________________
परिशिष्ट-२
४२७ मातुर्मात: पुत्रेऽहे सिनाऽऽमन्त्र्ये ।१।४।४०।। बृन्यास-मातुरित्यादि। आमन्त्र्य इत्यनेन पुत्र इति विशिष्यते तेन च मातुरितीत्याह-मातृशब्दस्येत्यादि। ननु कथं मातृशब्दस्य पुत्रार्थे वृत्तिः? नह्यसौ तत्र वर्तमानः क्वचिद् दृष्टः, सत्यम्-केवलो न वर्तते, बहुव्रीहौ तु तात्पर्यात् वर्तत इत्याहसामर्थ्यादित्यादि। अयमर्थ:-नह्यन्यत्र वर्तमानः शब्दः साक्षादन्यमर्थं प्रतिपादयति, समासे तु स्वपदार्थोपसर्जनतयाऽर्थान्तरं प्रतिपादयत्येव। अहँ इति-प्रशंसायामित्यर्थः, प्रशंसा च प्रधानत्वात् पुत्रस्यैव, न मातुः, अर्हसम्भवेऽपि तदर्थत्वादित्याह-मातृद्वारेणेत्यादि। बहुव्रीहौ हि मातृशब्दस्य ऋकारान्तत्वादृल्लक्षण: कच् प्राप्तः, विशेषविहितत्वात् तदपवादोऽयमित्याह-कचोऽपवाद इति । गर्गस्यापत्यं वढं स्त्री "गर्गादर्यब" (६.१.४२) इति यत्रि "वद्धिः स्वरेष्वा०" (७.४.१) इति वद्धौ "अवर्णवर्णस्य" (५४६/' "यो डायन् च वा" (२.४.६७) इति ड्याम् “अस्य ड्यां लुक्” (२.४.८६) इत्यलोपे "व्यञ्जनात् तद्धितस्य" (२.४.८८) इति यलोपे च गार्गी, एवम्-वात्सी, गार्गी माता यस्येति प्राप्तस्य पुंवद्भावस्य “स्वाङ्गान्डीर्जातिश्च०" (३.२.५६) इति प्रतिषेधादनेन सिना सह मातादेशे गार्गीमातः?, अत्र यो गार्या मात्रा व्यपदेशेन प्रशंसामर्हति (अत्र श्लाघ्यया गार्या मात्रा तत्पुत्र इति व्यपदेशेन प्रशंसामर्हति पुत्रः)। गाय: पिता यस्येति ऋल्लक्षणे कचि गाय॑पितृकः। अरे गागीमातृकेति-अत्र निन्द्यया मात्रा तव्यपदेशयोग्यतया विगुणः पुत्रो निन्द्यत इत्यर्ह इति वचनान्न भवतीति ।।४०।।
ल.न्यास-मातुर्मात इत्यादि। ननु कथं मातृशब्दस्य पुत्रार्थे वृत्तिः? नह्यसौ पुत्रार्थे वर्तमानः क्वचिद् दृष्ट इत्याह-सामर्थ्यादितिअयमर्थ:-केवलो न वर्तते. बहतीही त स्वार्थोपसर्जनतयाऽर्थान्तरं प्रतिपादयत्येव। कचोऽपवाद इति-अनन्तरानन्तरिभावे षष्ठी व्याख्येया. तेन कचा व्यवधाने न स्यात्। संभावित उत्कर्षो यस्याः सकाशात् (तया, तत्पुत्रव्यपदेशयोग्यतया) तत्पुत्र इति व्यपदेश: कथनं तस्य योगः (योग्यतया)। अरे गार्गीमातकोत-अज्ञातपितकत्वेनानेकपितकत्वेन च निन्द्यया मात्रा विगणः पत्रो निन्द्यत इति ।।४।।
ह्रस्वस्य गुणः ।१।४।४१।। बृन्यास-हस्वस्येत्यादि। हस्वस्य अधिकृतस्य नाम्नो विशेषणत्वाद् विशेषणे च तदन्तविधिसम्भवानाम्नः स्थानित्वप्रसक्ती सत्यामाह-श्रुतत्वादित्यादि। “आसनः" (७.४.१२०) इति ज्ञापकादकारस्य तत्प्रत्यासत्रोऽर्, इकारस्य एकारः, उकारस्य ओकारः, अकारस्य “अदेतः स्यमोर्लुक्" (१.४.४४) इति वचनात् सेरभावाद् गुणो न भवति। अथ प्रमाणासत्त्या इकारोकारयोरपि अरादेशः कस्मान भवति? मातृकस्य हि द्विमात्रादध्यर्द्धमात्रिक आसन्नो भवति, न चैवं सति गुणग्रहणमनर्थकं स्थानासत्त्या सोऽपि स्यात्, उच्यते-यथादर्शनं व्यवस्थाऽऽश्रीयते, तत्र "गुणोरेदोत्" (३.३.२) इति गुणसंज्ञायां "नामिनो गुणोऽक्डिति" (४.३.१) इत्यादिभिः ऋवर्णस्यैवारादेशो दृष्टो नेवर्णोवर्णयोः, दृष्टकल्पनां च विहाय को नामादृष्टं कल्पयति?, न चैवं किञ्चिद् बाध्यत इत्युदाहरति-हे पितरित्यादि। अथ हे कर्तृ कुलेत्यादौ ह्रस्वत्वादामन्त्र्यसिना सह गुणः कस्मान भवतीत्याह-अत्र परत्वादित्यादि-"अनतो लुप्" (१.४.५९) इति से पि "लुप्यय्वृल्लेनत्" (७.४.११२) इति * प्रत्ययलोपे प्रत्ययलक्षणस्य * प्रतिषेधादित्यर्थः । लुक्पक्षे तु लुकः स्थानिवद्भावाद् भवत्येवेत्याह-नामिन इत्यादि। हे नदि! इत्यादि-अन्यथा “हस्वस्य गुणः” (१.४.४१) इत्यत्रैव 'नित्यदिद्' इति ग्रहणं कुर्याद् ह्रस्वविधानेऽपि गुणस्य भावादिति ।।४।।
ल.न्यास-हस्वस्येत्यादि। हस्वस्येति अधिकृतस्य नाम्नो विशेषणाद् विशेषणे च तदन्तविधिसंभवादाह-हस्वान्तस्येति। श्रुतत्वादिति -श्रुतो हस्वो हस्वान्तत्वं त्वनुमितम्, *श्रुतानुमितयोश्च श्रौतो विधिबलीयान्* इति न्यायः । ह्रस्वविधानेति-*उभयोः स्थाने यः इति न्यायेन यदा सिव्यपदेशस्तदा सिर्हस्वश्चापि, अतो विधानसामाद, यदा त ह्रस्वव्यपदेशस्तदा सेरभावान भवति ।।४१।।