________________
परिशिष्ट-२
४२५ अदेत: स्यमोर्लुक् ।१।४।४४।। बृन्न्यास-अदेत इत्यादि। आमन्त्र्य इति वर्तते, तत्र च स्यादेश एव सम्भवति, अन्यस्यासम्भवादित्याह-तदादेशस्यामश्चेति। हे परमे! इति-अत्र ‘परम-इ' इति स्थितेऽन्तरङ्गत्वाद् विभक्त्युत्पत्तेः पूर्वमेव “अवर्णस्येवर्णा०" (१.२.६) इत्यादिनैकारः, एवम्से!, परमश्चासाविश्चेति "सन्महत्-परमो०" (३.१.१०७) इति विशेषणसमासः, सह इना वर्तत इति “सहस्तेन" (३.१.२४) इति बहुव्रीही "सहस्य०" (३.२.१४३) इति सभावः। अथ किमर्थममो लुग्वचनम्? स्यादेशत्वात् तद्ग्रहणेनैव ग्रहणाल्लुग् भवतीत्याहस्यादेशत्वेनेत्यादि ।।४४।।
ल.न्यास-अदेत इत्यादि। आमन्त्र्य इति वर्तते, तत्र च स्यादेश एवाम् संभवतीत्याह-स्यादेशेति। हे कतरद् इति। ननु अम्ग्रहणस्य अन्यदपि फलं कस्मान भवति? यथा-कुम्भस्य समीपानि उपकुम्भमित्यत्र लुगर्थम्, नैवम्-सिसाहचर्यादेकवचनस्यामोग्रहणं न बहुवचनस्थानस्य।।४४।।
दीर्घड्याब-व्यञ्जनात् से: ।१।४।४५।। बृन्यास-दीघेत्यादि। प्रियशब्दस्य "गुणाङ्गाद्वेष्ठेयसू” (७.३.९) इतीयसि “प्रिय-स्थिर०" (७.४.३८) इति प्रादेशे "अधातूदृदितः" (२.४.२) इति ड्यां च प्रेयसी। अथ “पदस्य" (२.१.८९) इति संयोगान्तलोपेन सेर्लोपस्य सिद्धत्वाद् व्यञ्जनग्रहणमतिरिच्यते, न च राजा, तक्षा' इत्यत्र नकारस्य लोपे (कर्तव्ये संयोगान्तलोपस्यासिद्धत्वेन नान्तत्वाभावाद् “नाम्नो नो०" (२.१.९१) इति नलोपाभाव इति वाच्यम्, "नामन्त्र्ये" (२.१.९२) इति प्रतिषेधात् संयोगान्तलोपस्य) सिद्धत्वाद्, इहापि तर्हि नलोपप्रसङ्ग:'पचन्, यजन्' इति, उच्यते-तुल्यजातीयस्य नियमः, कश्च तुल्यजातीयः?, यः सावनन्तरः, ‘पचन्' इत्यत्र तु नकारस्तकारेण व्यवहित इति, न चात्र तकारलोप एव न, प्राक् सलोपस्तस्यासिद्धत्वात् तलोपाभावः, पूर्वस्य परेऽसत्त्वमुच्यते, ततश्च संयोगान्तलोपे संयोगान्तलोपस्य सिद्धत्वाद् भवत्येव तलोपस्तस्यासिद्धत्वान्नलोपाभावः। ननु तथापि “नाम सिदयव्यञ्जने" (१.१.२१) इति सावपि पदत्वाद् राजेति नलोप: सिद्धयति, कृते तु नलोपे संयोगान्तत्वाभावात् “पदस्य" (२.१.८९) इति सेर्लोपो न सिद्ध्यति, तथा 'उखास्रत्, पर्णध्वद्' इत्यादौ दत्वं वक्तव्यम्, तथाहि-'उखास्रस्+स्' इति स्थिते संयोगान्तलोपमपवादत्वाद् बाधित्वा संयोगादिलोप: प्राप्नोति, पूर्वो हि अपवादो वचनप्रामाण्यादुत्सर्गे कर्तव्ये नासिद्धो भवति, 'काष्ठतड्' इतिवत्, कृते च संयोगादिलोपे संयोगाभावात् संयोगान्तलोपाभावः, ततो विभक्तिसकारः संस्रतेरवयवो न भवतीति दत्वासिद्धिरित्याह-पदस्येत्यादि ।।४५।।
ल.न्यास-दीर्घडयाबिति। 'कुमारी ब्राह्मणः' इत्यत्र नैषां क्विबादीनां डी-स्योर्व्यवधायकत्वे स्थानित्वम्, यतः स्थान्याश्रये वृद्ध्यादिके कार्ये कर्तव्ये स्थानित्वम्, न तु व्यवधायकत्वे, नहि व्यवधायकत्वं कार्यं नाम, अपि तु वृद्ध्यादीनि कार्याणीति। एवम्-'अच्योढ्वम्' इत्यादिषु सिचो लोपस्य ढत्वे कर्तव्ये न स्थानित्वम्। दत्वं चेति-सौ परे लुकः पूर्वं दत्वं प्राप्नोतीति न वाच्यम्, परे लुकि "संस्-ध्वंस्०" (२.१.६८) इति सूत्रस्यासिद्धत्वात् ।।४५।।
समानादमोऽतः ।१।४।४६।। बृन्यास-समानादित्यादि। अम इति षष्ठी, अत इत्यस्य अम इति षष्ठ्यन्तं विशेषणमित्याह-समानात् परस्यामोऽकारस्येति। अथ ऋकारस्य समानत्वादमोऽकारलोपः कस्मान भवतीत्याह-पितरमित्यादि। चिनोतेस्तन्या अम्वि “स्वादेः श्रुः" (३.४.७५) इति श्रुप्रत्यये “उ-श्रोः" (४.३.२) इति गुणेऽवादेशेऽडागमे स्याद्यधिकारादमोऽकारलोपाभावे अचिनवम् ।।४६।।