________________
४२८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
एदापः । १।४।४२।।
बृ०न्यास - एदाप इति । बहवो राजानो यस्यां " ताभ्यां वाऽऽप् डित्" (२.४.१५) इति डित्यापि अनेनैकारे बहुराजे ! । एवमीषदूना खट्वा "नाम्नः प्राग् बहुर्वा" (७.३.१२) इति बहौ अनेन एत्वे बहुखट्वे ! । अथ प्रिया खट्वा यस्येति “गोश्चान्ते हस्वो०" (२.४.४६) इति ह्रस्वत्वे एकदेशविकृतस्यानन्यत्वाद् आपः सद्भावात् आमन्त्र्यसिना एत्वं कस्मान्न भवति ? उच्यते - सूत्रे आ आप इत्याकारप्रश्लेषादत्राकाराभावादेत्वाभाव:, अत आह- आप इतीति ।। ४२ ।।
ल. न्यास - एदाप इति । आश्चासावाप् चेति आकारप्रश्लेषाद् हे प्रियखट्व ! इत्यत्र "गोश्चान्ते० " (२.४.४६) इति ह्रस्वत्वे एकदेशविकृत इति न्यायात् प्राप्तोऽपि एकारादेशो न भवति ।। ४२ ।।
-
नित्यदिद् - द्विस्वराऽम्बार्थस्य ह्रस्वः । १।४।४३।
बृ०न्यास–नित्येत्यादि। शृणाते: “शिग्रु-मेरु-नमेर्वादयः " ( उणा० ८११) इति निपातनाद्रौ अन्तस्य चाऽङ्गादेशे शङ्गरुः, अत एव निपातनात् शृङ्गरुरित्यपि, तस्यापत्यमणि ड्यां शाङ्गरवी, शाङ्गरवी, शेषास्तु व्युत्पादिता व्युत्पादयिष्यन्ते च, नञ्पूर्वाल्लम्बतेः "नञोलम्बेर्नलुक् च" (उणा० ८३८) इति णिति ऊप्रत्यये नलोपे उपान्त्यवृद्धौ च अलाबू, ततः सिना सह ह्रस्वत्वम्। “अम गतौ” अतः “शम्यमेर्णिद् वा” (उणा० ३१८) इति बप्रत्यये आपि अम्बा, "अक कुटिलायां गतौ" इत्यस्य " निष्क- तुरुष्क० " ( उणा० २६) इत्यादिनिपातनात् कप्रत्यये अक्का, अततेः "पुत-पित्त - निमित्त० " ( उणा० २०४) इति निपातनात् ते अत्ता, “अली भूषणादौ " अस्य “भिल्लाऽच्छ-मल्ल०” ( उणा० ४६४) इत्यादिनिपातनाल्ले अल्ला, ततोऽनेन सिना सह हस्वत्वम् । वातप्रपूर्वान्माते: “वातात् प्रमः कित्" (उणा० ७१३) इति ईप्रत्यये किति "इडेत्पुसि चाऽऽतो लुक् " (४.३.४४) इत्याकारलोपे वातप्रमीः, नित्यदित्त्वाभावाद्धस्वत्वाभावः। जहातेः पृषोदरादित्वाद् अप्रत्यये द्विर्वचनादौ हूहूः । नित्यग्रहणादिति - हे श्रीरित्यादौ " वेयुवोऽस्त्रियाः " (१.४.३०) इति दितां विकल्पितत्वादित्यर्थः। कथमिति-भ्रमेः “शिग्रु-मेरु-नमेर्वादयः " ( उणा० ८११) इति निपातनाद् डिति उप्रत्यये भु, शोभनं भु भ्रमणं यस्याः “उतोऽप्राणिनश्च०" (२.४.७३) इत्यूङ्प्रत्यये समानदीर्घत्वेऽनेन ह्रस्वत्वे च सुभ्रु !। बिभेतेः “भियो रु-रुक-लुकम्” (५.२.७६) इति रुप्रत्यये च पूर्ववद् भीरु । अम्बार्थानामिति-अम्बापूर्वादडतेलतेश्च लिहाद्यचि " आतो डोऽह्वा-वा-मः" (५.१.७६) इति डे च आपि च अम्बाडा, अम्बाला, अम्बे: "णक-तृचौ" (५.१.४८) इति णकप्रत्यये “ आत्” (२.४.१८) इत्यापि “ अस्याऽयत्तत्-क्षिपकादीनाम्” (२.४.१११ ) इतीकारे अम्बिका ।।४३।।
ल. न्यास - नित्यदिदित्यादि । शृं गृणाति शृङ्गरुऋषिस्तस्यापत्यं शाङ्गरवी, यद्वा शृणोतीति “शिग्रु-मेरु-नमेर्वादयः " ( उणा० ८११) इति निपातनाद्रौ अन्तस्य चाऽङ्गदेशे शङ्गरुः, यदा तु अनेनैव शृङ्गरुरिति निपात्यते तदाऽणि ड्यां च शाङ्गरवी, अथवा शाङ्गवत् रवो यस्या गौरा-दित्वाद् ड्यां शाङ्गरवी। हे अम्बेति-अबुङ् अम्बतेऽच् अम्बा । हे अक्काते-“अक कुटिलायां गतौ” इत्यस्य "निष्क-तुरुष्क०" (उणा० २६) इत्यादि-निपातनात् कप्रत्यये । अततेः "पुत-पित्त० " ( उणा०२०४) इति निपातनात् ते अत्ता । "अली भूषणादो" अस्य " भिल्लाऽच्छ भल्ल० " (उणा० ४६४) इति निपातनाल्ले अल्ला । हे हूहूः जहातेः पृषोदरादित्वाद् ऊप्रत्यये द्विर्वचनादौ । हे वातप्रमीः? वातं प्रमिमीते “वातात् प्रमः कित्” (उणा० ७१३) इति ईप्रत्ययः । हे ग्रामणीः ? नायमीकारान्तो नित्यदित् किन्तु पुल्लिङ्गोऽपि । हे सुभ्रु ! इति-"केवयुभुरण्टव०" (उणा० ७४६) इति निपातनात् भ्राम्यतेर्भु, शोभनं भ्रु भ्रमणं यस्याः सुभ्रुशब्दात् भीरुध्वनेश्च जातित्वादूङ् परस्य विकल्पेन दित्त्वात् हे सुभूः !, हे भीरो!, प्राप्तमित्यभिप्रायः । अम्बामडतीति लिहादित्वादच् । अम्बां लातीति "आतो डोऽह्वा-वा-मः " (५.१.७६ ) इति डप्रत्ययः । अम्बतेः “णक-तृचौ" (५.१.४८) णक आप्, “अस्याऽयत्त० " (२.४.१११) इति इकारः ।।४३।।