________________
परिशिष्ट-२
४७
ल.न्यास-दध्यस्थीत्यादि। कच् न भवतीति-"दध्युरः-सपिः” (७.३.१७२) इत्यनेन प्राप्तः, “अक्ष्णोऽप्राण्यङ्गे" (७.३.८५) इत्यपि अनित्यत्वान। अतिदध्या स्त्रियेति-यदाऽत्र “इतोऽक्त्यर्थात्" (२.४.३२) इत्यनेन डोस्तदा तव्यवधानादनेनादेशाभावे 'अतिदध्या' इत्येव भवति, यदा तु दध्यतिक्रान्तं ययेति बहुव्रीहिस्तदा “दध्युरः-सर्पि:०" (७.३.१७२) इत्यनेन कचा भाव्यम्, तस्माद् दध्यतिक्रान्तयेति तत्पुरुष एव न्याय्यः । ननु “दध्यस्थि-सक्थ्यक्ष्णोऽन्" इति क्रियताम्, किमन्तग्रहणेन? सत्यम्-अन्तग्रहणाभावे प्रत्ययत्वात् पदान्तत्वे सति 'दध्या' इत्यत्र “धुटस्तृतीयः" (२.१.७२) इति धस्य दत्वं प्राप्नोति, न च वाच्यम्-व्यपदेशः स्थानी भविष्यति, (आदेशः स्थानीव भविष्यतीति) असद्विधित्वाद् नकारान्तं न स्त्रीत्वे वर्तते, किन्तु 'दधि' इति अतिदध्या' इत्यत्र ङीप्रत्ययोऽपि न स्याद्, इत्येवमर्थमन्तग्रहणम् ।।६३।।
अनामस्वरे नोऽन्तः ।१।४।६४।। बृन्यास-अनामित्यादि। नपुंसकस्येति स्यादावित्यस्य विशेषणम्, तेन नपुंसकस्य संबन्धिन्येव यथा स्यादित्याहनपुंसकस्येत्यादि । “वृग्ण आवरणे" इत्यस्माद् युजादित्वात् णिचि “स्वरेभ्यः" (उणा० ६०६) इति इप्रत्यये वारि, तत औ, अत्रानवकाशत्वाद् “इवर्णादेरस्वे०" (१.२.२१) इति यत्वं परत्वाद् “इदुतोऽस्त्रे०" (१.४.२१) इतीत्वम् “औरी:" (१.४.५६) इति च बाधित्वानेन नागमे “औरी:" (१.४.५६) इति ईत्वे "रघुवर्णान्नोण०" (२.३.६३) इति णत्वे च वारिणी, एवम्-त्रपुणी इत्यादावपि द्रष्टव्यम्। अथ प्रियातिस्रो यस्य कुलस्येति प्रियत्रिशब्दात् षष्ठ्येकवचने नित्यत्वान्नागमे कथं तिस्रादेश इति, नैवम्-स्थानान्तरप्रवृत्त्या न नागमो नित्य इति द्वयोरन्यत्र सावकाशत्वात् परत्वात् पूर्वं तिस्रादेशे कृते पश्चान्नागम इत्याह-प्रियतिसृण इत्यादि। अथ किमर्थमाम्वर्जनम् ? नामि नागमे च रूपस्य समानत्वात्, नैवम्-नागमे सति दीर्घत्वाभावाद् ‘वारीणाम्' इत्यादयो न सिध्येयुरित्याहअनामित्यादि। अथ किमर्थं स्वरग्रहणम् ? न च वाच्यम्-त्रपुभ्यां त्रपुभिरित्यादौ व्यञ्जनेऽपि नोऽन्तः स्यादिति तद्व्यावृत्त्यर्थमिति, कृतेऽपि नागमे "नाम्नो नोऽनहः” (२.१.९१) इति नलोपभावात्, इह तर्हि 'अतिराभ्याम्, अतिराभिः' इति नागमे सति समुदायभक्तत्वादवयवस्य रैशब्दस्य तेन व्यवधानात् स्यादिविधौ च नलोपस्यासिद्धत्वात् 'आ रायो व्यञ्जने' (२.१.५) इत्यात्वं न भवति। अथ स्याद्याक्षिप्तायाः प्रकृते रैशब्देन विशेषणाद् रैशब्दान्तायाः प्रकृतेरात्वं विधीयत इति नास्ति नागमेन प्रकृतेर्व्यवधानम्, तथापि नकारस्यात्वं प्राप्नोति, तस्मिन् पूर्वस्य यत्वे सति 'अतिर्याभ्याम्' इत्यनिष्टं रूपमापद्येत, नैष दोषः-परत्वात् पूर्वमात्वमेव भविष्यति द्वयोरन्यत्र सावकाशत्वादिति। इह तर्हि 'प्रियतिसृभ्याम्, प्रियतिसृभिः' इति नित्यत्वात् पूर्वं नागमे सति तिसृभावो न प्राप्नोति, नैवम् -अत्राप्युभयोरनित्यत्वात् परत्वात् पूर्वं तिसृभावः, तथाहि-शब्दान्तरप्राप्त्या नागमोऽनित्यः, तिसृभावस्तु नागमेन व्यवधानान प्राप्नोतीत्यनित्यः, स हि यद्यपि त्रिशब्दान्तनाम्नो विधीयते, तद्भक्तत्वाञ्च नागमोऽव्यवधायकस्तथापि *निर्दिश्यमानस्यादेशा भवन्ति* इति रेव तिसृभावेन भाव्यम्, स च व्यवहित इति तिसृभावस्याप्राप्तिः, तिसृभावे च कृते * पुनः प्रसङ्गविज्ञानादपि* न भवति, *सकृद् गते विप्रतिषेधे यद् बाधितं तद् बाधितमेव* इति न्यायात्। एवं तर्हि नामादेशे कृते नागमो मा भूदित्येवमर्थम्, तेन त्रपूणाम्, जतूनाम्' इति “दी| नाम्य०" (१.४.४७) इति दीर्घः सिध्यति, असति तु स्वरग्रहणे *कृताकृतप्रसङ्गित्वात्* नागमे सति ह्रस्वाभावानामादेशाभावे दीर्घा न स्यादिति। अथ तत्र विहितविशेषणात् कृतेऽपि नागमे नाम् भविष्यति, यद्वा 'अनाम्' इत्याम्प्रतिषेधात् पूर्वं नामादेशे तस्य च स्थानिवद्भावानागमाभावे न काचित् क्षतिरिति;, एवं तर्हि स्वरादौ यथा स्यादिह मा भूत्-त्रपु, जतु, *प्रत्ययलोपलक्षणेन०* स्यादिसद्भावात्। अथ “लुप्यय्वृल्लेनद्" (७.४.११२) इति प्रतिषेधात् स्यादेरभावान भविष्यति, सत्यम्-अत एव स्वरग्रहणात् क्वचित् *प्रत्ययलक्षणं* भवतीति विज्ञायते, तेन 'त्रपो!, प्रियतिस कुलम्, प्रियचतस कुलम्' इति सिद्धम्। अत एव च "नामिनो लुग वा" (१.४.६१) इति तदनुवादः कृतः, द्विविधं हि विभक्तेरस्तित्वं मुख्यमौपचारिकं च, तत्र मुख्यं श्रूयमाणायाः, इतरत् तु लुप्तायाः, तत्कार्यस्य ह्यस्तित्वाद् विभक्तिरप्युपचारेणास्तीत्युच्यते तद्यथा-अस्त्यतीतं कर्मेति, अत्र हि अतीतेन कर्मणा यदाहितं फलदानसामर्थ्यं तस्यास्तित्वात् कर्माप्यस्तीत्युक्तम्। तत्र स्यमो: “नामिनो लुग् वा" (१.४.६१) इति लुप्तत्वान्मुख्यं तावदस्तित्वं