Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 490
________________ परिशिष्ट-२ ४३१ 'शालाः पश्य, यकृन्ति' इत्यादौ उभयोर्दीर्घत्व-श्यादेशयोः सावकाशत्वाद् ‘वनानि' इत्यादौ उभयप्राप्तौ परत्वाच्छिरेवेत्याहवनानीत्यादि।।४९।। ल.न्यास-शसोऽतेत्यादि। समानस्योत-अत्र यद्यपि समानस्य शसोऽकारस्य च स्थानित्वम्, तथापि *प्रधानानुयायिनो व्यवहारा भवन्ति* इति प्रधानस्थान्यासन एव दीर्घा भवति, प्रधानत्वं च षष्ठीनिर्दिष्टस्य समानस्यैवेति, प्रधानस्थान्यासन्न इति वचनाद् 'मुनीन्' इत्यादी शसोऽकारस्य "अवर्ण-हविसर्गः" इति आसन्नत्वेऽप्याकारो न भवति। वातप्रमीनिति-वातं प्रमिमते "वातात् प्रमः कित्" (उणा० ७१३) ईप्रत्ययः, देवनन्दिना मृगेऽपि स्त्रीलिङ्ग उक्तः ।।४९।। संख्या-साय-वेरहस्याहन् ङौ वा ।१।४।५०।। बृन्यास-संख्येत्यादि। (संख्या-साय-वेरिति) समाहारद्वन्द्वात् पञ्चमी, (अह्नस्येति) 'व्यह्न' इत्यादाववस्थितस्य ‘अह्र' इत्येकदेशस्यानुकरणात् षष्ठी। द्वयोरहोर्भव इति समासप्रत्ययविधौ तदन्तविधेरनिष्टत्वात् “वर्षाकालेभ्यः" (६.३.८०) इतीकणोऽसम्भवात् भाविन्यणि “संख्या समाहारे च०" (३.१.९९) इति द्विगुसमासेऽटि अह्रादेशे "भवे" (६.३.१३) इत्यणि “द्विगोरनपत्ये" (६.१.२४) इति तल्लुपि च ङावनेन ‘अहन्' इत्यादेशे "ईडौ वा" (२.१.१०९) इति विकल्पेनाकारलोपे वयह्नि, यहनि, ह्यह्ने, एवम्-त्रिषु यावत्सु तावत्सु वा भव इति, शेषं पूर्ववत्। संख्यापूर्वस्य तद्धित एवोदाहरणम्, समाहारेऽह्लादेशस्य उत्तरपदे डिप्रत्ययस्य चाभावादिति। सायमहः “सायाह्रादयः" (३.१.५३) इति समासे “सर्वांश-संख्या-ऽव्ययात्" (७.३.११८) इत्यहादेशे चात एव निर्देशान्मकारलोपे पूर्ववदहनादेशादौ सायाह्नि इत्यादि। व्यह्नि इति-प्रादिसमासः। व्यहे इति-"द्विगोरन्नह्रो०" (७.३.९९) इत्यटि "नोऽपदस्य तद्धिते" (७.४.६१) इत्यन्त्यस्वरादिलोपः ।।५० ।। ___ ल.न्यास-संख्या-सायेत्यादि। अग्विषये इति-द्वयोरहोर्भव: “संख्या समाहारे च०" (३.१.९९) इति तद्धितविषये द्विगुसमासेऽ. विषयेऽटि अह्रादेशः, शाकटायनस्तु "वर्षाकालेभ्यः" (६.३.८०) इति इकण्प्रत्ययविषयेऽट्प्रत्ययमिच्छति, स्वमते तु न 'द्वयह' इत्यस्याकालवाचित्वात्। यावदह्नि इत्यादिषु दुसंज्ञकेषु "दोरीयः" (६.३.३२) विषयेऽटि तत ईयः; तस्य च "द्विगोरनपत्ये०" (६.१.२४) इति लुक्। यहे इति-"द्विगोरनह०" (७.३.३९) इत्यत्र अहन्ग्रहणात् ज्ञापकात् “सर्वांश०" (७.३.११८) इति परमप्यटं बाधित्वा “द्विगोरहनहोऽट्" (७.३.९९) इत्यः ततोऽहाभावः ।।५० ।। निय आम् ।१।४।५१।। बृन्न्यास-निय इत्यादि। प्रयुक्तानामन्वाख्यानाद् 'आम्' इति प्रयोगादर्शनाद् 'नियः' इति पञ्चमीनिर्देशात्, ङावित्यस्य षष्ठ्या विपरिणामे स्थानित्वमित्याह-नियः परस्य डे: स्थाने इति। नयतेः क्विपि ङौ आमादेशे “धातोरिवर्णोवर्णस्य०" (२.१.५०) इतीयादेशे नियाम्, ग्रामपूर्वात् तु “क्विब्वृत्तेरसुधियस्तो” (२.१.५८) इति यत्वे ग्रामण्याम्। अस्य तु “आमो नाम् वा" (१.४.३१) इति “हस्वापश्च" (१.४.३२) इति च नामादेशो न भवति, तत्र नित्यस्त्रीदूतोऽधिकृतत्वात् ।।५१।। ल.न्यास-निय इत्यादि। ननु ग्रामण्यामित्या नी साक्षानास्ति किन्तु णी इत्यामो न प्राप्तिः, सत्यम्-स्यादिविधौ णत्वमसिद्धम्। अस्यामः “आमो नाम् वा" (१.४.३१) इति नामादेशो न भवति, तत्र नित्यस्त्रीदूतोरधिकृतत्वात्। ननु *एकदेशविकृत०* इति क्लीबेऽपि प्राप्तिरस्ति, न-निय ई नी इतीकारप्रश्लेषात् 'निनि, ग्रामणिनि कुले' इत्येव भवति, भोजेन तु भूतपूर्वन्यायेन नपुंसकेऽपि नियामित्युक्तम्।।५१।।

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564