________________
४३८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
नास्ति, लुक्पक्षे प्रत्ययलोपलक्षणादुपचरितमस्तीत्याह - स्वर इत्यादि । पूर्वसूत्रे च स्वरग्रहणं टादिसम्बद्धमेवेति नेहानुवर्तनीयमिति । कथं "मर्यादाऽभिविधौ च यः" इति समाहारत्वे नपुंसकत्वात् स्वरे नागमो न भवतीति, उच्यते - समाहारोऽत्र समुदायः, सोऽवयवधर्मेणाभिविध्यवयवत्वादभिविधिर्मर्यादावयवत्वान्मर्यादेति व्यपदिश्यते, ततो विशेषणसमासेन सिद्धम्। “तुबु अर्दने” अतः “तुम्बेरुरुः” (उणा० ८१७) इत्युरौ तुम्बुरुणो (वृक्षस्य) विकारोऽवयवचूर्णं "प्राण्योषधिवृक्षेभ्यो०" (६.२.३१) इत्यणि "वृद्धिस्वरेष्वा०" (७.४.१) इति वृद्धौ स्याद्यभावान्नागमाभावे " अस्वयम्भुवोऽव्" (७.४.७०) इत्यवादेशे तोम्बुरवम् ।। ६४ ।।
ल.न्यास-अनामित्यादि-अनाम् चासौ स्वरश्चानाम्-स्वरः । अथाम्वर्जनात् स्वरे लब्धे स्वरग्रहणं टादावित्यधिकारनिवृत्त्यर्थम्। अन्तग्रहणं विना 'प्रियतिसृणि' इत्यादी नस्य प्रत्ययत्वं स्यात्, तथा च प्रियतिसृणीत्यादौ निमित्ताभावे० इति तिस्रादेशो निवर्तेत, तथा प्रत्ययाप्रत्ययोः० इति न्यायेनास्य नकारस्य प्रत्ययस्यापि संभवे वनानीत्यादावेव दीर्घः स्यात्, न तु राजानमित्यादौ । प्रियतिसृण इति - यदि पूर्वं नागमः स्यात् तदानीं किं विनश्येत् ? यतः स्वाङ्गमव्यवधायकम् इति कृत्वा कृतेऽपि नागमे तिस्रादेशो भविष्यति, तत् कथं परत्वादित्युक्तम् ? अत्रोच्यतेयस्मान्नागमः समानीतस्तस्य यदि किमपि प्राप्नोति तदानीमयं न्याय उपतिष्ठते, अत्र तु 'प्रियत्रिन्' इत्यस्य न किमपि प्राप्नोति, अपि तर्हि अवयवस्य तिस्रादेशः, ततश्चावयवस्यावयवेन व्यवधानम्, न तु अवयवेनावयविनः, यथा - देवदत्तस्य श्मश्रु न दृष्टं हस्तेन व्यवहितत्वात्, नहि कोऽपीत्थं वदति-यदुत, देवदत्तो न दृष्टः, हस्तेन व्यवहितत्वात् । तौम्बुरवं चूर्णं तुम्बुरुणः विकारः " प्राण्योषधि०" (६.२.३१) इत्यादिना अण्, तस्य लुप्, तस्य विकारः, विकारे पुनरण्, तुम्बुरुणो वृक्षस्य विकारश्चूर्णम्, एकस्मिन्त्रणि वा "अस्वयम्भुवोऽव्" (७.४.७०) इति, परत्वाद् भविष्यतीति न वाच्यम्, पुं-स्त्रीलिङ्गयोरेव सावकाशो नपुंसके तु विशेषविधानादिदं प्राप्नोति । नामिन इत्येवेति-क्लीबे नाम्यन्तस्य सत्त्वे स्यादौ विज्ञानात् कुलयोरित्यत्रैत्वे कृते न नागमः, द्वयोरित्यत्रापि आदेशादागमः इति न्यायेन नागमः प्राप्नोति, न-परत्वादन्तरङ्गत्वाच्च "आ द्वेरः " (२.१.४१) इत्यत्वम्, पश्चाद् एत्वे कृते सकृद् इति न्यायः । । ६४ ।।
स्वराच्छौ । १।४ । ६५ ॥
बृ०न्यास – स्वरादित्यादि । इह स्याद्यधिकारादन्यस्य शेरभावाज्जस्-शसादेश एव शिर्गृह्यत इत्याह-जस् - शसादेश इत्यादि । कुण्डशब्दाज्जसः शसो वा “नपुंसकस्य शिः " (१.४.५५) इति श्यादेशेऽनेन नागमे “नि दीर्घः " (१.४.८५) इति दीर्घत्वे कुण्डानि, एवमन्यदपि। चतुर्-अहन्शब्दाभ्यां पूर्ववच्छ्यादेशे स्वरादिति वचनान्नागमाभावे “वाः शेषे” (१.४.८२) इति वादेशे "नि दीर्घः " (१.४.८५) इति दीर्घत्वे चत्वारि, अहानि, एवम् विमला द्यौर्येष्वहस्सु इति बहुव्रीहौ पूर्ववच्छ्यादेशे विमलदिवि । नन्विवर्णादेः 'अनाम्स्वरे नोऽन्तः" (१.४.६४ ) इति शौ नागमः सिद्ध एव, आकारस्य त्वन्त्यस्य नपुंसके हस्वविधानात् स्थितिरेव नास्तीति 'अतः' इत्येव युज्यते, किं स्वरग्रहणेनात आह- अत एवेत्यादि । उत्तरार्थमिति - उत्तरसूत्रे स्वरग्रहणं प्रयोजनवदित्यर्थः ।। ६५।।
ल. न्यास - स्वराच्छाविति । अत इत्येवेति ननु इवर्णादेः " अनाम्स्वरे नोऽन्तः " (१.४.६४) इति शौ नागमः सिद्ध एव, आकारातस्य तु अन्त्यस्य नपुंसके हस्वविधानात् स्थितिरेव नास्तीति 'अतः' इत्येव युज्यते, किं स्वरग्रहणेन ? अत आह - उत्तरार्थमिति । । ६५ ।।
धुटां प्राक् ।१।४।६६।।
बृ० न्यास – धुटामित्यादि । इह धुट इति नपुंसकस्येत्यस्य विशेषणम्, तत्र तदन्तविज्ञानमित्याह - तदन्तनपुंसकस्येति । प्रागिति दिक्शब्दत्वात् तद्योगे च पञ्चमीविज्ञानादन्यस्यासम्भवाद् धुट एव विज्ञायत इत्याह-धुड्भ्य एव प्रागिति । पयस्शब्दाज्ञ्जसः “नपुंसकस्य शिः" (१.४.५५ ) इति श्यादेशे शकारात् पूर्वमनेन नागमे "न्स्महतोः " (१.४.८६ ) इति दीर्घत्वे “शिड्डेऽनुस्वारः" (१.३.४०) इत्यनुस्वारे पयांसि एवम् - यशांसि इत्याद्यपि द्रष्टव्यम् । ननु 'श्रेयांसि भूयांसि' इति धुड्लक्षणे नागमे कृते