________________
४३८
परिशिष्ट-२ * पुनः प्रसङ्गविज्ञानाद्* ऋदुदिल्लक्षणः प्राप्नोतीति तस्य प्रतिषेधो वक्तव्यः, न च ऋदुदिल्लक्षणमयं बाधिष्यत इति वाच्यम्, व्यक्ती पदार्थ * सकृद्गते विप्रतिषेधे यद् बाधितं तद् बाधितमेव* इति न्यायः प्रवर्तते, आकृतौ तु नास्यावतारः 'इत्युत्तरः?' इत्युभयो गमयोः प्रसङ्गे परस्परप्रतिबन्धादप्रतिपत्तौ प्राप्तायां * स्पर्द्ध परमिष्टं भवति इति वचनेन पूर्वो नागमो विधीयमान उत्तरकालप्राप्तं निमित्तवन्तं परं नागमं न शकाति बाधितुम्, तथा चोच्यते- * पुनः प्रसङ्गविज्ञानात्* सिध्यतीति, अनागमस्य पूर्वो विधीयते सनागमस्य तु पर इति कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात्? स्यादेतदन्यस्याप्युच्यमानं कार्यमन्यस्य बाधकं भवति, उच्यते-असति खल्वपि सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात्, क्रमेण च नागमयोविधानादन्त्यात् स्वरात् परत्वमपि सम्भवति, यथा-'पचति' इति धात्वपेक्षं तिव्-शवोः, भवतु को दोषः?, द्वयोर्नकारयोः श्रवणं प्रसज्येत, नैवम्-व्यञ्जनपरस्यैकस्य वाऽनेकस्य वा श्रवणं प्रति विशेषाभावात् ननु चैकस्यैको नकारोऽपरस्य द्वावित्येकत्वप्रतिज्ञाभेदः, श्रुत्यभेदे किं प्रतिज्ञाभेदः करिष्यति?, कथं पुनः श्रुतिभेदाभावः? यावताऽनेकव्यञ्जनोच्चारणेनाधिकः कालो व्याप्यते, एकव्यञ्जनोच्चारणेन त्वल्पः काल इति, उच्यते-*स्वरकालव्यतिरेकेण व्यञ्जनानि कालान्तरं नाक्षिपन्ति* इति दर्शनाश्रयेणैतदुच्यते, यत् तु शास्त्रे व्यञ्जनानां कालः परिगण्यते तद् गुरुलाघवनिरूपणया, अनेकोञ्चारणे हि प्रयनगौरवं भवति, लौकिके तु प्रयोगे गुरुलाघवानादरात् श्रुत्यभेद उच्यते। अन्ये तु व्यञ्जनानां कालभेदमिच्छन्त्येव। ननु श्रुतिकृतोऽपि भेदोऽस्ति, तथाहि-'श्रेयांसि भूयांसि' इति परस्यानुस्वारे कृते पूर्वनकारस्य श्रवणं प्राप्नोति, अयोगवाहानां स्वरत्वाभ्युपगमात् शिट्त्वाभावात् ; कुर्वन्तीत्यत्र परस्य तवर्गान्त्ये कृते पूर्वस्य णत्वमिति; (अनुस्वारस्य) स्वरत्वाभ्युपगम: “औदन्ताः०" (१.१.४) इत्यत्र औकारस्यान्ता इति समासपरिग्रहात्, ते चानुस्वार-विसृष्ट- क-)( पा एव। ननु *वर्णग्रहणे जातिग्रहणात्* द्वयोर्नकारयोरेकोऽनुस्वार आदेशो विधास्यते, नैतदस्ति-जाते: कार्यासम्भवात् तदाधाराया व्यक्तेः कार्यसम्भवात् व्यक्तिलक्षणस्थानिभेदादनुस्वारादेशद्वयप्रसङ्गात्। किञ्च, "नाम्०" (१.३.३९) इति-बहुवचनस्यान्यार्थत्वाद् गुणत्वादेकत्वसंख्याया विवक्षितत्वादेकस्यैव नकारस्यानुस्वारः स्यात्, न तु द्वयोः। एवं तर्हि व्यक्तिपदार्थाश्रयपूर्वविप्रतिषेधाद् धुडन्तलक्षणो नागम उदिल्लक्षणं बाधते, 'युवाम्' इत्यत्र “अमौ मः" (२.१.१६) इति मादेश: “औरी:” (१.४.५६) इतीत्ववदिति। पुनः प्रसङ्गविज्ञानं च जातिपक्षानभ्युपगमादत्र न भवति। यद्यप्युक्तम्-'असति सम्भवे बाधनम्' इति, तदपि न-सत्यपि सम्भवे बाधनोपपत्तेः, यथा-'दधि ब्राह्मणेभ्यो दीयताम्, तर्क कौण्डिन्याय' इति, सत्यपि दधिदानस्य सम्भवे तक्रं निवर्तकं भवति, एवमत्रापि। यद्यपि दृष्टान्ते सामान्यविशेषभावो बाधहेतुः, दान्तिके तु स्पर्द्ध परमेवेति नियमस्तथापि विनापि विरोधेन दृष्टं बाधकत्वमित्युपदर्शनाय दृष्टान्तोपन्यासः । यद्यप्युक्तम्-श्रुतिकृतोऽपि भेदोऽस्ति, तत्र पूर्वनकारस्य श्रवणम्, सोऽप्यदोष:-अयोगवाहानामपि विशेषेणोपदेशात् शिट्त्वात् पूर्वस्याप्यनुस्वारो भवति, ततो द्वयोरनुस्वारयोः श्रुतिं प्रति विशेषाभावः । 'कृषन्ति' इत्यत्रापि “म्नाम्०" (१.३.३९) इति बहुवचनस्य व्याप्त्यर्थत्वात्, पूर्वनकारस्य वर्गान्त्ये तु कृतेऽपरस्यापि वर्गान्त्यः । नैव वा उदिल्लक्षणः प्राप्नोति, 'स्वरात् परः' इति 'धुटां प्राग्' इति च तत्रानुवृत्तेः, न च द्वयोर्नकारयोरेकस्वरापेक्षं परत्वं सम्भवति, पचति' इत्यत्र तु शिति परतः शवविधानाद् विकरणव्यवधानमाश्रितमेवेति। अथवेष्टसिद्ध्यर्थं हि पूर्वविप्रतिषेधाश्रयणम्, इह च तदाश्रयणादनिष्टापत्तेः परविप्रतिषेधादृदुदिल्लक्षण एव भवति। अतिजरांसि इति-जरामतिक्रान्तानि कुलानीति “क्लीबे" (२.४.४७) इति ह्रस्वत्वे "नपुंसकस्य शिः" (१.४.५५) इति जसः शसो वा श्यादेशे 'जरसा, कुण्डानि' इत्यत्र तयोः सावकाशत्वादत्रोभयप्राप्तौ नागमं बाधित्वा परत्वाजरस् भवति, अत्र हि अतिजर इ' इति स्थिते यदि पूर्वं नागमः स्यात् स च प्रकृतिभक्त इति प्रकृतिमेव न व्यवदध्याद्, अवयवस्य तु जरशब्दस्य व्यवधायक इति *निर्दिश्यमानस्यादेशा भवन्ति* इति स्याद्याक्षिप्तनामाधिकारे सत्यपि तदन्तग्रहणे जरान्तायाः प्रकृतेोऽवयवो जरशब्दस्तस्य विभक्तौ जरसादेशो विधीयमानो न प्राप्नोति; अथापि स्यात् तथापि सकारात् परस्य नकारस्य श्रवणं स्यात्, तस्मात् परत्वात् पूर्वं जरसादेश एव एष्टव्यः, तस्मिन् कृते धुडन्तलक्षणो नागमः। अथेह लुक् कस्मान्न भवति? अतिजरसं पश्येति, अतिजर अम्' इति स्थिते *एकदेशे विकृतस्यानन्यत्वात्* जरशब्दस्य जरसि कृते “अनतो लुप्" (१.४.५९) इति लुप् प्राप्नोति, नन्वतिजरशब्दस्यादन्तत्वात् “अतः स्यमोऽम्" (१.४.५७)