Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 489
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ४३० ल.न्यास-समानादित्यादि। अचिनवमिति-न च वाच्यं परत्वानित्यत्वाञ्च गुणेन भाव्यमिति, प्राप्तौ सत्यां हि परत्वं नित्यत्वं च चिन्त्यत इति ।।४६।। दीर्घो नाम्यतिसृ-चतसृ-षः ।१।४।४७॥ बृन्यास-दी? नामीत्यादि। अत्र स्याद्यधिकारादामादेश एव नाम् गृह्यत इत्याह-आमादेशे नामीति। तिसृणाम्, चतसृणाम् इति। त्रि-चतुरोरामि परत्वात् “त्रि-चतुर०" (२.१.१) इति तिसृ-चतस्रादेशे “हस्वापश्च" (१.४.३२) इति नामादेशः। षण्णाम्, चतुर्णाम् इति-"संख्यानां र्णाम्" (१.४.३३) इति नामादेशः; ननु नात्र समानस्य नाम्युच्यमानो दीर्घः प्राप्नोति, षकाररेफाभ्यां तस्य व्यवधानात्, तयोश्चासमानत्वात्, सप्तम्या निर्दिष्टे चोपश्लिष्टस्यैव कार्यभावात्, सत्यम्-अयमेव प्रतिषेधो ज्ञापयतियदुत, वर्णान्तरव्यवहितेऽपि नामि पूर्वसमानस्य दीर्घा भवतीत्याह-अष् इत्यादि। दधिनामेत्यादौ स्याद्यधिकाराद् 'नामन्' इत्याद्येकदेशस्यानर्थकत्वाद् वा दीर्घो न भवतीत्याह-स्यादाविति। यद्येवमिह तर्हि प्राप्नोति-दण्डस्य नामो दण्डनाम इति, अत्र हि नामिति धातुर्घजि प्राप्ताकारोऽर्थवान् इति, उच्यते-तत्रापि समुदाय एवार्थवान्, अवयवानां तु काल्पनिकमर्थवत्त्वमन्वय-व्यतिरेकाभ्यां कल्पितत्वात्, अयं तु नाम इति आमादेश एव प्रतिपदोक्त इति न भवति ।।४७ ।। ल.न्यास-दीर्घो नाम्येत्यादि। आमादेश इति स्याद्यधिकारदामादेश एव गृह्यतेऽत इदमुक्तम्। अष् इति-ननु षकार-रेफाभ्यां व्यवधानादेव न भविष्यति दीर्घः, किं धूवर्जनेन? इत्याह-नकारेणेति-अन्यव्यञ्जनेन तु असम्भव इति ।।४७ ।। नुर्वा ।१।४।४८॥ बृन्यास-नुर्वेति। अथेह वाग्रहणमन्तरेणापि नित्यं दीर्घविधेः पूर्वेणैव सिद्धत्वात् पृथग्वचनाद् विकल्पोऽवसीयते, अतिस-चतसृ-ष इत्यत्राकरणात् प्रतिषेधाशङ्काऽपि न विधेया, तिस-चतसृप्रतिषेधाइकारान्तस्य नृशब्दस्यैवेति नियमोऽपि नाशङ्कनीयः, उच्यते-पृथग्वचनस्यानर्थक्यपरिहाराय विकल्पयितव्ये पूर्वो विधिनित्योऽयं विकल्पित इति किं न स्यात् ? युक्तं चैवम्-अयं विधिनित्य इति द्विवचनात् *द्विद्धं सुबद्धं भवति* अतो वाग्रहणादयं विधिविकल्पितः, पूर्वो नित्य इति विज्ञायते।।४८।। शसोऽता सश्च नः पुंसि ।१।४।४९॥ बृन्यास-शसोऽतेत्यादि। अत्र यद्यपि समानस्य शसोऽकारस्य च स्थानित्वम्, तथापि *प्रधानानुयायिनो व्यवहारा भवन्ति* इति प्रधानस्थान्यासन एव दीर्घो भवति, प्रधानत्वं च षष्ठीनिर्दिष्टस्य समानस्यैवेत्याह-समानस्येत्यादि। चकाराद् भिन्नार्थं वाक्यद्वयमित्याह-तत्सत्रियोगे चेत्यादि। पुंस्त्वं त्वत्र वैयाकरणप्रसिद्धं लिङ्गम्, यत्रायमिति प्रत्ययोऽनुवर्तते, नेदमियमिति वा, न तु लौकिकं प्रजननयोन्यभिव्यक्तं प्राणिधर्मः, तत्र हि भ्रकुंसान् पश्य, स्त्रियोऽपि हि यदा पुरुषवेषधारिण्यो भ्रकुंसा उच्यन्ते तदा स्त्रीवृत्तिरयं न पुंवृत्तिः, तथा 'षण्ढान् पश्य, पण्डकान् पश्य' इति नपुंसकेऽपि न सिद्ध्यति, तथा 'वृक्षान् पश्य' इत्यप्राणिष्वपि, तथा 'चञ्चा इव चञ्चाः पुरुषान् पश्य' इत्यत्रापि पुरुषवृत्तित्वात् प्राप्नोति। नन्वस्तु वैयाकरणप्रसिद्धस्य पुंस्त्वस्य ग्रहणम्, तथापि 'चञ्चाः, खरकुटी: यष्टीः पुरुषान् पश्य' इत्यादौ प्राप्नोति, अत्र हि चञ्चादयः शब्दाः सादृश्यात् पुरुषेषु वर्तमानास्तत्पुंस्त्वमुपाददते, तेन पुलिँङ्गविषये शसित्याह-अत्रेत्यादि। अयमर्थः-अभेदोपचारेण हि शब्दोऽर्थान्तरे वर्तमानः शब्दशक्तिस्वाभाव्यात् स्वलिङ्गमपरित्यजन्नेव वर्तत इति। यदा त्विति-लौकिकस्य पुंस्त्वस्याग्रहणादयमिति प्रत्ययस्य तत्रानुवृत्तेरिति शेषः। एतान् गाः पश्य इति-दीर्घसन्नियोगेन नकारस्य विधीयमानत्वात् *सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः* इति न्यायाद् दीर्घत्वाभावे नकारस्याप्यभाव इत्यर्थः ।

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564