत्तित्वात् प्राप्नोति। नन्वस्तु वैयाकरणप्रसिद्धस्य पुंस्त्वस्य ग्रहणम्, तथापि 'चञ्चाः, खरकुटी: यष्टीः पुरुषान् पश्य' इत्यादौ प्राप्नोति, अत्र हि चञ्चादयः शब्दाः सादृश्यात् पुरुषेषु वर्तमानास्तत्पुंस्त्वमुपाददते, तेन पुलिँङ्गविषये शसित्याह-अत्रेत्यादि। अयमर्थः-अभेदोपचारेण हि शब्दोऽर्थान्तरे वर्तमानः शब्दशक्तिस्वाभाव्यात् स्वलिङ्गमपरित्यजन्नेव वर्तत इति। यदा त्विति-लौकिकस्य पुंस्त्वस्याग्रहणादयमिति प्रत्ययस्य तत्रानुवृत्तेरिति शेषः। एतान् गाः पश्य इति-दीर्घसन्नियोगेन नकारस्य विधीयमानत्वात् *सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः* इति न्यायाद् दीर्घत्वाभावे नकारस्याप्यभाव इत्यर्थः ।